नीतिप्रकाशिका - षष्ठोऽध्यायः
महर्षि वैशंपायन द्वारा रचित एक प्राचीन संस्कृत ग्रंथ आहे, जो राजनीति (शासकीय नीति) आणि धनुर्विद्या (युद्धकला) मुख्यत्वे या विषयांवर केंद्रित आहे
अथ व्यूहान् प्रवक्ष्यामि शत्रुसैन्यप्रमर्दनान्
बलांगासंकुलार्थाय शत्रुसंमोहनाय च ॥१॥
स्वशक्त्युपचयं ज्ञात्वा रिपुव्यसनमेव च
शत्रोस्त्रिगुणसैन्येन व्यूह्य सेनामरिं व्रजेत् ॥२॥
दंडो भोगोऽसंहतश्च मंडलव्यूह एव च
व्यूहाश्चत्वार एवैते तेषु भेदान् ब्रवीम्यहं ॥३॥
प्रदरो दृढकस्सत्यश्चापभूस्वक्षिरेव च
सुप्रतिष्टोऽप्रतिष्ठश्च श्येनो विजयसंजयौ ॥४॥
विशालो विजयस्सूची स्थूणोऽकर्णश्चमूमुखः
सुखास्यो विजयश्चेति दंडस्सप्तदशात्मकः ॥५॥
गोमूत्रिका हंसिका च संचारी शकटस्तथा
एवं करपतन्तीति भोगभेदास्तु पंच वै ॥६॥
अर्धचन्द्रकटद्धारो वज्रो शर्कटकस्तथा
शृंगी च काकपादी च गोधिकेत्यपरस्स्मृतः ॥७॥
असंहतष्षड्विधस्स्यादित्याहुर्व्यूहकोविदाः
सर्वभद्रो दुर्जयश्च मंडलोऽपि द्विधा इति ॥८॥
वाराही मकरव्यूहो गारुडः क्रौञ्च एव च
पद्माद्याश्चांगवैकल्यादेतेभ्यस्ते पृथक्स्मृताः ॥९॥
रक्षोदेवमनुष्याणां बुद्धिवैचित्र्यनिर्मिताः
व्यूहास्सहस्रशो राजन्निति ज्ञेया मनीषिभिः ॥१०॥
उरः कक्षौ च पक्षौ च मध्यं पृष्ठः प्रतिग्रहः
कोटी च व्यूहशास्त्रज्ञैस्सप्तांगो व्यूह उच्यते ॥११॥
अग्रे नागान् रथान् पश्चात्पार्श्वयोस्तुरगान्नृपः
पदातीन् पृष्ठतो व्यूहे चारयन्विजयी भवेत् ॥१२॥
तत्तत्कार्यानुसारेण रथान् नागांस्तुरंगमान्
नरानश्वान्रथान्नागान्नरानश्वान्रथांस्तथा ॥१३॥
गजांश्चाग्रे प्रेषयेच्च योजयित्वा यथाक्रमं
देशकालौ निरीक्ष्यैव परिवारसमन्वितान् ॥१४॥
सर्वाभिसारसहितो यात्रोद्युक्तो नृपोत्तमः
प्रचक्रममथो दृष्ट्वा प्रसारे विनियोजयेत् ॥१५॥
अभिषेणनमन्विच्छन्नभिक्रममथाचरेत्
संग्राहिणः कौक्षिकांश्च जंघालानंनुकामिनान् ॥१६॥
ऊर्जस्वलान्सांयुगीनान्सैन्यमध्ये प्रचारयेत्
बालान्पोतांश्च कलभान्विक्कांश्चैवोपवाह्यकान् ॥१७॥
मदोत्कटांश्च कलभान् सान्नाह्यानेव कारयेत्
उद्वांतं हास्तिकं चापि घण्टापथचरं भवेत् ॥१८॥
वीतमंतःपुरं चैव पृष्ठ्यान्वै प्रातिवेश्यकान्
शाखानगरवासांश्च राजधानीवणिग्जनान् ॥१९॥
सौविदल्लान् वर्षवरान्वृद्धान् बालांश्च रोगिणः
सक्षतानक्षिरहितान् पंगून्व्यंगान्सुदुर्बलान् ॥२०॥
तथा पुष्यरथांश्चैव भद्रासनयुतानपि
प्रक्रियानुप्लवांश्चैव युद्धोपकरणानि च ॥२१॥
कोष्ठागारायुधागारयंत्रागाराणि यानि च
मंदरान्धान्यकोशं च यच्चान्यत्कृशदुर्बलं ॥२२॥
प्रतिग्रहे वासयेच्च योधास्रंमर्दहेतवे
तस्य रक्षाञ्च विधिवच्छूरैः कुर्यान्नराधिपः ॥२३॥
ऊर्जस्वलांश्च जंघालानाभ्यमित्रीयतस्तथा
आत्यंतिकान् स्पशान् दूतांश्चैत्रान् सांयुगिकांस्तथा ॥२४॥
जैत्रध्वजपताकं च स्वगजं च महोन्नतं
नासीरे प्रेषयेदेतानुरस्वद्भिर्बलैस्सह ॥२५॥
पुरोगानुचरांश्चैव साहायाभिचरांस्तथा
प्रष्ठांश्च जांघिकांश्चैव वेत्रिणोऽनुप्लवांस्तथा ॥२६॥
असिचर्मधरांश्चैव शंसकान् मागधांस्तथा
स्वपुरश्चारयेद्राजा स्वसंरक्षणकारणात् ॥२७॥
आजानेयांश्च जवनान्पृष्ठ्यान् रथ्यांश्च कर्कशान्
पृष्ठेऽश्वान् वासयेद्राजा सविधे व्यूहकंकटान् ॥२८॥
आश्विनं वप्रसहितं सालं काष्ठविनिर्मितं
बृहत्कूटं सपरिखं धनधान्यायुधान्वितं ॥२९॥
सकाण्डपृष्ठं सजलं सतुषांगारशिल्पिकं
समाश्रयेद्युध्यमानश्शत्रुभिर्नृपसत्तमः ॥३०॥
बहूदयान् प्रात्ययिकान् कृत्वान्तर्वंशिकान् नृपः
प्राज्ञान्मूलप्रतीकारान्वैरनिर्यातनं चरेत् ॥३१॥
मूलप्रतिग्रहं कृत्वा प्रत्यासारं प्रकल्प्य च
पौरश्रेणीस्स्वराष्ट्रं च पालयन् श्रितप्राभृतः ॥३२॥
सैनिकान् परिधिस्थांश्च स्थापयित्वा नृपोत्तमः
प्रस्थापयेन्मार्गकरान् पुरस्ताच्छिल्पिनो बहून् ॥३३॥
कर्मान्तिकान् यष्टिधरान् खनकान् तक्षकानपि
सूत्रिणो रोपकांश्चैव सेतुबन्धकरानपि ॥३४॥
तथा भूमिप्रदेशज्ञान्व्याधान्वनविशारदान्
विषमस्थं रिपुबलं ये विंद्युस्तान् बहुश्रुतान् ॥३५॥
प्रेषयित्वा नयेत् सेनां गुप्तिकर्म विधाय च
परिहृत्य श्मशानानि देवतायतनानि च ॥३६॥
आश्रमांश्च महर्षीणां तीर्थान्यायतनानि च
नाधितिष्ठेत् तुषाङ्गारभस्मकेशकपालिकाः ॥३७॥
मधुरानूषरे देशे शिवे पुण्ये जलावृते
निवेशं कारयेद्राजा सेनायास्तु स्ववृद्धये ॥३८॥
विद्रावयेच्छत्रुगुल्मांस्तथा चैकचराहितान्
परिक्रमेच्च सेनायां परितो योधसंवृतः ॥३९॥
दूष्याणि च नरेंद्राणां स्वयमेव विचारयन्
शत्रूद्योगविघातार्थं परितश्चारयेद्बलं ॥४०॥
गुप्तिकर्म समादिश्य चाराननुविधाय च
शिबिराणि महार्हाणि स्वयोधानां पृथक्पृथक् ॥४१॥
प्रभूतजलकाष्ठानि दुराधर्षतराणि च
भक्ष्यभोज्योपपन्नानि धनधान्ययुतानि च ॥४२॥
कृत्वा सुशिल्पिनः प्राज्ञाञ्शतशो दत्तवेतनान्
सर्वोपकरणैर्युक्तान् वैद्यांश्च सुविशारदान् ॥४३॥
प्रदेयानि तु योधानां वस्त्राण्याभरणानि च
वित्तं बहु च संस्थाप्य निश्शंको योधयेदरीन् ॥४४॥
गतवाहनयोधानां वाहनानि प्रकल्पयेत्
विशस्त्राणां च शस्त्राणि दापयेद्युधि भूमिपः ॥४५॥
पल्याणानि खलीनानि पल्ययांकादिकानि च
प्रकीर्णकानि शीर्षण्यान्यथो कंकटकान्कुथाः ॥४६॥
ज्याधनुर्वर्मशस्त्राणि चापानि यवसं बहु
महायन्त्राणि नाराचांस्तोमरांश्च परश्वधान् ॥४७॥
रज्जूञ्शंकूञ्शंकुरोपान्लोहपादविबन्धनान्
दात्राणि च कुठारांश्च वाश्यांश्च छुरिका अपि ॥४८॥
चक्राणि लोहपट्टांश्च क्रकचांश्चर्मभस्त्रिकाः
पिटकानि खनित्राणि सूचीश्च ग्रथनोचिताः ॥४९॥
पृष्ठ्यान्वृषानश्वतरीनुष्ट्रान्वै दूरगामिनः
गजानां च हयानां च नराणामगदानि च ॥५०॥
विविधानि च वाद्यानि तथा कैरातकं मधु
शाल्मलीतूलिकां चैवाप्यश्मसाराश्मसंयुतां ॥५१॥
वराकीश्चैव तरुजाः कटाहाँल्लौहतांम्रकान्
आरकूटांश्च टंकांश्च शाणांश्च पृधनानपि ॥५२॥
अरा उपानहश्चेहाप्यूरुत्राणि कशास्तथा
विश्वकद्रूंश्च वेणूंश्च वागुरा बडिशान्यपि ॥५३॥
पतद्ग्राहान्गंधतैलं पीतिकादीनि यानि च
प्रास्थानिकानि सेनायास्तानि सुष्ठु प्रकल्पयेत् ॥५४॥
योधेषु रथिकान् कुर्यादश्वपृष्ठविशारदान्
अश्वारूढांस्तथा कुर्याद्रथेषु परिनिष्ठितान् ॥५५॥
उभौ तौ नृपतिः कुर्याद्गजपृष्ठसुयोधिनौ
तान् हि कुर्यात्पदातीन्वै पदातीनपि तादृशान् ॥५६॥
सारथ्ये च गजस्कंधे चक्ररक्षाविघौ तथा
अन्येषु वा साहसेषु तान्कुर्यान्निपुणान्नृपः ॥५७॥
द्वात्रिंशत्करणानि स्युर्युद्धे यानीह नीतितः
चतुरङ्गबलं सर्वं तेषु कुर्यात्सुनिष्ठितं ॥५८॥
प्रयाणपूर्वयायित्वं वनदुर्गप्रवेशनं
अकृतानां च मार्गाणां कृतानां च प्रवर्तनं ॥५९॥
बिभीषिकाविघातश्च तथा प्राकारभंजनं
कोशनीतिर्भयत्राणं भिन्नसंधानमेव च ॥६०॥
शत्रुपच्यश्वरोधश्च दुर्गे भारोद्वहस्तथा
वृक्षावभंजनं चैव हस्तिकर्म प्रचक्षते ॥६१॥
द्वितीयसैन्ययायित्वं गजसंरक्षणं तथा
भिन्नसंधानकारित्वं दूरे शत्रुनिवारणं ॥६२॥
शत्रूणामभिरोधश्च व्यूहद्वारे व्यवस्थितिः
महाघोषविधिश्चेति रथकर्म प्रचक्षते ॥६३॥
वनदिङ्मार्गविज्ञानं वीवधासाररक्षणं
प्रसास्करणं चापि हेषिताच्छत्रुभीषणं ॥६४॥
अनुयानापसरणे शीघ्रकार्योपपादनं
लुंठनं शत्रुसैन्यानामश्वकर्म प्रचक्षते ॥६५॥
शोधनं कूपतीर्थानां मार्गाणां शिबिरस्य च
स्कंधावारस्य करणं विष्टिकर्मप्रसाधनं ॥६६॥
कोशागारायुधागारधान्यागारादिरक्षणं
व्यूहप्राकारकरणं पत्तिकर्म प्रचक्षते ॥६७॥
अवृक्षस्थूलपापाणागुल्मवल्मीककण्टका
सापसारा पदातीनां भूर्नातिविषमा मता ॥६८॥
अपंका शंकुरहिता तथा पाषाणवर्जिता
खुराघातक्षमाभिन्ना समा भूर्वाजिनां मता ॥६९॥
अकेदाराकृतश्वभ्रा वृक्षगुल्मविवर्जिता
खुरचक्रसहा सौम्या रथभूस्संप्रकीर्तिता ॥७०॥
मर्दनीयतरुश्रेष्ठव्रततिः पंकवर्जिता
निर्दरा गम्यशैला च विषमा गजमेदिनी ॥७१॥
सर्वसेनाधिपः कार्यः कुलपुत्रो जितेन्द्रियः
दृष्टापदानो दक्षश्च रूपवान् राजवल्लभः ॥७२॥
लालाटिकश्चेंगितज्ञस्सेनानयविशारदः
धृष्टस्सांत्वयिता चैव स्वयोधानां रणाजिरे ॥७३॥
अक्षौहिणीनां पतयः पृथक्कार्यास्तथाविधाः
सेनापतिवशे तेऽपि तिष्ठेयुस्तेन पालिताः ॥७४॥
पत्तेस्सेनामुखस्यापि गुल्मस्य च गणस्य च
वाहिन्याः पृतनायाश्च चम्वाश्चाप्यधिपाः पृथक् ॥७५॥
अनीकिन्याश्च कार्या वै योधशिक्षासु निष्ठिताः
द्वयोस्त्रयाणां पतयः कार्याः कार्यानुसारतः ॥७६॥
दिवसे दिवसे संज्ञाः पृथक्कार्यास्स्वके बले
ता जानीयुस्सैन्यपाला न भटा नेतरे जनाः ॥७७॥
स्वाज्ञासंचरणार्थाय संचरेयुस्स्वचिह्निताः
शत्रूणामुपघातार्थं गुप्तिकर्म प्रचक्षते ॥७८॥
यादृक्सैन्याधिपत्ये तु पूर्वं योऽधिकृतो भवेत्
स ज्येष्ठभावे नियतस्तत्पाश्चात्यास्तु तद्वशे ॥७९॥
पच्याद्यङ्गपतीनष्टावक्षौहिण्यधिपानुगान्
कृत्वा ज्येष्ठानुसारेण नियम्यास्सर्वसैनिकाः ॥८०॥
राज्ञा नियमितांस्त्यक्त्वा तथासंज्ञोत्तरप्रदान्
हन्यान्निशिचरान्सैन्ये नृपाज्ञापरिपंथिनः ॥८१॥
अधिपाः प्रतिसेनायास्त्रयः कार्यास्सुशिक्षिताः
उत्तमाधममध्यस्था ज्येष्ठाज्ञावशवर्तिनः ॥८२॥
दिवसे दिवसे सेनां परिवर्त्य प्रचोदयेत्
एकत्र सुस्थितं सैन्यं शंकां स्वस्यापि साधयेत् ॥८३॥
यस्त्वमात्योऽनुकूलस्स्याद्राजकार्यधुरंधरः
सैन्यपालस्य तस्याज्ञां स्वयं राजा समाश्रयेत् ॥८४॥
समुत्पिंजे स्वसैन्ये च संशप्तैर्योधयेदरीन्
वीराशंसनके तिष्ठेद्विजिगीषुर्नृपस्स्वयं ॥८५॥
कान्दिशीके स्वसैन्ये तु मुण्डानीके वसेत् स्वयं
कृतलोहाभिसारस्सन् पश्चाद्गत्वा रिपूञ्जयेत् ॥८६॥
गव्यूतिमात्रे यो व्यूहो बृहत्सैन्यस्य निर्मितः
अच्छत्रचामरैश्शूरैर्मुण्डानीकं स चोच्यते ॥८७॥
प्रत्यग्रे कर्मणि कृते श्लाघमानः कृतादरः
योधेभ्यः पूर्णपात्रं हि दद्याद्राजा विशेषतः ॥८८॥
दद्यात्प्रहृष्टो नियुतं वर्वाणां राजघातिने
तदर्धं तत्सुतवधे सेनापतिवधे तथा ॥८९॥
अक्षौहिणीपतिवधे तदर्धं परिचक्षते
मंत्र्यमात्यवधे चैव तदर्धं तु प्रदापयेत् ॥९०॥
अनीकिनी चमूश्चैव पृतना वाहिनी गणः
गुल्मं सेनामुखं पत्तिरेतेषां पतिघातिने ॥९१॥
क्रमादर्धांशहासेन तत्तदर्धानि दापयेत्
वेतनादधिकं चैतत् प्राप्य कुर्युश्च साहसं ॥९२॥
अक्षौहिण्याः पतिं हत्वा द्वितीयं वा तृतीयकं
चम्वोरधिपतिं चैव पृतनानां पतिं तथा ॥९३॥
अनीकिनीपहा यावत्तावत्प्राप्नोति राजतः
इत्थमग्रेऽपि योक्तव्यं सन्मानमधिपापहे ॥९४॥
पलायितं सायुधं तु धृत्वा स्वभटदायिने
वर्वाणां पंच वै दद्यात् तस्मै सत्कृत्य भूमिपः ॥७५॥
पलायितं स्वभृतिकं विशस्त्रं देहलोभिनं
धृत्वा निवेदिने दद्याद्वर्वाणां च त्रिकं नृपः ॥९६॥
गजं च गजसादिं च महारथिकमस्तकं
छित्वा निवेदयेद्राज्ञो द्विसाहस्रं स चार्हति ॥९७॥
हयारूढवरं हत्वा पादाताधिपतिं तथा
वर्वाणां च सहस्रस्य योग्यो भवति राजतः ॥९८॥
शत्रुसैन्यात्कुंजरं वा रथं वा यस्समाहरेत्
पंचाशद्वर्वसंमानं स प्राप्नोत्विह राजतः ॥९९॥
प्रतिप्रयाणं भृत्यानां भक्तं देयं स्थितौ न हि
मार्गायासं विदित्वैषां वेतनादधिकं त्विदं ॥१००॥
अन्येषु वा साहसेषु वेतनादधिकं नृपः
लोकसंग्रहणार्थं च दद्याद्वै पारितोषिकं ॥१०१॥
भटेभ्यश्चैव वस्त्राणि रजकानां च वेतनं
तद्वेतनेनैव कल्प्यान्यौषधानि च रोगिणां ॥१०२॥
परराष्ट्रार्जितं द्रव्यमर्धं राजा विभज्य तु
योधेभ्योऽर्धं प्रदेयं स्यादर्धं च स्वयमाहरेत् ॥१०३॥
हयं वा शकटीं वापि हरेत् सोपस्कृतां भटः
तदर्घतुर्यमंशं तु स लभेद्राजसत्कृतः ॥१०४॥
शिथिलानि च शस्त्राणि लुंठितं शत्रुभिर्युधि
स्वयोधानां नृपो दद्याद्वेतनं परिहाप्य च ॥१०५॥
युद्धे स्वार्थं मृता ये च शत्रुभिस्तत्स्वबंधुषु
सेवया जीरिता ये च देयं तेषां तु जीवनं ॥१०६॥
मृतानां जीवतां चापि पूर्वं सेवापरात्मनां
तदीयानां तु तेषां वा पूर्वभर्मार्धजीवनं ॥१०७॥
संग्रामेऽभिमुखाः कृत्ता युवानो नमृता भटाः
राजसेवास्वशक्ता ये तेषां पूर्वार्धजीवनं ॥१०८॥
शत्रूणामुपघातार्थं तस्य मर्माणि योऽर्पयेत्
स्वस्मै तस्यापि कर्मण्या द्विगुणा परिकीर्तिता ॥१०९॥
शत्रुसेनाविभेत्तारं दुर्गारोहणतत्परं
स्वराज्यवृद्धिकर्तारं योजयेद्द्रविणोत्करैः ॥११०॥
इत्थंविधाभिस्तु भटान् नियोज्य
राजा कृतार्थस्तु रिपून्निहत्य
संप्राप्य कीर्तिं महतीं श्रियं च
महीयते राजवराभिवंद्यः ॥१११॥
इति श्रीमन्नीतिशास्त्रे नीतिप्रकाशिकायां सेनानयकथनं नाम षष्ठोऽध्यायः
N/A
References : N/A
Last Updated : February 13, 2026

TOP