नीतिप्रकाशिका - अष्टमोऽध्यायः

महर्षि वैशंपायन द्वारा रचित एक प्राचीन संस्कृत ग्रंथ आहे, जो राजनीति (शासकीय नीति) आणि धनुर्विद्या (युद्धकला) मुख्यत्वे या विषयांवर केंद्रित आहे


राजधर्मान्प्रवक्ष्यामि यथावृत्तो भवेन्नृपः

लोकरंजनमेवात्र राज्ञो धर्मस्सनातनः ॥१॥

यदा हि गर्भिणी हित्वा स्वं प्रियं मनसेऽनुगं

गर्भस्य हितमाधत्ते तथा कुर्यात्प्रजाहितं ॥२॥

अष्टाभिर्लोकपालानां मात्राभिर्निर्मितो यतः

तस्मादभिभवेद्राजा सर्वभूतानि तेजसा ॥३॥

सोऽग्निर्भवति वायुश्च सोऽर्कस्सोमस्स धर्मपः

स कुबेरस्स वरुणस्स महेन्द्रः प्रभावतः ॥४॥

बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः

महती देवता ह्येषा नररूपेण तिष्ठति ॥५॥

एकमेव दहत्यग्निर्नरं दुरुपसर्पिणं

कुलं दहति राजाग्निस्सपशुद्रव्यसंचयं ॥६॥

तस्य प्रसादे पद्मा श्रीर्विजयश्च पराक्रमे

मृत्युश्च वसति क्रोधे तस्मात् सर्वाश्रयस्तु सः ॥७॥

अगूढविभवा यस्य पुरराष्ट्रनिवासिनः

नयापनयवेत्ता यस्स राजा त्विदमाचरेत् ॥८॥

उत्थौयापररात्रेषु चिन्तयेदर्थनिर्णयं

गुणदोषान् स्वयं बुध्वा कर्तव्यार्थे प्रसन्नधीः ॥९॥

दैवं हृदा दृढं ध्यात्वा कृत्वा मङ्गलपाठकं

शुचिर्भूत्वा तु विधिवन्मङ्गलालम्बनं चरेत् ॥१०॥

नित्यकर्म समाप्याथ नित्यदानं विधाय च

त्रैविद्यवृद्धान् नत्वा तु तिष्ठेदेषां च शासने ॥११॥

तेभ्योऽधिगच्छेद्विनयं विनीतात्मा हि नित्यशः

वनस्थाश्चैव राज्यानि विनयात् प्रतिपेदिरे ॥१२॥

इंद्रियाणां जये योगमधितिष्ठेद्दिवानिशं

जगज्जितेंद्रियस्येदं वशे भवति नित्यदा ॥१३॥

अरिषड्वर्गरहितो वेदशास्त्रपरश्शुचिः

प्रातःकाले व्यतीते तु भूषितस्तु सभां व्रजेत् ॥१४॥

उच्चासनस्थो नृपती राज्यतंत्रं विचारयेत्

धर्मासने समारोप्य विप्रं सुज्ञं पुरोहितं ॥१५॥

जातिमात्रोपजीवी वा कामं स्याद्ब्राह्मणब्रुवः

धर्मप्रवक्ता नृपतेर्न तु शूद्रः कथञ्चन ॥१६॥

यस्य शूद्रस्तु कुरुते राज्ञो धर्मविवेचनं

तस्य सीदति तद्राष्टं पंके गौरिव पश्यतः ॥१७॥

मौलांञ्छास्त्रविदश्शूराल्लँब्धलक्षान् कुलोद्भवान्

सचिवान् सप्त चाष्टो वा कुर्वीत सुपरीक्षकान् ॥१८॥

सुमंत्रिणः प्रकुर्वीत द्वौ वा त्रीन् न्यायवादिनः

तैस्सार्धं चिन्तयेदर्थान् पट्टनेऽर्थपरो नृपः ॥१९॥

द्वारपालान् पृष्ठगोपान् सभानेतॄनथाश्रवान्

समाज्ञाप्य विधानेन सावधानमना भवेत् ॥२०॥

दूतं चैव प्रकुर्वीत सर्वशास्त्रविशारदं

इङ्गिताकारचेष्टाज्ञं शुचिं लालाटिकं हितं ॥२१॥

धर्मशास्त्रानुसारेण सामात्यस्सपुरोहितः

व्यवहारान्नृपः पश्येद्विद्वद्भिर्ब्राह्मणैस्सह ॥२२॥

सेनाकर्म समालोक्य भृतिं तेभ्यो विधाय च

दीनान्धकृपणानां च वृत्तिं सम्यग्विचार्य च ॥२३॥

आयव्ययं च विज्ञाय आयत्यभ्युदयं तदा

कृषीवलानां कृत्वा तु योगक्षेमौ च जीवनं ॥२४॥

दुर्भिक्षव्यसनोपेतान् विदित्वा तु परोक्षतः

तेभ्यः प्रदाय स्वद्रव्यं यथायोग्यं विवर्ध्य तान् ॥२५॥

स्वद्रव्यमाहरेत् तेभ्यस्सुपुष्टेभ्यस्समाहितः

अवधेः पत्रिकां तेभ्यो लेखयित्वा स्वहस्ततः ॥२६॥

उन्मोच्य चाधिकारिभ्यो भयात् क्षुद्रान् स्वयं नृपः

पारितोषिकवस्त्राणि तेषां दत्वा यथाविधि ॥२७॥

वाचा तान् भीषयित्वा तु हृदयार्द्रो महीपतिः

व्यवस्थां विदधन्नेभ्यस्सामदानविचक्षणः ॥२८॥

चारेभ्यश्चाधिकारिणां चरितानि विचार्य च

दुष्टानां शिक्षणं कुर्याद्दंडनीतिप्रवर्तकः ॥२९॥

यत्र श्यामो लोहिताक्षो दंडश्चरति पापहा

प्रजास्तत्र न मुह्यंति नेता चेत्साधु पश्यति ॥३०॥

अकालक्रयविक्रेयकर्तॄणां स्वार्थकामिनां

प्रजाभ्यो दायकर्तॄणां स्वामिकार्यविघातिनां ॥३१॥

प्रजोद्वेजनकर्तॄणामुग्रदंडेन दुःखतः

गोदेवब्राह्मणस्वानां हर्तॄणां लोभदोषतः ॥३२॥

राजाज्ञाप्रतिबन्दीनां राजद्रोहपरात्मनां

स्वराजचरिताख्यानकर्तॄणां शत्रुराजके ॥३३

सेतुभेदकराणां च चोरमोचनकारिणां

राजस्वे च प्रमत्तानां राजकोशापहारिणां ॥३४॥

स्वाधीनाधिकृतानां तु वेतनार्धं प्रगृह्णतां

स्वयूधभेदकर्तॄणामभिचाररतात्मनां ॥३५॥

अपलापप्रसक्तानां स्ववाक्ये राजसन्निधौ

राजस्वेऽन्यत्वकर्तॄणां तटाकारामघातिनां ॥३६॥

शिक्षणार्थं चरा योज्यास्तेभ्यो विज्ञाय तत्त्वतः

तेषां व्यतिक्रमं पश्चाच्छिक्षयेन्नीतिमार्गतः ॥३७॥

अधिकारप्रच्यवैश्च कारागाराधिवासनैः

निगलालंबनैश्चैव राष्ट्रनिष्कासनैस्तथा ॥३८॥

सर्वस्वहरणैश्चैव नीचकृत्यप्रचोदनैः

प्रावारेणैकवस्त्रेण चतुष्पथनिवेशनैः ॥३९॥

परिवर्तनाधिकारैश्च कायक्लेशोपपादनैः

मृद्बाहैश्च कशाघातैर्विरूपकरणैस्तथा ॥४०॥

एतैरन्यैर्यथाशास्त्रं शिक्षयेदधिकारिणः

राज्ञा तु शिक्षितान् दृष्ट्वा ये हसेयुश्च तानपि ॥४१॥

राज्ञोपहासनिंदे च राजदारान् हसंति ये

नीवृज्जनानमार्गस्थाञ्ज्ञात्वा संशिक्षयेन्नृपः ॥४२॥

मृदुर्हि राजा सततं लघुर्भवति सर्वशः

तीक्ष्णाच्चोद्विजते लोकस्तस्मादुभयमाचरेत् ॥४३॥

राजानं प्रथमं विन्देत्ततो भार्यां ततो धनं

राजन्यसति लोकेऽस्मिन् कुतो भार्या घनं कुतः ॥४४॥

आयानुकूलं कुर्वीरन् भृत्या राजहितैषिणः

पश्चान्निवेदयेयुस्तदन्यथा दंडभागिनः ॥४५॥

ग्रामस्वाधिपतिः कार्यो दशग्रामाधिपस्तथा

विंशतीशश्शतेशश्च सहस्रेशो नृपेण तु ॥४६॥

ग्रामीयान् ग्रामदोषांश्च ग्रामिकः परिपालयेत्

तानाचक्षेत दशिने दशको विंशतीश्वरे ॥४७॥

विंशतीशश्च तत्सर्वं वृत्तं जानपदे जने

ग्रामाणां शतपालाय सर्वं वै विनिवेदयेत् ॥४८॥

यानि ग्रामिकभोज्यानि ग्रामिकस्तान्युपाश्नुते

हिरण्यधान्यभागेन यतो राष्ट्रीयकस्स्मृतः ॥४९॥

दशी तेन विभक्तव्यो विंशतीशस्तथा स्मृतः

ग्रामं ग्रामशताध्यक्षो भोक्तुमर्हति सत्कृतः ॥५०॥

शाखानगरमर्हस्तु सहस्रपतिरुत्तमं

दिक्पालासनयोग्योऽसौ शतादिग्रामनायकः ॥५१॥

तेषां यद्ग्रामकृत्यं स्याद्राष्ट्रकृत्यं च यद्भवेत्

धर्मज्ञस्सचिवः कश्चित्तदपेक्षेदतंद्रितः ॥५२॥

नगरे नगरे च स्यादेकस्सर्वार्थचिंतकः

उच्चस्थानो घोररूपो नक्षत्राणामिव ग्रहः ॥५३॥

स च तान् संपरिक्रामेत् सर्वानेव सदा कृती

तेषां वृत्तिं हि गणयेत् सम्यग्राष्ट्रैस्स्वचारकैः ॥५४॥

जिघांसवः पापकामाः परस्वादायिनश्शठाः

तत्तद्रक्षास्वधिकृतास्तेभ्यो रक्षेदिमाः प्रजाः ॥५५॥

उच्चावचाः करा न्यायाः पूर्वराज्ञां युधिष्ठिर

यथा यथा न हीयेयुस्तथा कुर्यान्महीपतिः ॥५६॥

ब्राह्मणेभ्यो नाददीत शुल्कं राजा तथा करं

न ब्राह्मणधनस्वामी कदाचित् स्यान्नराधिपः ॥५७॥

आयं तु विपुलं कुर्याद्व्ययं कुर्यात् सुसूक्ष्मकं

नीवृद्यात्रां तथा भूपो लोकानुग्रहकृत् स्वयं ॥५८॥

बंधयेच्च तटाकानि सरांसि स्वगृहाणि च

श्रेणीवृक्षांस्तथारामान् गोपयेच्च सुमार्गकृत् ॥५९॥

सन्मानं चैव कुर्वीत विद्यावृद्धद्विजातिषु

अवमत्यादिभिर्दण्डैर्विप्रान् विद्यासु योजयेत् ॥६०॥

अलब्धमीहेद्धर्मेण लब्धं यत्नेन पालयेत्

पालितं वर्धयेन्नित्यं वृद्धं पात्रेषु निक्षिपेत् ॥६१॥

भोगं च दद्याद्विप्रेभ्यो वसूनि विविधानि च

अक्षयोऽयं निधी राज्ञां यद्विप्रेषूपपादनं ॥६२॥

दत्वा भूमिनिबंधं वा कृत्वा लेख्यं तु कारयेत्

आगामिभद्रनृपतिपरिज्ञानाय पार्थिवः ॥६३॥

दत्वा भूम्यादिकं राजा ताम्रपट्टेऽथवा पटे

शासनं कारयेद्धर्म्यं स्थानवंशादिसंयुतं ॥६४॥

स्वदत्ताद्द्विगुणं पुण्यं परदत्तानुपालनं

परदत्तापहारेण स्वदत्तं निष्फलं भवेत् ॥६५॥

पूर्वराजकृता या तु मर्यादा जनजीविका

तां न च व्यंसयेद्राजा नाशयन् निंदितो भवेत् ॥६६॥

मंत्रो विजयमूलं हि राज्ञां भवति नित्यदा

अतस्तु मन्त्रिभिर्मत्रं सह राजा विचिंतयेत् ॥६७॥

गिरिपृष्ठं समारुह्य प्रासादं वा रहोगतः

अरण्ये निश्शलाके वा मन्त्रयेत् पृथिवीपतिः ॥६८॥

निस्तंभे निर्गवाक्षे च निर्भित्त्यंतरसंश्रये

प्रासादाग्रेऽप्यरण्ये ह मन्त्रयेत्सावधानतः ॥६९॥

यस्य मन्त्रं न जानन्ति समागम्य पृथग्जनाः

स चिरं पृथिवीं भुंक्ते कोशहीनोऽपि पार्थिवः ॥७०॥

जडान्धमूकबधिरान् काणाशौण्डाधमानपि

स्त्रीम्लेछव्याधितव्यङ्गान् मन्त्रकाले विवर्जयेत् ॥७१॥

उपायांश्चतुरो युंज्यात् षड्गुणानुदयांश्च त्रीन्

तिस्रश्शक्तींश्च सिद्धींश्च मन्त्रयेन्मंत्रिभिस्सह ॥७२॥

साम दानं च भेदश्च दण्डश्चेति चतुर्विधः

उपायस्सर्वकृत्येषु प्रयोज्यो बुद्धिजीविभिः ॥७३॥

साम पञ्चविधं ज्ञेयं परानुसरणं तथा

परस्परोपकारश्च तदीयगुणकीर्तनं ॥७४॥

बंधुत्वज्ञापनं स्वात्मसमर्पणमितीव च

एवं पंचविधं ज्ञात्वा समासव्यासतस्सुखी ॥७५॥

दानं पञ्चविधं प्राहुस्स्वधनस्य समर्पणं

अन्यद्रव्यग्रहामोदोऽपूर्ववस्तुप्रदानकं ॥७६॥

परद्रव्ये प्रेरणं च ऋणमोचनमेव च

स्वदौर्बल्ये प्रयोगोऽस्य शत्रुपक्षे स्वयं विधिः ॥७७॥

भेदस्त्रिधा अन्यतरस्नेहसंपादनं पुरा

परस्परं मित्रभेदस्तथा संतर्जनं परं ॥७८॥

दण्डस्त्रिधार्थहरणं परिक्लेशस्तथैव च

देहसंशिक्षणं चेति दण्डभेदाः प्रकीर्तिताः ॥७९॥

तदात्वायतिसंयुक्तस्संधिर्ज्ञेयो द्विलक्षणः

राज्ञा कृतश्च कार्यार्थमकाले काल एव वा ॥८०

मित्रेण चैव विकृते द्विविधो विग्रहस्स्मृतः ॥८१॥

एकाकी वाच्यैककारिकार्ये प्राप्ते यदृच्छया

संभूय चैव मित्रेण द्विविधं यानमुच्यते ॥८२॥

क्षीणस्य चैव क्रमशो दैवात्पूर्वकृतेन वा

मित्रस्य चानुरोधेन द्विविधं कृतमानसं ॥८३॥

बलस्य स्वामिनश्चैव स्थितिकार्यस्य सिद्धये

द्विविधं कीर्त्यते द्वैधं तद्गुणागुणवेदिभिः

यदावगतं न्यूनत्वमाधिक्यं ध्रुवमात्मनः ॥८४॥

अर्थसंपीडनार्थं च पीड्यमानस्य शत्रुभिः

साधुभिर्व्यपदेशार्थो द्विविधस्तु समाश्रयः ॥८५॥

क्षयस्स्थानं च वृद्धिश्चेत्युदयस्त्रिविधस्स्मृतः

प्रभुमंत्रोत्साहभेदाच्छक्तिस्तु त्रिविधा मता ॥८६॥

तत्साध्यसिद्धयस्तिस्रस्तेषु भेदा बहु स्मृताः

एतद्धि नीतिसर्वस्वं भूप किं विस्तरेण ते ॥८७॥

एवं सर्वमिदं राजा सह संमंत्र्य मंत्रिभिः

मध्याह्नेऽर्थागमं कृत्वा भोक्तुमन्तःपुरं व्रजेत् ॥८८॥

सुपरीक्षितमन्नाद्यमद्यान्मन्त्रैर्विषापहैः

भुक्त्वा संविहरेच्चैव स्त्रीभिरन्तःपुरे सह ॥८९॥

धर्मशास्त्रपुराणानि ह्यपराह्णे समभ्यसेत्

संध्यां चोपास्य विधिवदग्निं हुत्वा समाहितः ॥९०॥

भुक्त्वा भागवतं शास्त्रं पठित्वा ध्यानसंयुतः

संविशेच्च यथाकालमुत्तिष्ठेद्विगतक्लमः ॥९१॥

एवंवृत्तस्य नृपतेर्नीतिमार्गानुसारिणः

धर्मार्थकाममोक्षाश्च सिध्येयुर्नात्र संशयः ॥९२॥

पृथुमेवं प्रशास्यैव ब्रह्मा लोकगुरुस्त्वयं

तत्रैवान्तर्दधे देवो दैवतैस्सहितस्तथा ॥९३॥

वैन्योऽपि तत् तथा चक्रे ब्रह्मप्रोक्तं पुरातनं

भुक्त्वा ससागरामुर्वीमन्ते ब्रह्म जगाम हा ॥९४॥

पारीक्षित त्वमप्येवं कृत्वा सौख्यं भविष्यसि

ख्यातिं च लोके संस्थाप्य परां गतिमवाप्स्यसि ॥९५॥

यावत्कीर्तिर्मनुष्यस्य लोकेषु विचरिष्यति

तावद्वर्षसहस्राणि ब्रह्मलोके महीयते ॥९६॥

पठेच्च य इदं काव्यं शृणुयाद्वा समाहितः

ब्राह्मणः क्षत्रियो राजा विशेषेण नराधिपः ॥९७॥

वैश्यो वा शूद्रजातीयस्स्त्रियो राजपरिग्रहाः

ते कीर्तिमन्तो भूत्वेह परत्र गतिमाप्नुयुः ॥९८॥

नीतिशास्त्रमिदं प्रोक्तं मया ते जनमेजय

संक्षेपेण गमिष्यामि यत्र व्यासो गुरुर्मम ॥९९॥

वैशंपायन इत्युक्त्वा तत्रैव स जगाम ह

पारीक्षितोऽपि मुमुदे सुनीत्या पालयन् प्रजाः ॥१००॥

इति श्रीमन्नीतिशास्त्रे नीतिप्रकाशिकायां राजव्यापारकथनं नामाष्टमोऽध्यायः

नीतिप्रकाशिका समाप्ता

N/A

References : N/A
Last Updated : February 13, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP