भक्तिदर्शनम्

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.


भक्तिरात्मानुसन्धानमात्माऽऽनन्दघनो यतः ।
आत्मानमनुसन्धत्ते सदैवात्मविदात्मना ॥ १॥

अनुसन्धीयते ब्रह्म ब्रह्मानन्दघनं यतः ।
सदा ब्रह्मानुसन्धानं भक्तिरित्यवगम्यते ॥ २॥

आनन्दमेव ध्यायन्ति सर्वे दुःखं न कश्चन ।
यदानन्दपरं ध्यानं भक्तिरित्युपदिश्यते ॥ ३॥

आत्मैव ब्रह्म भजति नान्यमात्मानमात्मवित् ।
भजतीति यदात्मानं भक्तिरित्यभिधीयते ॥ ४॥

आनन्द आत्मा ब्रह्मेति नामैतस्यैव तन्यते ।
इति निश्चितधीर्यस्य स भक्त इति विश्रुतः ॥ ५॥

आनन्दोऽहमहं ब्रह्मात्माऽहमस्मीति रूपतः ।
भावना सततं यस्य स भक्त इति विश्रुतः ॥ ६॥

भार्या भजति भर्त्तारं भर्त्ता भार्यां न केवलम् ।
स्वानन्दमेव भजति सर्वोऽपि विषयस्थितम् ॥ ७॥

एवं पश्यति कुत्रापि विद्वानात्मसुखं विना ।
न किञ्चिदपरं तस्य भक्तिरेव गरीयसी ॥ ८॥

लोकस्य पितरि स्वस्य गुरौ पितरि मातरि ।
सत्यस्य स्थापितरि च तत्पथेनैव यातरि ॥ ९॥

नियन्तरि निषिद्धस्य सर्वेषां हितकर्तरि ।
योऽनुरागो भक्तिरत्र सा परा परमात्मनि ॥ १०॥

N/A

References : N/A
Last Updated : February 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP