निर्वाणदर्शनम्

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.


निर्वाणं द्विविधं शुद्धमशुद्धं चेति तत्र यत् ।
शुद्धं निर्वासनं तद्वदशुद्धं वासनान्वितम् ॥ १॥

अतिशुद्धं शुद्धमिति शुद्धं च द्विविधं तथा ।
अशुद्धशुद्धं चाशुद्धमशुद्धाशुद्धमुच्यते ॥ २॥

अतिशुद्धं त्रिधा पश्चाद्वरे चैकं वरीयसि ।
एकमेकं वरिष्ठेऽथ शुद्धं बह्मविदि स्थितम् ॥ ३॥

अशुद्धशुद्धं विरजस्तमोऽन्यत् सरजस्तमः ।
मुमुक्षौ प्रथमं विद्यात् द्वितीयं सिद्धिकामिषु ॥ ४॥

दग्ध्वा ज्ञानाग्निना सर्वमुद्दिश्य जगतां हितम् ।
करोति विधिवत् कर्म ब्रह्मविद्ब्रह्मणि स्थितः ॥ ५॥

सन्यस्य सर्वकर्माणि सततं ब्रह्मनिष्ठया ।
यश्चरत्यवनौ देहयात्रायै ब्रह्मविद्वरः ॥ ६॥

अन्येन वेदितो वेत्ति न वेत्ति स्वयमेव यः ।
स वरीयान् सदा ब्रह्मनिर्वाणमयमश्नुते ॥ ७॥

स्वयं न वेत्ति किञ्चिन्न वेदितोऽपि तथैव यः ।
स वरिष्ठः सदा वृत्तिशून्योऽयं ब्रह्म केवलम् ॥ ८॥

हेयोपादेयता न ह्यस्यात्मा या स्वप्रकाशकः ।
इति मत्वा निवर्त्तेत वृत्तिर्नावर्तते पुनः ॥ ९॥

एकमेवाद्वितीयं ब्रह्मास्ति नान्यन्न संशयः ।
इति विद्वान् निवर्तेत द्वैतान्नावर्तते पुनः ॥ १०॥

ओं तत् सत्

N/A

References : N/A
Last Updated : February 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP