संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|परशुराम कल्पसूत्र|परशुरामकल्पसूत्र द्वितीय भाग| चतुर्दशः खण्डः नष्टोद्दिष्टकथनम् परशुरामकल्पसूत्र द्वितीय भाग द्वितीयोभागस्य खण्डाः अनुक्रमणिका एकादशः खण्डः यन्त्रविधानम् द्वादशः खण्डः मन्त्रविधानम् त्रयोदशः खण्डः प्रस्तारक्रमः चतुर्दशः खण्डः नष्टोद्दिष्टकथनम् पञ्चदशः खण्डः कृतनष्टनिरूपणम् षोडशः खण्डः योनिलिङ्गयन्त्ररचनाविधानम् सप्तदशः खण्डः अङ्गविद्या अष्टादशः खण्डः वासनाध्यायः चतुर्दशः खण्डः नष्टोद्दिष्टकथनम् परशुराम कल्पसूत्र एक शाक्त आगम आहे, जो श्री विद्या प्रथावांवर एक हिंदू ग्रंथ आहे Tags : kalpaparashuramsotraकल्पसूत्रपरशुराम चतुर्दशः खण्डः नष्टोद्दिष्टकथनम् Translation - भाषांतर अथातो नष्टोद्दिष्टं व्याख्यास्यामः ॥१॥हसकलह्रीं इत्येषां पञ्चानामक्षराणां धुवप्रस्तारेविंशत्यधिकशतं वृत्तानि तेषु चतुरशीतितमवृत्तजिज्ञासायांचतुरशीतिसङ्खयैव नष्टोऽङ्कः ॥२॥खण्डाङ्कास्तु चतुर्विंशतिः षट् (द्वे) एकं शून्यं चेतिपूर्वमेवोक्त्या तेनैकैकेन नष्टाङ्कं विभजेत् ॥३॥तथा चतुर्विंशत्या चतुरशीतेर्हरणे त्रयो लब्धाःद्वादशशिष्टास्ततः षड्भिः द्वादशानां हरणे यद्यपि निश्शेषताभवति तथाऽऽपि विभाजकानां सशेषत्वादत्राप्येकं षट्कमवशेष्यं तेनैकलब्धं षट् षष्ठा ततो द्वाभ्यां षण्णां हरणे सावशेष विभजनेन द्वौ लब्धौ द्वौ शिष्टौ तत एकेन सशेषहरणे एकंलब्धं एकं शिष्टम् । तस्य शून्येन विभजनेन शून्यं लब्धंशून्यं शिष्टं तेन त्र्येकद्वयेकशून्यानि लब्धाङ्काः - एते प्रत्येकंसैका कार्याः । तेन चतुर्द्वित्रिद्वयेकाङ्का भवन्ति ॥४॥ततश्च पूर्वकॢप्तक्रमेषु हसकलह्रीं इत्याकारकेषुध्रुववर्णेषु चतुर्द्विद्वयेकसङ्ख्यावर्णास्तान् सङ्खयायै निष्कास्यपृथक् लिखेत् ॥५॥यथा वाग्बीजात्मकबीजचतुर्थे लकारः ॥६॥सजिज्ञासितवृत्ते प्रथमो वाग्बीजात्मके द्वितीयःसकार एव तत्र द्वितीयः ॥७॥अथानयोः लकारसकारयोः पूर्वलिखितत्वात् परित्यागेगणने वाग्बीजपञ्चम एव तृतीयो भवति ॥८॥माययैव जिज्ञासितवृत्ते तृतीया कथकवर्गात्द्वितीयोपात्तसकारपरित्यागेन गणनया ककार एव पूर्वोभवतीति स तत्र चतुर्थः ॥९॥वाग्बीजस्य प्रथमो हकारः स तत्र पञ्चमो भवतीतिलसह्रीङ्कह इत्याकारकं चतुरशीतितमं वृत्तं निष्पद्यते - इतिशिवम् ॥१०॥इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक-श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य-महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रेनष्टोद्दिष्टकथन नाम चतुर्दशः खण्डः समाप्तः ॥ १४॥ N/A References : N/A Last Updated : February 05, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP