संस्कृत सूची|संस्कृत स्तोत्र साहित्य|स्तोत्रः|नारायणगुरुविरचितानि स्तोत्राणि| ज्ञानदर्शनम् नारायणगुरुविरचितानि स्तोत्राणि स्तोत्रक्रियाः विनायकाष्टकम् श्रीवासुदेवाष्टकम् विष्ण्वष्टकं भद्रकाल्यष्टकम् षाण्मातुरस्तवम् गुहाष्टकम् बाहुलेयाष्टकं चिदंबराष्टकम् जातिनिर्णयम् धर्मः आश्रमम् मुनिचर्यापञ्चकम् अध्यारोपदर्शनम् अपवाददर्शनम् असत्यदर्शनम् मायादर्शनम् भानदर्शनम् कर्मदर्शनम् ज्ञानदर्शनम् भक्तिदर्शनम् योगदर्शनम् निर्वाणदर्शनम् ब्रह्मविद्या पञ्चकम् निर्वृतिपञ्चकम् श्लोकत्रयी होममन्त्रम् वेदान्तसूत्रम् समाधि श्लोकौ ज्ञानदर्शनम् देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते. Tags : godgoddessnarayan gurustotraदेवतादेवीनारायण गुरुसंस्कृतस्तोत्र ज्ञानदर्शनम् Translation - भाषांतर ज्ञानमेकं हि निरुपाधिकं सोपाधिकं च तत् ।अहङ्कारादिहीनं यज्ज्ञानं तन्निरुपाधिकम् ॥ १॥अहन्तयान्तर्बहिरस्ति यदेवमिदन्तया ।भानवृत्त्याऽन्वितं यत्तु ज्ञानं सोपाधिकं मतम् ॥ २॥अनात्मनामहङ्कारादीनां येनानुभूयते ।साक्षी तदात्मज्ञानं स्याद्येनैवामृतमश्नुते ॥ ३॥अहङ्कारादि कार्यं यदनात्मकमसंख्यकम् ।येनावगम्यतेऽनात्मज्ञानं तदवधार्यते ॥ ४॥यथावद्वस्तुविज्ञानं रज्जुतत्त्वावबोधवत् ।यत्तद्यथार्थविज्ञानमयथार्थमतोऽन्यथा ॥ ५॥यत्सान्निध्यादेव सर्वं भासते स्वयमेव तत् ।प्रत्यक्षज्ञानमिति चापरोक्षमिति लक्ष्यते ॥ ६॥ययानुऽसाधकं साध्यं मीयते ज्ञानरूपया ।वृत्त्या साऽनुमितिः साहचर्यसंस्कारजन्यया ॥ ७॥गत्वा समीपं मेयस्य मीयते श्रुतलक्षणः ।यया संवित् सोपमितिर्मृगोऽयमिति रूपया ॥ ८॥अहं ममेति ज्ञानं यदिदं तदिति यच्च तत् ।जीवज्ञानं तदपरमिन्द्रियज्ञानमिष्यते ॥ ९॥ओं तत् सदिति निर्द्दिष्टं ब्रह्मात्मैक्यमुपागतम् ।कल्पनादिविहीनं यत्तत् परज्ञानमीर्यते ॥ १०॥ N/A References : N/A Last Updated : February 21, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP