योगदर्शनम्

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.


सततं योजयति यद्युनक्ति च चिदात्मनि ।
मनोनिरोधरूपोऽयं स योग इति शंसितः ॥ १॥

न द्रष्टा दर्शनं दृश्यं विद्यते यत्र तत्र हृत् ।
योजयेद्वासना यावद्योगोऽयमिति योगवित् ॥ २॥

नामरूपमिदं सर्वं ब्रह्मैवेति विलीयते ।
यद्ब्रह्मणि मनो नित्यं स योग इति निश्चितः ॥ ३॥

चित्तस्य तैलधारावद्वृत्त्याऽऽविच्छिन्नयाऽऽत्मनि ।
निरन्तरं रम्यते यत् स योगो योगिभिः स्मृतः ॥ ४॥

यतो यतो मनो याति सदाऽऽत्मनि ततस्ततः ।
नियम्य योजयेदेतद्योगोऽयं युज्यतामिह ॥ ५॥

सर्वानर्थकरः पुंसां सङ्कल्पः कल्पितैः सह ।
उन्मूल्य वासनाजालैर्येनात्मनि निरुध्यते ॥ ६॥

दृश्यस्य न दृशोऽस्तित्वमतो दृश्यं दृगात्मकम् ।
इति युञ्जीत दृग्रूपे यः स योगविदां वरः ॥ ७॥

यदा पिबन् मनोभृंगः स्वानन्दमधुमाधुरीम् ।
न स्पन्दति वशीकृत्य योजितो योगवायुना ॥ ८॥

ध्यानमन्तर्भ्रुवोर्दृष्टिर्जिह्वाग्रं लंबिकोर्ध्वतः ।
यदा स्यात् खेचरीमुद्रा निद्रालस्यादिनाशिनी ॥ ९॥

ज्ञानं कर्मेति लोकेऽस्मिन् द्विधा योगः समासतः ।
अनयोर्योगविस्तारः सर्वः परिसमाप्यते ॥ १०॥

N/A

References : N/A
Last Updated : February 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP