त्रयोदशः खण्डः प्रस्तारक्रमः

परशुराम कल्पसूत्र एक शाक्त आगम आहे, जो श्री विद्या प्रथावांवर एक हिंदू ग्रंथ आहे


अथातः प्रस्तारक्रमं व्याख्यास्यामः ॥१॥
अथातः स्वेच्छया कतिचित् धुवाक्षराणि केनचित् प्रकारेण
विलिख्य, तेष्वन्त्यशिरसि बिन्दुं विलिख्य, उपान्त्यवर्णमारभ्य
प्रथमवर्णपर्यन्तं व्युत्क्रमेण एकैकस्य वर्णस्य शिरस्येकैकमङ्कं
एकद्वित्रिचतुःपञ्चषडादिरूपमेकोत्तराभिवृद्धिं विलिख्य, तत
एकेन द्वयं द्वाभ्यां त्रयं त्रिभिश्चतुष्टयमित्येवं क्रमेण
तानङ्कान् गुणयेत् ॥२॥
तेन हसकलह्रींरूपेषु ध्रुवेषु मायाबीजस्य शिरसि
शून्यं लकारस्य शिरस्येकं ककारस्य द्वौ सकारस्य षट्
हकारस्य चतुर्विंशतिः - इति सिध्यति ॥३॥
ईदृशस्य बिन्द्वाद्यं कवर्गस्य खण्डाङ्क - इति संज्ञा,
नष्टोद्दिष्टादिषु व्यवहारार्थं कृता ॥४॥
तत औत्तराधर्येण चतुर्विंशतिवारं विलिख्य तदधस्तथैव
सकारांस्तदधः ककारांस्तदधः लकारांस्तदधः मायां विलिखेत् ॥५॥
ततः अनयैव रीत्या सादिचतुष्टयं षट्षड्वारं लिखेत् ॥६॥
कादित्रयं द्विद्विवारं लिखेत् ॥७॥
लकारमायां च एकैकवारं लिखेत् ॥८॥
एवं सति द्वितीयपङ्कौ एकमक्षरं न्यूनं सम्पद्यते ॥९॥
तं लकारं पञ्चमस्थाने लिखेत् ॥१०॥
प्रथमपङ्किस्तु पूर्वमेव पूर्णास्तीति न तत्र लेखनप्रसक्तिः ॥११॥
तृतीयादिषु पङ्क्तिषु द्वौ द्वौ वर्णौ न्यूनौ भवतः,
तावेकस्यां पङ्क्तौ क्रमाद्विलिख्य तदधस्तनपङ्कौ व्युत्क्रमात्
तावेव लिखेत् ॥१२॥
पुनस्तनपङ्क्तिद्वये विशिष्टौ ध्रुवौ तौ क्रमान् क्रमाभ्यां
लिखेत् ॥१३॥
एवमान्तकरणेनैकः प्रस्तारखण्डो भवति ॥१४॥
यावन्तो ध्रुवास्तावन्त एव तत्प्रस्तारस्य खण्डाः
समसङ्ख्यावृत्तका भवन्ति ॥१५॥
तेष्वाद्ये खण्डे वृत्ताद्यो ध्रुवाद्य एव, द्वितीये खण्डे
ध्रुवद्वितीय एव वृत्ताद्यः, तृतीये खण्डे धुवतृतीय एवेत्यपि
नियमोऽस्ति ॥१६॥
ततश्च द्वितीयखण्डप्रथमवृत्ते पूर्व एव कॢप्तद्वितीयस्य
सकारात् परतः संस्थापयेत् ॥१७॥
एवं तृतीयखण्डादिमवृत्ते कहसलह्रीमिति क्रमः ॥१८॥
चतुर्थखण्डादौ लहसकह्रीं पञ्चमखण्डादौ ह्रीं
हसकल इति क्रमः ॥१९॥
प्रथमखण्डान्ततृतीयवृत्तेऽपि यौ द्वौ शिष्येते तौ
द्वावपि कह्रीमिति लेख्यौ प्रथमवृत्ते तयोः पौर्वापर्यस्य कॣप्तस्य
त्यागे मानाभावात् ॥२०॥
एतेन नवमादिवृत्तेष्वपि सकारह्रीङ्कारयोः क्रमेण
लेख इत्यादि सिध्यति ॥२१॥
तत्तत्खण्डद्वितीयादिवृत्तानि प्रथमखण्डवदेव लेखनीयानि ॥२२॥
यावत्प्रथमखण्डाद्यवृत्ताक्षराणि व्युत्क्रमेण पतन्ति तावत्पर्यन्तोऽयं
प्रस्तारः प्रथमवृत्तप्रथमाक्षरशिरोङ्को ध्रुवार्णसङ्ख्यया
गुणितश्चेत् प्रस्तारवृत्तसङ्खयापि निष्पद्यते ॥२३॥
तेन पञ्चध्रुवके चतुर्विंशतिः चतुर्ध्रुवके षट् द्वितीयध्रुवके
द्वौ एकध्रुवके एकं - इति शिवम् ॥२४॥
इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक-
श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य-
महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रे
प्रस्तारक्रम नाम त्रयोदशः खण्डः समाप्तः ॥ १३॥

N/A

References : N/A
Last Updated : February 05, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP