एकादशः खण्डः यन्त्रविधानम्

परशुराम कल्पसूत्र एक शाक्त आगम आहे, जो श्री विद्या प्रथावांवर एक हिंदू ग्रंथ आहे


अथातो वार्तालीसिद्धियन्त्रं व्याख्यास्यामः ॥१॥
भुवनेश्वरीबीजमध्ये वृत्तद्वयं विधाय तन्मध्ये व्यतिभिन्नं
चतुरश्रद्वयं विधाय तदन्तर्वृत्तं कृत्वा
तदन्तर्वृत्तसप्तकयुक्तानि सप्तषट्कोणानि
यथासम्प्रदायं विदध्यात् ॥२॥
तत्र अष्टसु कोणेषु अष्टस्वन्तराळेषु च
दशोत्तरशताक्षरीविद्यायाः षोडशवर्णान्
अकारादिककारान्तषोडशस्वररहितषोडशवर्णसहितान् संलिख्य
पूर्वषट्कोणषट्सु कोणेषु षट्सु अन्तरालेषु च खकारादिडकारान्तान्
तद्द्वादशवर्णान् संलिख्य पुनरग्निकोणस्थषट्कोणे ढकारादिमकारान्तान्
द्वादशवर्णसहितान् द्वादशवर्णान् राक्षसकोणस्थषट्कोणे
यकाराद्याकारान्तद्वादशवर्णयुक्तान् द्वादशवर्णान् पश्चिमकोणे
इकाराद्यौकारान्तसहितान् वसुकोणे अङ्कारादिटकारान्तसहितान् दश (ईश)कोणे
ठकारादिबकारान्तयुतान् मध्यषट्कोणे भकारादिक्षकारान्तसंयुक्तान्
विलिख्य लक्षताद्यद्वयवृत्तान्तरालवीथ्यां शिष्टान् दशवर्णान्
ओगजडदबलकृसंयुक्तान् विलिखेत् ॥३॥
अथ नवग्रहयन्त्रं व्याख्यास्यामः । नवकोष्ठान् विधाय, नवसु
कोणेषु वृत्तत्रयं विधाय, नवकर्णिकासु नवकोष्ठान् विलिख्य,
नवसु कोष्ठेषु मध्यकोष्ठेषु मध्यकोष्ठ- वृत्तत्रयं
कर्णिकास्थ नवकोष्ठं, मध्यकोष्ठे मकारसहितं प्रणवं
विलिख्य, शिष्टेष्वष्टसु कोष्ठेषु अकाराद्यॄकारान्तानष्टस्वरान्
विलिख्य, अन्तर्वृत्तान्तराले मकारसहितान् षोडशस्वरान् लिखित्वा
बहिर्वृत्तान्तराले अकारादक्षकारान्तान् मातृकार्णान् विलिखेत् ॥४॥
एवं भास्करमण्डलं मध्ये कृत्वा पूर्वकोष्ठवृत्तत्रय-
कर्णिकास्थितनवसु कोष्ठेषु मध्यकोष्ठे ऌकारगर्भं प्रणवं
विलिख्य, पूर्वाद्यष्टुसु कोष्टेषु ऌकारादिविसर्गान्तानष्टस्वरांश्च
विलिख्य, अन्तर्वृत्तान्तराले ॡकारसहितान् षोडश-
स्वरान्, संलिख्य बाह्यवृत्तान्तराले अकारादिक्षका-
रान्तान् लिखेत् ॥५॥
एवं चन्द्रमण्डलं विधाय, अग्निस्थितवृत्तत्रयकर्णिका-
नवकोष्ठमध्यकोष्ठे प्रणवगर्भककारं विलिख्य, ईशानकोष्ठा-
दिराक्षसकोष्ठान्तं कवर्गं विलिख्य, पश्चिमकोष्ठादिसोम-
कोष्ठान्तकोष्ठत्रये भौमायेति वर्णत्रयं विलिख्य, अन्तर्वृत्ता-
न्तराले ककारसहितान् षोडशस्वरान् संलिख्य, बाह्यवृत्ता-
न्तरालवीथ्यां मातृकां लिखेत् । एवं भौममण्डलं विधाय
बुधमण्डलं लिखेत् ॥६॥
दक्षिणकोष्ठस्थवृत्तत्रयकर्णिकास्थितनवकोष्ठेषु मध्य-
कोष्ठे च कागर्भं प्रणवं विलिख्य, ईशानादिपञ्चकोष्ठेषु चवर्गं
विलिख्य, कोष्टत्रये बुधायेति वर्णत्रयं च विलिख्य पूर्ववत्
षोडशस्वरसहितं चकारं विलिख्य, मातृकार्णं च विलिख्य,
नैरॄतिकोष्ठस्थवृत्तत्रयकर्णिकास्थितनवकोष्ठके मध्यकोष्ठे
पकारगर्भं प्रणवं विलिख्य, शिवादिकोष्ठपञ्चके पवर्गं
विलिख्य, शिष्टकोष्ठत्रये सौरये इति शनिनामवर्णान्
आलिख्य, अन्तरालद्वये पकारं मातृकां च विलिख्य,
पश्चिमकोष्ठस्थवृत्तत्रयकर्णिकामध्ये कोष्ठनवकं विधाय,
तन्मध्यकोष्ठे टकारगर्भं प्रणवं विलिख्य, ईशानादिकोष्ठ-
पञ्चके टवर्णान् विलिख्य, कोष्ठत्रये गुरव इति विलिख्य,
पूर्ववदन्तरालद्वये टवर्गं मातृकां च विलिखेत् ॥७॥
एवं गुरुमण्डलं विधाय वायुकोष्ठे मध्ये यकारगर्भं प्रणवं
विलिख्य, ईशानादिकोष्ठपञ्चके यवर्गं विलख्य, राहव इति
लिखित्वा, सोमकोष्ठमध्ये कोष्ठे तकारगर्भं प्रणवं लिखित्वा,
ईशादिकोष्ठेषु तवर्गं शुक्रायेति विलिख्य, ईशानकोष्ठे मध्ये
शकारं विलिख्य, ईशाद्यष्टसु कोष्ठेषु षवर्गं केतव - इति च
विलिख्य, अन्तरालद्वये षोडशस्वरसहितं शकारं मातृकां च
विलिखेत् इति नवग्रहचक्रं विधाय, नवग्रहपूजां कुर्यात् - इति शिवम् ॥८॥
इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक-
श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य-
महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रे
यन्त्रविधान नामैकादशः खण्डः समाप्तः ॥ ११॥

N/A

References : N/A
Last Updated : February 05, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP