षोडशः खण्डः योनिलिङ्गयन्त्ररचनाविधानम्

परशुराम कल्पसूत्र एक शाक्त आगम आहे, जो श्री विद्या प्रथावांवर एक हिंदू ग्रंथ आहे


अथातो योनियन्त्रं व्याख्यास्यामः ॥१॥
स्वेष्टमानेन त्रिकोणं विलिख्य, तिसृषु रेखासु
दशदश चिह्नानि समांशाङ्कानि कृत्वा, तेषु दशदशसूत्राणि
पातयेत् इत्येकविंशत्यधिकशतसङ्ख्याकाः प्रस्तोत्पन्नभेदा
भवन्ति ते तत्र लेख्याः सर्वमध्यत्रिकोणे कर्म लेख्यम् ॥२॥
इत्थं योनिचक्रं विधाय, लिङ्गचक्रं व्याकुर्मः ॥३॥
पूर्वे एकं चतुष्कोष्ठात्मकं कोष्ठं विलिख्य, तदधः
कोष्ठत्रयं तदधः पञ्च तदधः पार्श्वयोः षट् षड्विहाय
यथासम्प्रदायं चत्वारिंशत्कोष्ठात्मकं लिङ्गं विलिख्य, तत्संलग्नं
चतुरश्रद्रयं वह्नयादिकोणचतुष्टयं कोष्ठचतुष्टयविशिष्टं
विलिख्य, तत्र सम्प्रदायेन वाग्भवे बीजभेदान् विंशत्यधिक-
शतसङ्ख्याकान् प्रस्तारसञ्जनितान् विलिख्य, विशिष्टेषु
तृतीयबीजस्य प्रस्तारसञ्जनितचतुर्विंशतिभेदान् विलिखेत् ॥
अथ चतुरश्रद्वयान्तराले षड्रेखाया(पा)तनेन सप्तकोष्ठान्
संविधाय, तत्र दिननित्यायुगनित्याक्षराणि षट् संविलिख्य,
शिष्टे कोष्ठे चोदयाक्षरं विलिख्य तत्रावाह्य पूजयेत् - इति
शिवम् ॥५॥
इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक-
श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य-
महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रे
योनिलिङ्गयन्त्ररचनाविधान नाम षोडशः खण्डः समाप्तः ॥ १६॥

N/A

References : N/A
Last Updated : February 05, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP