संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|नीतिप्रकाशिका| सप्तमोऽध्यायः नीतिप्रकाशिका परिचय प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नीतिप्रकाशिका - सप्तमोऽध्यायः महर्षि वैशंपायन द्वारा रचित एक प्राचीन संस्कृत ग्रंथ आहे, जो राजनीति (शासकीय नीति) आणि धनुर्विद्या (युद्धकला) मुख्यत्वे या विषयांवर केंद्रित आहे Tags : nitiprakashikavaishanpayanनीतिप्रकाशिकावैशंपायन सप्तमोऽध्यायः Translation - भाषांतर अथ सैन्यं प्रवक्ष्यामि सेनानयविवृद्धयेपत्तिमारभ्य गणनां यावदक्षौहिणी तव ॥१॥शतांगानामिभानां च सैन्धवानां महीपतेपदातीनां च भद्रं ते सैन्यस्थानां विशेषतः ॥२॥पत्तिस्सेनामुखं गुल्मं गणो वै वाहिनी ततःपृतना चम्वनीकिन्यौ ततश्चाक्षौहिणी स्मृता ॥३॥एते सेनाविशेषा वै पत्तौ मुख्यान् वदामि तेरथं नागं तुरंगांश्र पदातींश्च विशेषतः ॥४॥एको रथो गजश्चैको नराः पंच हयास्त्रयःयस्यां सा पत्तिरेतेषां सहायान् प्रब्रुवेऽधुना ॥५॥नागा दश रथस्यास्य शतमश्वास्सहानुगाःसहस्रं तु नराः प्रोक्ताः परिवारा नृपाज्ञया ॥६॥एकस्यैकस्य नागस्य शतमश्वाः प्रयायिनःपदातयस्सहस्रं तु प्रच्यंगेष्वनुयायिनः ॥७॥एकस्यैकस्य चाश्वस्य सहस्रं तु पदातयःदश चैतान् पतीन् युङ्क्त्वा कार्त्स्न्येन गणना त्वियं ॥८॥एको रथो दश गजास्सहस्रं चात्र वाजिनःलक्षसंख्या नराः पत्तावेवमग्रेऽपि योजना ॥९॥पच्यंगैस्त्रिगुणैस्सर्वैः क्रमादाख्या यथोत्तरंअनीकिनीं दशगुणामाहुरक्षौहिणीं बुधाः ॥१०॥सेनामुखे तु गुणितास्त्रयश्चैव रथा गजाःत्रिंशत्त्रिलक्षपदगास्त्रिसहस्रं हि वाजिनः ॥११॥गुल्मे नव रथाः प्रोक्ता नागानां नवतिं विदुःअश्वानां नवसाहस्रं नवलक्षाः पदातयः ॥१२॥गणाख्ये तु शतांगानां वराणां सप्तविंशतिःस्तंबेरमाणां द्विशतं सप्ततिं प्राहुरार्यकाः ॥१३॥सप्तविंशतिसाहस्रा गंधर्वाः परिकीर्तिताःसप्तविंशतिलक्षास्तु स्मृताश्चात्र पदातयः ॥१४॥वाहिन्यां स्यंदनाः प्रोक्ता ह्येकाशीत्या नियोजिताःदशोत्तराष्टशतकाः पद्मिनश्चात्र कीर्तिताः ॥१५॥एकाशीतिसहस्रास्तु तुरंगास्संप्रकीर्तिताःएकाशीतिकलक्षा वै विख्याताः पादचारिणः ॥१६॥त्रयश्च चत्वारिंशच्च द्विशतं पृतनारथाःचतुश्शतं च त्रिंशच्च द्वेसहस्रे च दंतिनां ॥१७॥तुरंगाणां सहस्राणि त्रिचत्वारिंशदेव तुद्वे लक्षे चैव राजेन्द्र द्वे कोटी च नृणां भवेत् ॥१८॥त्रिचत्वारिंशच्च लक्षं पदातीनां निबोध मेचम्वाख्ये सप्तमव्यूहे गणनां वच्मि विस्तरात् ॥१९॥चम्वां सप्तशतं चैकन्यूनत्रिंशद्रथास्स्मृताःसप्तैव च सहस्राणि द्वे शते नवतिस्तथा ॥२०॥गजानां सप्तलक्षाणि चैकोनत्रिंशदेव तुसहस्राणि हयानां च पदातीनामथो शृणु ॥२१॥सप्त कोट्यश्च चैकोनत्रिंशल्लक्षाणि भूपतेजगुर्गणिततत्त्वज्ञा गणनां बुद्धिजीविनः ॥२२॥अनीकिन्यां द्वे सहस्रे सप्ताशीत्यधिकं शतंरथानामथ नागानां गणनां वच्मि तेऽनघ ॥२३॥एकविंशत्सहस्राणि तथा चाष्टशतं नृपसप्ततिश्चेत्यथाश्वानां संख्यां शृणु समाहितः ॥२४॥एकविंशतिलक्षाणि सप्ताशीतिसहस्रकंएकविंशतिकोट्यश्च पदातीनां नराधिप ॥२५॥सप्ताशीतिं च लक्षाणां विद्धि बुद्धिमतां वरएतद्दशगुणा च स्यात्तां त्वमक्षौहिणीं शृणु ॥२६॥अक्षौहिण्यां त्वेकविंशत्सहस्राणि जनाधिपतथा चाष्टशतं चैव सप्ततिं रथगां विदुः ॥२७॥अष्टादशसहस्राणि द्वे लक्षे च नरेश्वरतथा सप्तशतं चैव गजानां गणना त्वियं ॥२८॥द्वे कोटी चैव लक्षाणामष्टादश महीपतेतथा सप्ततिसाहस्रा गंधर्वाश्शीघ्रयायिनः ॥२९॥द्वे चार्बुदे च कोटिश्वाप्यष्टादश समीरिताःलक्षाणां सप्ततिश्चैव पदातीनामितीयती ॥३०॥एतानक्षौहिणीसंस्थान् विना राज्ञो रथा गजाःअश्वास्स्वतंत्रास्संत्यन्ये पृष्ठगोपा नृपस्य ते ॥३१॥पच्याद्यंगे ध्वजपटाः पृथक्कार्या विशेषतःस्वसैन्यस्य च शत्रोश्च वैलक्षण्यस्य सिद्धये ॥३२॥युवराजाय वर्वाणां पञ्चसाहस्रिकी भृतिःसर्वसेनाप्रणेत्रे च चतुस्साहस्रिकी च सा ॥३३॥भृतिश्चातिरथे देया वर्वाणां त्रिसहस्रकंमहारथाय साहस्रद्वयं राज्ञाधिमासिकं ॥३४॥वेतनं रथिकायाथ साहस्रं गजयोधिनेदद्यादर्धरथायाथ वेतनं शतपञ्चकं ॥३५॥एकस्मै रथिकायाथ तादृशे गजसादिनेनिष्काणां त्रिशतं दद्याद्यतस्तौ तत्कुटुंबिनौ ॥३६॥सर्वाश्वाधिपती राज्ञस्त्रिसाहस्रं स चार्हतिपादाताधिपतिश्चापि द्विसाहस्रस्य भाजनं ॥३७॥पादातानां सहस्रस्य नेत्रे पंचशतं स्मृतंतथा चाश्वसहस्रेशे सहस्रं वेतनं भवेत् ॥३८॥पदातये सुवर्णानां पंचकं वेतनं भवेत्शतपच्यधिपे सप्त वर्वाणां हययायिने ॥३९॥गजयंतुस्सारथेश्च ध्वजिने चक्रपाय चपदातित्रिशतेशाय पथिकोष्ट्रचराय च ॥४०॥वार्तिकाधिपतेश्चापि वेत्रिणां पतये तथासूतमागधवंदीनां पतये वीवधाधिपे ॥४१॥सेनाया भृतिदात्रे च भटानां गणनापरेमासि मासि तु वर्वाणां दश पंच च वेतनं ॥४२॥तत्तत्कार्यानुसारेण कुलपर्यायतस्तथाभटानां तु भृतिः कल्प्या तत्तत्कालानुसारतः ॥४३॥आहवेषु मिथश्शूरा जिघांसन्तो महीक्षितःयुध्यमानाः परं शक्त्या स्वर्गं यांत्यपरांङ्मुखाः ॥४४॥न कूटैरायुधैर्हन्याद्युध्यमानो रणे रिपून्दिग्धैरग्न्युज्वलैर्यत्रैस्तंत्रैश्चैव पृथग्विधैः ॥४५॥न हन्याद्वृक्षमारूढं न क्लीबं न कृतांजलिंन मुक्तकेशं नासीनं न तवास्मीति वादिनं ॥४६॥न प्रसुप्तं न प्रणतं न नग्नं न निरायुधंन युध्यमानं पश्यन्तं न परेण समागतं ॥४७॥आयुधव्यसनं प्राप्तं नार्तं नातिपरिक्षतंन हीनं न परावृत्तं न च वल्मीकमाश्रितं ॥४८॥न मुखे तृणिनं हन्यान्न स्त्रियो वेषधारिणंएतादृशान्भटैर्वापि घातयन् किल्बिषी भवेत् ॥४९॥हन्यमानस्य यत्किंचिद्दुष्कृतं पूर्वसंचितंतत्संगृह्य स्वसुकृतं तेभ्यो दद्यात्तथाविधः ॥५०॥मार्गशीर्षे शुभे मासि कुर्याद्यात्रां महीपतिःफाल्गुने वापि चैत्रे वा यदा पश्येद्ध्रुवं जयं ॥५१॥शत्रुर्सेविनि मित्रे च गूढयत्नतमो भवेत्गतप्रत्यागते चैव स हि कष्टतमो रिपुः ॥५२॥दंडव्यूहेन सेनां तु नयेत् तु शकटेन वावराहगरुडाभ्यां वा सूच्या वा मकरेण वा ॥५३॥यतो भवेद्भयं शत्रोस्ततो विस्तारयेद्बलंसेनापतिबलाध्यक्षान् सर्वदिक्षु निवेशयेत् ॥५४॥यतश्शंका भवेद्भीतस्तां प्राचीं कल्पयेद्दिशंसूच्या वक्रेण चैवैनान् योधयेद्व्यूह्य वैरिणः ॥५५॥गुल्मांश्च स्थापयेदाप्तान् कृतसंज्ञान् समंततःस्थाने युद्धे च कुशलानभीरूनरिघातिनः ॥५६॥यवसान्नोदकधनान्युपरुन्ध्याद्रिपोर्युधिचेष्टाश्चैव विजानीयादरीन् योधयतां स्वयं ॥५७॥उपजप्यानुपजपेद्भेद्यांश्चैव विभेदयेत्लुब्धान् दानेन बिभृयाच्छत्रोर्योधान्यथोचितं ॥५८॥तादृशानेव स्वीयांस्तु शिक्षयेदविचीरयन्गोपयेत्स्वीयमार्गांश्च परमर्मपरो नृपः ॥५९॥युद्धकाले ह्यनुप्राप्ते स्वीयाज्ञापरिपंथिनांपलायनपराणां च स्वयोधानामुपेक्षिणां ॥६०॥व्याजेन युध्यतां चैव सैन्यपानां सुलोभिनांपराङ्मुखपराणां च मिथो योधविभेदिनां ॥६१॥शत्रुषु स्वीयमार्गांश्च व्याजात्ख्यापयतां स्फुटंरिपूणां मार्गदातॄणां स्वापदं चाभिनन्दतां ॥६२॥तेषां प्राणान्तिको दंडो राज्ञा कार्यो विजानतासुमहत्यपराधेऽपि दूतवध्या विगर्हिता ॥६३॥योऽदंड्यान्मोचयेद्राजा सम्यग्दंड्यांश्च घातयेत्इष्टं भवेत् क्रतुशतैस्तेन धर्मानुवर्तिना ॥६४॥इति श्रीमन्नीतिशास्त्रे नीतिप्रकाशिकायां सैन्ययोगकथनं नाम सप्तमोऽध्यायः N/A References : N/A Last Updated : February 13, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP