संस्कृत सूची|संस्कृत स्तोत्र साहित्य|स्तोत्रः|नारायणगुरुविरचितानि स्तोत्राणि| कर्मदर्शनम् नारायणगुरुविरचितानि स्तोत्राणि स्तोत्रक्रियाः विनायकाष्टकम् श्रीवासुदेवाष्टकम् विष्ण्वष्टकं भद्रकाल्यष्टकम् षाण्मातुरस्तवम् गुहाष्टकम् बाहुलेयाष्टकं चिदंबराष्टकम् जातिनिर्णयम् धर्मः आश्रमम् मुनिचर्यापञ्चकम् अध्यारोपदर्शनम् अपवाददर्शनम् असत्यदर्शनम् मायादर्शनम् भानदर्शनम् कर्मदर्शनम् ज्ञानदर्शनम् भक्तिदर्शनम् योगदर्शनम् निर्वाणदर्शनम् ब्रह्मविद्या पञ्चकम् निर्वृतिपञ्चकम् श्लोकत्रयी होममन्त्रम् वेदान्तसूत्रम् समाधि श्लोकौ कर्मदर्शनम् देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते. Tags : godgoddessnarayan gurustotraदेवतादेवीनारायण गुरुसंस्कृतस्तोत्र कर्मदर्शनम् Translation - भाषांतर आत्मैव मायया कर्म करोति बहुरूपधृक् ।असंगः स्वप्रकाशोऽपि निद्रायामिव तैजसः ॥ १॥मन्ये वदामि गृह्णामि शृणोमीत्यादि रूपतः ।क्रियते कर्म परमात्मना चित्तेन्द्रियात्मना ॥ २॥आत्मैव कर्मणः पूर्वमन्यत् किञ्चिन्न विद्यते ।ततः स्वेनैव कर्माणि क्रियन्ते निजमायया ॥ ३॥शक्तिरस्त्यात्मनः काचिद्दुर्घटा न पृथक् स्वतः ।तयैवारोप्यते कर्म निखिलं निष्क्रियात्मनि ॥ ४॥सर्वदाऽसंग एवात्माऽज्ञतया कर्म संगिवत् ।करोति न करोमीति न ज्ञः कर्मसु सज्जते ॥ ५॥ज्वलति ज्वलनो वायुर्वाति वर्षति वारिदः ।धरात्मा सन् धरति खल्वेको वहति वाहिनी ॥ ६॥ऊर्द्ध्वं प्राणो ह्यधोऽपानः खल्वेको याति निष्क्रियः ।नाड्यन्तराले धमति क्रन्दति स्पन्दति स्थितः ॥ ७॥अस्ति जन्मर्द्धिपरिणत्यपक्षयविनाशनम् ।षड्भावमिह यो याति स नान्योऽविक्रियात्मनः ॥ ८॥स्वयं क्रियन्ते कर्माणि करणैरिन्द्रियैरपि ।अहं त्वसंगः कूटस्थ इति जानाति कोविदः ॥ ९॥दृश्यत्वाद् भास्यमहमप्यतोऽहं शुक्तिरंगवत् ।अध्यस्तमेक एवाद्य श्वोऽपि सर्वोपरि स्थितः ॥ १०॥ N/A References : N/A Last Updated : February 21, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP