मुनिचर्यापञ्चकम्

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.


इत्यादि वादोपरतं महान्तं प्रशान्तगंभीरनिजस्वभावम् ।
शोणाचले श्रीरमणं समीक्ष्य प्रोवाच नारायणसंयमीन्द्रः ॥

भुजः किमुपधानतां किमु न कुंभिनी मञ्चतां
व्रजेत् वृजिनहारिणी स्वपदपातिनी मेदिनी ।
मुनेरपरसम्पदा किमिह मुक्तरागस्य त-
त्त्वमस्यधिगमादयं सकलभोग्यमत्यश्नुते ॥ १॥

मुनिः प्रवदतां वरः क्वचन वाग्यमी पण्डितो
विमूढ इव पर्यटन् क्वचन संस्थितोऽप्युत्थितः ।
शरीरमधिगम्य चञ्चलमनेहसा खण्डितं
भजत्यनिशमात्मनः पदमखण्डबोधं परम् ॥ २॥

अयाचितमलिप्सया नियतिदत्तमन्नं मुनि-
स्तनोः स्थितय इत्यदन् पथि शयानकोऽव्याकुलः ।
सदात्मदृगनश्वरं स्वपरमात्मनोरैक्यतः
स्फुरन् निरुपमं पदं निजमुपैति सच्चित् सुखम् ॥ ३॥

असत्सदिति वादतो बहिरचिन्त्यमग्राह्यम-
ण्वखर्वममलं परं स्तिमितनिम्नमत्युन्नतम् ।
पराङ्मुख इतस्ततः परिसमेति तुर्यं पदं
मुनिस्सदसतोरद्वयादुपरिगन्तुमभ्युद्यतः ॥ ४॥

स्ववेश्मनि वने तथा पुलिनभूमिषु प्रान्तरे
क्व वा वसतु योगिनो वसति मानसं ब्रह्मणि ।
इदं मरुमरीचिकासदृशमात्म,दृष्ट्याखिलं
निरीक्ष्य रमते मुनिर्निरुपमे परब्रह्मणि ॥ ५॥

N/A

References : N/A
Last Updated : February 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP