संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|परशुराम कल्पसूत्र|परशुरामकल्पसूत्र द्वितीय भाग| अष्टादशः खण्डः वासनाध्यायः परशुरामकल्पसूत्र द्वितीय भाग द्वितीयोभागस्य खण्डाः अनुक्रमणिका एकादशः खण्डः यन्त्रविधानम् द्वादशः खण्डः मन्त्रविधानम् त्रयोदशः खण्डः प्रस्तारक्रमः चतुर्दशः खण्डः नष्टोद्दिष्टकथनम् पञ्चदशः खण्डः कृतनष्टनिरूपणम् षोडशः खण्डः योनिलिङ्गयन्त्ररचनाविधानम् सप्तदशः खण्डः अङ्गविद्या अष्टादशः खण्डः वासनाध्यायः अष्टादशः खण्डः वासनाध्यायः परशुराम कल्पसूत्र एक शाक्त आगम आहे, जो श्री विद्या प्रथावांवर एक हिंदू ग्रंथ आहे Tags : kalpaparashuramsotraकल्पसूत्रपरशुराम अष्टादशः खण्डः वासनाध्यायः Translation - भाषांतर अथातो वासनां व्याख्यास्यामः ॥१॥तदात्मकं समुदयं मदात्मिकापि विश्रितम् ।हयात्मकं आत्मस्वरूपं तैर्भावयेत् ॥२॥कालेनान्यत्वदुःखार्तिवासनाशतशो ध्रुवम् ।पराहन्तामयं सर्वस्वरूपस्वात्मविग्रहम् ॥३॥सदात्मकं स्फुरत्ताख्यं अशेषोपाधिवर्जितम् ।प्रकाशरूपमात्मत्वे वस्तु सद्भासते परम् ॥४॥वरयन्ते एवमतो लोके नान्यत्र मन्त्रवदक्षरम् ।यद्विद्येति हि मन्वीत सर्वधा सर्वतः सदा ॥५॥अथ मन्त्रार्थः-ललितायास्त्रिभिर्वर्णैः सकलार्थोऽभिधीयते ।शेषेण देवीरूपेण तेन स्यादिदमीरितम् ॥६॥अशेषतो जगत् कृत्स्नं हृल्लेखात्मकतः परम् ।तस्याश्चार्थस्तु कथितः सर्वतन्त्रेषु गोपितः ॥७॥व्योम्ना प्रकाशमानत्वं ग्रसमानत्वमग्निना ।ते यो विमर्श ईकार बिन्दुना तन्निफालनम् ॥८॥ १. ह्रीं श्रीं अं कामेश्वरीपादुकां पूजयामि । २. ह्रीं श्रीं आं भगमालिनीपादुकां पूजयामि ३. ह्रीं श्रीं इं नित्यक्लिन्नापादुकां पूजयामि । ४. ह्रीं श्रीं ईं भेरुण्डापादुकां पूजयामि । ५. ह्रीं श्रीं उं वह्निवासिनीपादुकां पूजयामि । ६. ह्रीं श्रीं ऊं महावज्रेश्वरीपादुकां पूजयामि ७. ह्रीं श्रीं ऋं शिवदूतीपादुकां पूजयामि । ८. ह्रीं श्रीं ॠं त्वरितापादुकां पूजयामि । ९. ह्रीं श्रीं ऌं कुलसुन्दरीपादुकां पूजयामि । १०. ह्रीं श्रीं ॡं नित्यापादुकां पूजयामि । ११. ह्रीं श्रीं एं नीलपताकापादुकां पूजयामि । १२. ह्रीं श्रीं ऐं विजयापादुकां पूजयामि । १३. ह्रीं श्रीं ओं सर्वमङ्गलापादुकां पूजयामि । १४. ह्रीं श्रीं औं ज्वालामालिनीपादुकां पूजयामि १५. ह्रीं श्रीं अं चित्रापादुकां पूजयामि । १६. ह्रीं श्रीं अः त्रिपुरसुन्दरीपादुकां पूजयामि ॥९॥शङ्कुच्छायया दिक्परिज्ञानक्रमं प्रस्तावसहितंउपदिशति ॥१०॥तत्र भानोर्गत्या आदित्यदक्षिणोत्तरायणक्रमगति-भेदज्ञानच्छाययेति यावत् ॥११॥तन्मध्यं बिन्दुमध्यं इत्येतत्क्रियाविशेषणम् ॥१२॥पूर्वापरद्वये पूर्वापरात्मिकयोः दिशोः प्राग्वच्छिन्नेकृत्वेत्यर्थः ॥१३॥तदभिमतः तद्द्वयमवष्टभ्य सममानपारभ्रान्त्या तच्चि-ह्नद्वयान्तरालमानपरिभ्रान्त्यां स्वेच्छाधिकेनार्धेन मानेनअन्योन्यतुल्येन परिभ्रान्त्यां कृत्वा वृत्तद्वयं कृत्वेत्यर्थः ॥१४॥तयोः पूर्वापरयोः संश्लेषसञ्जातमध्यदक्षोत्तरस्थितइत्यस्य उत्तरत्र सन्धिद्वये इत्येते विशेषं प्राक्प्रत्यक्सूत्रमध्ये प्राक्प्रत्यगात्मसूत्रमध्ये तु संहारे दक्षोत्तरंदक्षिणोत्तरं तेषां मण्डपादीनामग्रैः सूत्राग्रैः ॥१५॥एतदुक्तं भवति - जीमूताद्यपरिवेष्टितभानौ दिवसेछायादिभिरनावृतदेशे जलयन्त्रादिभिः सुसमीकृतस्य दर्प-णोदरसङ्काशस्य भूतलस्य मध्ये बिन्दुं कृत्वा तदवष्टम्भतःप्रतिदिशं द्वादशाङ्गलमानेन वृत्तं कृत्वा तत्र षडङ्गलमान-परिणाहमूलमुत्तरोत्तरपरिणाहापचयेन सूचीमात्रीकृताग्र -परिणाहं मृद्वाकृतिं शङ्कुमूलमानोच्छ्रा(छा)यसहितं वृत्ताकारंशिल्पिवरेण निर्मितं वृत्तमध्यस्थबिन्दुमध्ये यथा शङ्कुमूल-परिणाहमध्यं भवति तथा तच्छङ्कुच्छायाग्रस्य पूर्वाह्णेतत्तद्वृत्तरेखापश्चिमभागे यत्र सम्पातस्तत्र ततोऽपराह्णेतच्छङ्कुच्छायाग्रस्य तद्वृत्तरेखापूर्वभागे चिह्नं विधायतच्चिह्नद्वयं प्रापयत् सूत्रं तत्पूर्वापरं परिकल्प्य तच्चिह्नद्वया-वष्टम्भेन तच्चिह्नान्तरालमानस्य चेष्टाधिकेनार्धमानेनान्योन्य-समेते किञ्चिदन्योन्यसंश्लिष्टं पूर्वापरं वृत्तद्वयं विधायतद्वृत्तरेखादक्षिणोत्तरसन्धिद्वयप्रापि प्राक्पश्चिमसूत्रमध्य -गत्या तिर्यग्रूपेण यत् सूत्रं दक्षिणोत्तरं परिकल्प्य तत्प्राक्प्रत्यक्दक्षिणोत्तरसूत्रद्वयसम्पाताद्वृत्तवक्ष्यमाणमानेन तुल्य-रूपपरिकल्पितसूत्राग्रैस्तैस्तेषां मण्डपादीनां प्राक्प्रत्यग्द-क्षिणोत्तरात्मकदिक्चतुष्टयं परिकल्पयेत् ॥१६॥सर्वप्रयत्नेन विद्याऽऽराधितद्वारा पूर्णताख्यातिसमा-वेशनेच्छा चेत्येते समयाचारिकाः । परे च शास्त्रानुशिष्टाः ॥१७॥इत्थं विदित्वा विधिवदनुष्ठितवतः कुलनिष्ठस्यसर्वतः कृतकृत्यता शरीरत्यागे श्वपचग्रहकाश्योर्नान्तरंजीवन्मुक्तो भवति ॥१८॥य इमामष्टादशखण्डीं महोपनिषदं महात्रैपुर-सिद्धान्तसर्वस्वभूतामधीते स सर्वेषु यज्ञेषु यष्टा भवति ।यं यं क्रतुमधीते तेन तेनास्येष्टं भवति इति हि श्रूयतेइत्युपनिषत् - इति शिवम् ॥१९॥य एवं वेदेत्युपनिषत् ॥२०॥भद्रं नो अपि वादय मनः ॐ शान्तिः शान्तिः शान्तिः ॥२१॥इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तकश्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य- ॥महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रेवासना नामाष्टादशः खण्डः समाप्तः ॥ १८॥इति श्रीपरशुरामकल्पसूत्रपरिशिष्टं द्वितीयभागः सम्पूर्णम् ॥ इति श्रीदुष्टक्षत्रियकुलकालान्तकरेणुकागर्भसम्भूतमहादेवप्रधानशिष्यजामदग्न्यश्रीपरशुरामभार्गव-महोपाध्यायमहाकुलाचार्यनिर्मितं कल्पसूत्रं सम्पूर्णम् ॥ N/A References : N/A Last Updated : February 05, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP