नीतिप्रकाशिका - चतुर्थोऽध्यायः
महर्षि वैशंपायन द्वारा रचित एक प्राचीन संस्कृत ग्रंथ आहे, जो राजनीति (शासकीय नीति) आणि धनुर्विद्या (युद्धकला) मुख्यत्वे या विषयांवर केंद्रित आहे
स्वयंभोर्वचनं श्रुत्वा पृथुः परमहर्षितः
प्रश्रयावनतो भूत्वा भूयः पप्रच्छ चाब्जजं ॥१॥
द्वात्रिंशदायुधानीति मुक्तामुक्तोदितानि मे
तेषां स्वरूपं वर्णं च प्रयोगान् वक्तुमर्हसि ॥२॥
इति पृष्टस्तु पृथुना भगवान् भक्तवत्सलः
तत्सर्वं कथयामास तस्य विस्तारयन् यशः ॥३॥
यस्य देवस्य यद्रूपं यो वर्णो यश्च यादृशः
आयुधस्याथ तन्नाम्नस्तानवेहि महामते ॥४॥
पूर्वं वक्ष्यामि मुक्तानां संस्थानानि निबोध मे
विदित्वा कारयन्नेवमायुधानां प्रकल्पनं ॥५॥
धनुस्स्वरूपमाख्यास्ये प्रथमं नृप सत्तम
तत्प्रमाणं च संस्थानं तस्याभ्यासक्रमं तथा ॥६॥
तत्रावान्तरभेदांश्च शराभ्यासक्रमं तथा
लस्तकग्रहणं चापि लक्ष्यभेदं चतुर्विधं ॥७॥
पृथुग्रीवं सूक्ष्मशिरस्तनुमध्यं सुपृष्ठवत्
चतुष्किष्कुप्रांशुदेहं त्रिणतं दीर्घजिह्वकं ॥८॥
दंष्ट्राकरालवदनं रक्ताभं घर्घरस्वनं
आंत्रमालापरिक्षिप्तं लेलिहानं च सृक्वणी ॥९॥
जयायां च कृशाश्वाद्यज्जातं वै लोकरक्षणे
तद्ध्यात्वा मनसा सम्यग्गुरुं नत्वा विधानतः ॥१०॥
धनुर्वेदविधानेन नास्य वामकरेण तत्
दक्षिणेन ज्यया योज्य पृष्ठे मध्ये प्रगृह्य तत् ॥११॥
वामांगुष्ठं तदुदरे पृष्ठे तु चतुरंगुलीः
पुंखमध्ये ज्यया योज्य स्वांगुलीविवरेण तु ॥१२॥
आकर्णं तु समाकृष्य दृष्टिं लक्ष्ये निवेश्य च
लक्ष्यादन्यदपश्यंस्तु कृतपुंखः प्रयोगवित् ॥१३॥
यदा मुंचेच्छरं विध्येत्कृतहस्तस्तदोच्यते
एवं बाणाः प्रयोक्तव्या ह्यात्मा रक्ष्यः प्रयत्नतः ॥१४॥
अविचाल्यं च सूक्ष्मं च सुकुमारमथो गुरु
चातुर्विध्यं च लक्ष्यस्य धनुर्वेदविदो विदुः ॥१५॥
भूभृद्भेदश्चाविचाल्यं सूक्ष्मं गुंजादिभेदनं
कुक्कुटांडोदकुंभानां भेदनं सुकुमारकं ॥१६॥
रक्षोगजादिदेहानां पातनं गुरु चोच्यते
एवं च लक्ष्यविवृतिर्विज्ञेया नीतिमत्तरैः ॥१७॥
लक्ष्यस्य प्रतिसंधानमाकर्षणविकर्षणे
पर्याकर्षानुकर्षा च मण्डलीकरणं तथा ॥१८॥
पूरणं स्थारणं चैव धूननं भ्रामणं तथा
आसन्नदूरपातौ च पृष्ठमध्यमपातने ॥१९॥
एतानि वल्गितान्याहुश्चतुर्दश धनुर्विदः
धनुर्भेदान्प्रवक्ष्यामि तत्तत्कार्यानुसारतः ॥२०॥
शार्ङ्गिकं त्रिणतं प्रोक्तं वैणवं सर्वनामितं
वैतस्तिकधनुश्शंस्त्रं वैणवं तद्धि हस्तकं ॥२१॥
उपलोत्क्षेपकं चापं वैणवं तद्विरज्जुकं
त्रिहस्तोत्सेधसहितं द्व्यंगुलीविस्तृतं तु तत् ॥२२॥
बद्धगोधांगुलित्राणः पृष्ठबुद्धेषुधिस्सदा
योग्यां कुर्यादन्यथा स्यादपराद्धपृषत्ककः ॥२३॥
प्रत्यालीढकमालीढं तथा समपदं स्मृतं
विशालं मंडलं चेति पञ्च धानुष्कवृत्तयः ॥२४॥
गोधोपासंगकवचशिरस्त्राणपरीकराः
गलपट्टिसंग्रहश्च रथिनस्साधनानि वै ॥२५॥
प्रदक्षिणं च शैघ्र्यं चाप्यप्रदक्षिणमेव च
गतं प्रत्यागतं चैव मंडलं चाप्यवस्थितिः ॥२६॥
मिश्रणं स्फोटनं वीधी रथमार्गास्स्मृता दश
धनुर्विद्यां विदित्वैवं निर्दयस्तरणो भवेत् ॥२७॥
इषुर्नीलबृहद्देहो द्विहस्तोत्सेधसंयुतः
परिध्या चाञ्जलिमितो नल्वमात्रगतिस्तु सः ॥२८॥
भ्रामणं क्षेपणं चेति द्वे गती स्थूलसन्नते
इमे गतीभगो ज्ञात्वा युध्वारीन् विजयेद्युधि ॥२९॥
भिण्डिवालस्तु वक्रांगो नम्रशीर्षो बृहच्छिराः
हस्तमात्रोत्सेधयुक्तः करसंमितमण्डलः ॥३०॥
त्रिभ्रामणं विसर्गश्च वामपादपुरस्सरं
पादघाताद्रिपुहणो धार्यः पादातमण्डलैः ॥३१॥
शक्तिर्हस्तद्वयोत्सेघा तिर्यग्गतिरनाकुला
तीक्ष्णजिह्वोग्रनखरा घण्टानादभयंकरी ॥३२॥
व्यादितास्यातिनीला च शत्रुशोणितरंजिता
आन्त्रमालापरिक्षिप्ता सिंहास्या घोरदर्शना ॥३३॥
बृहत्त्सरुर्दूरगमा पर्वतेन्द्रविदारिणी
भुजद्वयप्रेरणीया युद्धे जयविधायिनी ॥३४॥
तोलनं भ्रामणं चैव वल्गनं नामनं तथा
मोचनं भेदनं चेति षण्मार्गाश्शक्तिसंश्रिताः ॥३५॥
द्रुघणस्त्वायसांगस्स्याद्वक्रग्रीवो बृहच्छिराः
पंचाशदंगुल्युत्सेधो मुष्टिसंमितमण्डलः ॥३६॥
उन्नामनं प्रपातश्च स्फोटनं दारणं तथा
चत्वार्येतानि द्रुघणे वल्गितानि श्रितानि वै ॥३७॥
तोमरः काष्ठकायस्स्याल्लोहशीर्षस्सुगुच्छवान्
हस्तत्रयोन्नतांगश्च रक्तवर्णस्त्ववक्रगः ॥३८॥
उद्धानं विनिवृत्तिश्च वेधनं चेति तत्त्रिकं
वल्गितं शस्त्रतत्त्वज्ञाः कथयंति नराधिपाः ॥३९॥
नलिका ऋजुदेहा स्यात् तन्वंगी मध्यरन्ध्रिका
मर्मच्छेदकरी नीला द्रौणिचापशरैरिणी ॥४०॥
ग्रहणं ध्मापनं चैव स्यूतं चेति गतित्रयं
तामाश्रितं विदित्वा तु जेतासन्नान् रिपून् युधि ॥४१॥
लगुडस्सूक्ष्मपादस्स्यात् पृथ्वंसस्स्थूलशीर्षकः
लोहबद्धाग्रभागश्च ह्रस्वदेहस्सुपीवरः ॥४२॥
दंतकायो दृढांगश्च तथा हस्तद्वयोन्नतः
उत्थानं पतनं चैव पेषणं पोथनं तथा ॥४३॥
चतस्रो गतयस्तस्य पञ्चमी नेह विद्यते
दृढकायः पत्तिवर्गो तेन युध्येत शत्रुभिः ॥४४॥
पाशस्सुसूक्ष्मावयवो लोहधातुस्त्रिकोणवान्
प्रादेशपरिधिस्सीसगुलिकाभरणांचितः ॥४५॥
प्रसारणं वेष्टनं च कर्तनं चेति ते त्रयः
योगाः पाशाश्रिता लोके पाशाः क्षुद्रसमाश्रिताः ॥४६॥
चक्रं तु कुण्डलाकारमन्ते स्वश्रसमन्वितं
नीलीसलिलवर्णं तत् प्रादेशद्वयमण्डलं ॥४७॥
ग्रंथनं भ्रामणं चैव क्षेपणं परिकर्तनं
दलनं चेति पंचैव गतयश्चक्रसंश्रिताः ॥४८॥
दन्तकंटकनामा तु लोहकंटकदेहवान्
अग्रे पृथुस्सूक्ष्मपुच्छश्चांगारसनिभाकृतिः ॥४९॥
बाहून्नतस्सुत्सरुश्च दंडकायोग्रलोचनः
पातनं ग्रन्थनं चेति द्वे गती दन्तकंटके ॥५०॥
बृसुण्डी तु बृहद्ग्रन्थिर्बृहद्देहस्सुसत्सरुः
बाहुत्रयसमुत्सेधः कृष्णसर्पोग्रवर्णवान् ॥५१॥
यापनं घूर्णनं चेति द्वे गती तत्समाश्रिते
मुक्ता ह्येते समाख्याता नृपामुक्तानथो शृणु ॥५२॥
इति श्रीमन्नीतिशास्त्रे नीतिप्रकाशिकायां मुक्तायुधनिरूपणं नाम चतुर्थोऽध्यायः
N/A
References : N/A
Last Updated : February 13, 2026

TOP