सप्तदशः खण्डः अङ्गविद्या
परशुराम कल्पसूत्र एक शाक्त आगम आहे, जो श्री विद्या प्रथावांवर एक हिंदू ग्रंथ आहे
अथातः सर्वमङ्गविद्यायाः स्वरूपबाहुल्योपदेशं तद्वि-
नियोगप्रस्तावं च करोति ॥१॥
तत्र वाताद्यैः ग्रासमयान्तैः अकाराद्यैः क्षकारान्तैः
मातृकाविसराक्षरैः प्रोक्तसङ्ख्यैरित्यर्थः ॥२॥
शतैः पञ्चभिः अकारादीनां षोडशस्वराणां ककारादीनां
च पञ्चत्रिंशतां क्षकारान्तानां प्रत्येकं षोडशस्वरयो-
जनतः षोडशानां षोडशानामप्येवं षट्सप्तत्यधिकपञ्चशत-
सङ्ख्यानां मातृकाविसराक्षराणां मूलविद्यायाः आदौ क्रमशः
प्रत्येकं योजनतः षट्सप्तत्यधिकपञ्चशतसङ्ख्याविद्यारूपाणि
सन्तीति तस्यानवस्थाने मूलविद्यायाश्चतुर्दशस्वरस्थाने
स्वरान् षोडश योजयेत् ॥३॥
पूर्वोक्तैर्विद्यादियोजितैः षट्सप्तत्यधिकपञ्चशतैरक्षरैः
तत्सङ्ख्यारूपभेदाय अन्त्ये प्रत्येकं क्रमात् षोडशस्वरयो-
जनतः षोडशाधिकद्विशतोत्तरनवसहस्रसङ्ख्याविद्यारूपाणि
भवन्तीति तैः सम्प्रोक्तसङ्ख्यैः विद्यारूपैः प्रयोजयेद्यन्त्रैरिति
आदौ वृत्तत्रयं तद्वहिः षट्कोणं तद्बहिरष्टदलं विधाय
तद्बहिर्वृत्तत्रयं विदध्यात् ॥४॥
तेषु विद्याकूटानुक्तक्रमेण न्यसेत् ॥५॥
तेष्वाद्यं मध्यतः साध्यसमेतं विलिखेत् ॥६॥
षट्कोणेषु चत्वारि चत्वारि विलिखेत् ॥७॥
अष्टच्छदेषु प्रत्येकं पञ्चपञ्च समालिखेत् ॥८॥
बहिर्वृत्तान्तरयुगे मातृकां मायया चितां विलोमामनुलोमां स्वेन
सम्यक् समालिखेत् ॥९॥
अन्तःषडन्तरालेषु पर्यायदिनसम्भवे नित्ये लिखेत् ॥१०॥
प्रादक्षिण्येन सर्वत एवं यन्त्राणि जायन्ते ॥११॥
तैः कूटैरुक्तयोगतः शतं च चत्वारिंशच्च चत्वारि च
ततः क्रमादिति वृतं, एवमन्यानि कूटानि प्रोक्तानि क्रमेण
विलिखेत् ॥१२॥
मध्ये नामसमेतानि तदन्यान्यभितो लिखेत् ॥१३॥
त्रयोदशमितैर्लक्ष्यैः सप्तविंशतिसङ्ख्याकैः सहस्रैश्च
शतेनापि चतुर्भिः तानि सङ्ख्यया यन्त्राणि जायन्ते ॥१४॥
तैश्च सा सर्वमङ्गला एवं कामेश्वर्यादिषोडशनित्यानां
पृथक् पृथक् यन्त्राणि स्युः ॥१५॥
तस्मादाभिरसाध्यानि न कदाचिच्च कुत्रचित् विद्यते
तेषु यत्किञ्चित् वक्ष्ये कोशेषु तोन्यै वदेन्नाथात्मकानि येन
स्युस्तेन च मैर्भित्त्वा षोडशधा मन्त्री विदध्यात् ॥१६॥
विनियोजकं विशालमध्यविन्यासं विदध्यात् ॥१७॥
नवकोष्ठकं प्रागादिमध्यपर्यन्तं प्रादक्षिण्यक्रमाल्लिखेत् ॥१८॥
नवानि नवसु प्राज्ञस्तेषु ऋक्षाणि चालिखेत् ।
सप्तम्या साध्यसंयुक्तं नाथां देवीश्च तत्क्रमात् ॥१९॥
यद्यद्वि (द्धि) वाञ्छितं कर्म तत्तत्तेषु विलिख्य वै ।
पीठे वा भूतले वाऽपि पूजयेत् प्रोक्तवासरम् ॥२०॥
ततः प्राप्ते वाञ्छितार्थे स्वात्मन्युद्वास्य देवताः ।
चक्रं प्रक्षाल्य तत्तोयं केदारादिषु निक्षिपेत् ॥२१॥
एवमन्यानि यन्त्राणि प्रोक्तानि क्रमशो भुवि ।
विनियोज्यान्यभीष्टेषु कार्येषूक्तक्रमेण वै ॥२२॥
परसङ्ख्यासमेतानि तेषु तेष्वप्ययं विधिः ।
सर्वतः सौम्यकर्माणि सिद्ध्यन्ते वाऽनया द्रुतम् ॥२३॥
वश्येषु ज्ञानसम्पत्त्यै सर्वप्रत्यूहशान्तये ।
लक्ष्मीप्राप्तौ तथारोग्यसिद्धौ रोगार्तिशान्तिषु ॥२४॥
विजयाय समस्तापत्तरणायाभिवृद्धये ।
पुत्रावाप्त्यै च रक्षायै पूजयेत् तेषु तत्क्रमात् ॥२५॥
गजाश्वगोखरोष्ट्राजमहिषीणां विवृद्धये ।
तेषां रोगादिपीडासु तच्छान्त्यै च यथाक्रमम् ॥२६॥
निर्माय नवयन्त्राणि तत्र तत्रार्चयेच्छिवाम् ।
तेषु तेषूक्तकार्येषु तत्तत्सम्प्राप्तिहेतवे ॥२७॥
नवप्रकारयुक्तानि षोडशप्रथमादिषु ।
तिथिषु प्रोक्तरूपाणि तत्र तां सर्वमङ्गलाम् ॥२८॥
पूजयेत् काङ्क्षितावाप्त्यै तेन सर्वसिद्धिर्भवेदिति शिवम् ॥२९॥
इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक-
श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य-
महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रे
अङ्गविद्या नाम सप्तदशः खण्डः समाप्तः ॥ १७॥
N/A
References : N/A
Last Updated : February 05, 2026

TOP