संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|नीतिप्रकाशिका| प्रथमोऽध्यायः नीतिप्रकाशिका परिचय प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नीतिप्रकाशिका - प्रथमोऽध्यायः महर्षि वैशंपायन द्वारा रचित एक प्राचीन संस्कृत ग्रंथ आहे, जो राजनीति (शासकीय नीति) आणि धनुर्विद्या (युद्धकला) मुख्यत्वे या विषयांवर केंद्रित आहे Tags : nitiprakashikavaishanpayanनीतिप्रकाशिकावैशंपायन प्रथमोऽध्यायः Translation - भाषांतर श्रीमद्गजाननं वाणीं नत्वा ब्रह्मादिसद्गुरून्नीतिप्रकाशिका सेयं तन्यते ह्यादरान्मया ॥१॥श्रीमत्तक्षशिलायां तु सूपविष्टं वरासनेजनमेजयभूपालं द्रष्टुकामो महातपाः ॥२॥वैशंपायननामा तु महर्षिस्संशितव्रतःअभ्यागात् सहितश्शिष्यैर्व्यासशिष्यो महामुनिः ॥३॥तमायांतमृषिं श्रुत्वा जनमेजयभूपतिःप्रत्युज्जगाम सहसा सह मंत्रिपुरोहितैः ॥४॥पाद्यमर्घ्यं तथा गां च मधुपर्कं विधाय चतस्मै प्रोवाच कुशलं प्रहृष्टेनान्तरात्मना ॥५॥धन्योऽस्म्यनुगृहीतोऽस्मि यन्मे दर्शनमागतःतारिताः पितरस्सर्वे पालितोऽहं त्वया मुने ॥६॥इत्युक्तवन्तं राजानं प्रयुयोजाशिषश्शुभाःधर्मे ते रमतां बुद्धिरित्युक्त्वागात्सभां ततः ॥७॥उपविष्टे मुनौ तस्मिन् भद्रपीठे नृपोत्तमःपरिवृत्यासनाभ्याशे कृतांजलिरुपाविशत् ॥८॥कथान्तरमथासाद्य जनमेजयभूपतिःप्रणम्य तमृषिं भक्त्या कृतांजलिरभाषत ॥९॥राजधर्माः कृतास्सर्वे भारतीयास्त्वयोदिताःहृदि मे संशयः कश्चित् तं भवाञ्छेत्तुमर्हति ॥१०॥इतश्चानुदिनं धर्मस्सत्यं शौचं क्षमा दयाकालेन कलिना ब्रह्मन् क्षरत्यायुर्बलं स्मृतिः ॥११॥वित्तमेव कलौ नॄणां जन्माचारगुणोदयःधर्मन्यायव्यवस्थायां कारणं बलमेव हि ॥१२॥दांपत्येऽभिरुचिर्हेतुर्मायैव व्यावहारिकेस्त्रीपुंस्त्वे कौशलरतिर्विप्रत्वे सूत्रमेव च ॥१३॥लिंगमेवाश्रमख्यातौ अन्योऽन्यापत्तिकारणंअवृत्त्या न्यायदौर्बल्यं पाण्डित्ये चापलं वचः ॥१४॥असाध्यतैव साधुत्वे स्नानमेव प्रसाधनंस्वीकार एव चोद्वाहे लावण्ये केशधारणं ॥१५॥उदरंभरिता स्वार्थः यशोऽर्थे धर्मसेवनंदाक्ष्यं कुटुंबभरणे सत्यत्वे धार्ष्ट्यमेव हि ॥१६॥शूद्रप्रायेषु वर्णेषु छागप्रायासु धेनुषुपाषण्डप्रचुरे धर्मे दस्युप्रायेषु राजसु ॥१७॥कथं तेषामियं नीतिर्विस्तृता वशमेष्यतिधनुर्वेदविवेकश्च शस्त्रास्त्रज्ञानमेव च ॥१८॥इति तद्वचनं श्रुत्वा हृदयज्ञो महानृषिःअर्थोपहितया वाचा राजानमिदमब्रवीत् ॥१९॥इङ्गितं ते मया ज्ञातं सूक्ष्मनीतिप्रबोधनेलब्धानुयोगः प्रब्रूयाच्छास्त्रं नो चेदधी भवेत् ॥२०॥ब्रह्मा महेश्वरस्स्कन्दश्चेन्द्रः प्राचेतसो मनुःबृहस्पतिश्च शुक्रश्च भारद्वाजो महातपाः ॥२१॥वेदव्यासश्च भगवान् तथा गौरशिरा मुनिःएते हि राजशास्त्राणां प्रणेतारः परंतपाः ॥२२॥लक्षाध्यायां जगौ ब्रह्मा राजशास्त्रे महामतिःपञ्चाशच्च सहस्राणि रुद्रस्संक्षिप्य चाब्रवीत् ॥२३॥पञ्चविंशत्सहस्राणि स्कन्दस्संक्षिप्य चावदत्दशाध्यायसहस्राणि द्विसहस्रे च वासवः ॥२४॥प्राचेतसमनुश्चापि षट्सहस्राण्यथाब्रवीत्त्रीण्यध्यायसहस्राणि बृहस्पतिरुवाच ह ॥२५॥काव्यस्तु तत् समालोड्य चक्रेऽध्यायसहस्रकंसप्ताध्यायशतं शास्त्रं भारद्वाजस्तथाभणत् ॥२६॥मुनिर्गौरशिराश्चापि पञ्चाध्यायशतं जगौवेदव्यासस्तु भगवांस्तत् संक्षिप्य महामतिः ॥२७॥शतत्रयाध्यायवतीं नीतिं चक्रे महामतेसंक्षिप्तमायुर्विज्ञाय मर्त्यानां बुद्धिदोषतः ॥२८॥तल्लक्षणोद्देशमात्रं मया तव निवेद्यतेसावधानमना भूत्वा राजशास्त्रं निबोध मे ॥२९॥पृथुर्वैन्यः प्रजा रक्षन्मृत्युं जित्वा पुरा किलक्षतत्राणात् प्रजास्तं तु क्षत्रियं चाब्रुवंस्तथा ॥३०॥नामापि तस्य राजेति प्रजारागादजायतअकृष्टपच्या पृथिवी चासीद्वैन्यस्य कामधुक् ॥३१॥आसन्हिरण्मया दर्भास्सुखस्पर्शा मनोहराःतेषां वीरैस्सुसंवीताः प्रजास्तेष्वेव शेरते ॥३२॥प्रविभागो न राष्ट्राणां पुराणां चाभवत् तदायत्र यत्र प्रजा आसंस्तत्र दोग्ध्री मही सुखं ॥३३॥तेन संस्तंभिता ह्यापस्समुद्रमभियास्यतापर्वताश्च ददुर्मार्गं ध्वजभङ्गश्च नाभवत् ॥३४॥षष्टिं नागसहस्राणि षष्टिं नगशतानि चसौवर्णान्यकरोद्राजा ब्राह्मणेभ्यश्च तान्यदात् ॥३५॥इमां च पृथिवीं सर्वां मणिरत्नविभूषितांसौवर्णामकरोद्राजा ब्राह्मणेभ्यश्च तां ददौ ॥३६॥एतानन्यान् गुणान् बुध्वा तस्य राज्ञश्चतुर्मुखःआत्मानं दर्शयामास वरदोऽस्मीति चाब्रवीत् ॥३७॥ब्रह्माणं च ततो दृष्ट्वा श्रुत्वा चैव स तद्वचःपृथुः परमसंहृष्टो वव्रे तं वरमुत्तमं ॥३८॥चतुष्पाच्च धनुर्वेदस्सांगोपाङ्गरहस्यकःशस्त्रास्त्रभूषितो मह्यं प्रदेयस्तु त्वया भवेत् ॥३९॥आत्मानं परमं मन्ये लोकेभ्यो लोकपूजितयस्य मे दर्शनं प्राप्तो भवान् वेदमयो निधिः ॥४०॥इत्युक्त्वानन्ददुग्धाब्धौ मज्जयानं पृथुं तदाप्रोज्जहार जगत्स्रष्टा वाचाथ प्लवरूपया ॥४१॥दिष्ट्या ते बद्धिरुत्पन्ना धनुर्वेदपरिग्रहेअहमप्येतदेव त्वां वक्तुकाम इहागतः ॥४२॥असिः पूर्वं मया सृष्टो दुष्टनिग्रहकारणात्भवादृशसमीपस्थो लोकांछिक्षञ्चरत्यसौ ॥४३॥धनुराद्यायुधव्यक्तौ त्वमेवादिस्स्मृतो मयातस्माच्छस्त्राणि चास्त्राणि ददानि तव पुत्रक ॥४४॥भृशाश्वो मानसः पुत्रो द्वे जाये तस्य संमतेजया च सुप्रभा चैव दक्षकन्ये महामती ॥४५॥जया लब्धवरा मत्तो शस्त्राण्यस्त्राण्यसूत वैपञ्चाशदपरा चापि तावत्पुत्रानजीजनत् ॥४६॥संहारान् नाम दुर्द्धर्षान् दुराक्रामान् बलीयसःमन्त्रदैवतसंयोगाच्छस्त्राण्यस्त्रत्वमाप्नुवन् ॥४७॥मत्सकाशाद्धनुर्वेदं प्रगृह्य जयतां वरसर्वाः पालय धर्मेण प्रजाः पुत्रानिवौरसान् ॥४८॥सन्धिविग्रहतत्त्वज्ञस्त्वनुमानविभागवित्षाड्गुण्यविधियुक्तश्च सर्वशास्त्रविशारदः ॥४९॥वृतो राजगुणैष्षड्भिस्सप्तोपायांस्तदाचरबलाबलेन सम्यक् त्वं समीक्षस्व चतुर्दश ॥५०॥अथ स्वात्मानमन्वीक्ष्य परांश्च रिपुसूदनतथा सन्धाय कर्माणि सेवस्वाष्टौ सदा नृप ॥५१॥भवानष्टादशान्येषु स्वपक्षे दश पंच चत्रिभिस्त्रिभिरभिज्ञातैर्वेत्ति तीर्थानि चारकैः ॥५२॥तथा व्यसनिनं शत्रुं निशम्य नृपसत्तमअभियाहि जवेनैव समीक्ष्य त्रिविधं बलं ॥५३॥धृत्वा यात्रामारभस्व प्राप्तकालमरिन्दमपार्ष्णिमूलं च विज्ञाय व्यवसायं पराजयं ॥५४॥स्वमूलं तु दृढं कृत्वा परान् याहि विशां पतेविक्रमस्व विजेतुं तं जित्वा च परिपालय ॥५५॥दृढमष्टांगसंयुक्ता चतुर्विधबला चमूःबलमुख्यैस्सुनीता ते द्विषतां प्रतिवर्धनी ॥५६॥इत्येवमनुशास्यैनं ब्रह्मा लोकगुरुः पुनःधनुर्वेदं ग्राहयितुं वक्तुमेवोपचक्रमे ॥५७॥इति श्रीमन्नीतिशास्त्रे नीतिप्रकाशिकायां संगतिप्रदर्शनपूर्वकराजधर्मोपदेशो नाम प्रथमो ऽध्यायःस्रोत N/A References : N/A Last Updated : February 13, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP