मानमाला
अच्युतकृष्णानन्दतीर्थ द्वारा रचित 'मानमाला' एक वेदांत ग्रंथ आहे, जो मुख्यत्वे अद्वैत वेदांताच्या में ज्ञानमीमांसाची व्याख्या करता आहे.
अच्युतकृष्णानन्दतीर्थकृता मानमाला
ओतप्रोतमिदं सर्वं यस्मिन् सच्चित्सुखात्मके ।
पर्यवस्यन्ति वेदान्ता यत्र चाहं तदक्षरम् ॥१॥
शङ्करं शङ्कराचार्यं केशवं बादरायणम् ।
सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः ॥२॥
श्रीमत्स्वयम्प्रकाशेन्द्रान् प्रणिपत्य जगद्गुरून् ।
बालानां सुखबोधाय मानमाला विरच्यते ॥३॥
प्रमाता च प्रमेयं च प्रमा चैव प्रमाणकम् ।
पदार्थास्त्विह सर्वज्ञैश्चत्वार इति कीर्तिताः ॥४॥
प्रमाताहं प्रमेयं च पञ्च शब्दादिकं किल ।
शब्दस्पर्शरूपरसगन्धाः शब्दादयः स्मृताः ॥५॥
तत्तद्विषयकज्ञानं द्विविधं परिकीर्तितम् ।
संस्कारमात्रजन्यं यज्ज्ञानं स्मरणमुच्यते ॥६॥
अनुभूतिस्तु तद्भिन्नज्ञानं सा च द्विधा स्थिता ।
यथार्था चायथार्थेति तत्राद्या तु प्रमा किल ॥७॥
अबाधितार्थकज्ञानं यथार्थानुभवो मतः ।
प्रमायाः करणं यत्तत्प्रमाणमिति गीयते ॥८॥
प्रत्यक्षमनुमानं चोपमानं शब्द इत्यपि ।
चत्वार्येव प्रमाणानीत्याहुः केचन तार्किकाः ॥९॥
अर्थापत्तिं तथा मानं वदन्त्यनुपलब्धिकम् ।
प्रत्येकं लक्षणान्याहुः सङ्ग्रहेणेह कथ्यते ॥१०॥
साक्षात्करोम्यहं शब्दं श्रोत्रेणेति विभाव्यते ।
प्रत्यक्षप्रमितिः सा तु श्रोत्रं तत्करणं मतम् ॥११॥
तथैवानुमिनोमीति ज्ञानं यदनुभूयते ।
वह्न्यादिकं सानुमितिस्तस्याः करणमुच्यते ॥१२॥
व्याप्यवानयमित्येवं परामर्शो हि जायते ।
गृहीतव्याप्तिकस्यातोऽनुमितिः किल जायते ॥१३॥
तस्माल्लिङ्गपरामर्शो ह्यनुमानमिति स्थितम् ।
अविनाभावसम्बन्धो व्याप्तिरित्यवधार्यते ॥१४॥
धूमे वह्न्यविनाभावसम्बन्धो ह्यवधार्यते ।
व्यभिचाराभावदृष्टेः सहचारस्य दर्शनात् ॥१५॥
अन्वयव्यतिरेकाभ्यां सहचारो द्विधा मतः ।
यत्र धूमस्तत्र वह्निरस्ति यद्वन्महानसे ॥१६॥
वह्निर्न विद्यते यत्र धूमस्तत्र न विद्यते ।
यथा ह्रदे पर्वतादौ न तथा धूमदर्शनात् ॥१७॥
व्यतिरेकमुखेनापि साध्यते हि शिखी बुधैः ।
अन्वयव्यतिरेकाख्यमनुमानमुदाहृतम् ॥१८॥
पर्वतो वह्निमान् धूमाद्यथा दृष्टो महानसः ।
तथायं पर्वतस्तस्माद्वह्निमानेव गम्यते ॥१९॥
अन्वयव्याप्तिमल्लिङ्गं व्यतिरेकि च केवलम् ।
यथादृष्टं तथा तेन लिङ्गेनानुमितिर्भवेत् ॥२०॥
हेतोस्तु लक्षणं व्याप्तिर्यस्तद्वानवभासते ।
हेतुः सन् व्याप्तिरहितो हेत्वाभास उदाहृतः ॥२१॥
अनुमानमिदं प्रोक्तमुपमानमथोच्यते ।
सादृश्यदर्शनाज्जातं ज्ञानं सोपमितिर्भवेत् ॥२२॥
उपमानं तु सादृश्यज्ञानं तत्करणं मतम् ।
गोसादृश्यधिया यद्वद्गवयादिविनिश्चयः ॥२३॥
आकाङ्क्षायोग्यतासत्तिमत्पदानां कदम्बकम् ।
वाक्यं शब्दप्रमाणं स्याच्छक्तं पदमितीर्यते ॥२४॥
शक्तिः सङ्केत इत्येके पदार्थान्तरमित्यपि ।
गृहीतशक्तेस्तात्पर्यग्रहाद्वाक्यार्थधीर्भवेत् ॥२५॥
संसर्गो वा विशिष्टो वा वाक्यार्थः समुदाहृतः ।
गामानयेत्यादि वाक्यं सम्बन्धार्थस्य बोधकम् ॥२६॥
नीलमुत्पलमित्यादि विशिष्टार्थस्य बोधकम् ।
इत्यादि लौकिकं वाक्यमाप्तोक्तं मानमिष्यते ॥२७॥
ज्योतिष्टोमेन यागेन स्वर्गकामो यजेत हि ।
इत्यादि वैदिकं वाक्यं विदुषां स्वार्थबोधकम् ॥२८॥
यागस्तु करणं तत्र फलं स्वर्गः प्रतीयते ।
साध्यसाधनसम्बन्धो वाक्यार्थस्तु प्रतीयते ॥२९॥
प्रवर्तकत्वं वाक्यस्य प्राहुर्मीमांसकाः किल ।
बोधकत्वं प्रमाणत्वात्केवलं वादिनः परे ॥३०॥
ईष्टसाधनताज्ञानात्कृतिसाध्यतया पुमान् ।
प्रवर्तते स्वयं तस्माद्वाक्यं नैव प्रवर्तकम् ॥३१॥
सप्तद्वीपवती पृथ्वी पुत्रस्ते जात इत्यपि ।
वाक्याद्वाक्यार्थबोधस्तु जायते हि विना कृतिम् ॥३२॥
प्रवर्तकत्वं वाक्यस्य नेति तस्माद्विनिश्चितम् ।
शक्त्या लक्षणया वापि वाक्यं स्वार्थं प्रबोधयेत् ॥३३॥
अन्वयानुपपत्तौ तु मुख्यार्थस्य परिग्रहे ।
मुख्यार्थसम्बन्धिन्यर्थे प्रतीतिर्लक्षणा मता ॥३४॥
तात्पर्यानुपपत्तिर्वा लक्षणाबीजमुच्यते ।
विषं भुङ्क्ष्वेत्यादि वाक्यं तन्निवृत्तिं हि बोधयेत् ॥३५॥
लक्षणा च त्रिधा प्रोक्ता जहत्यजहती तथा ।
वाच्यैकभागत्यागेन भागान्तरपरिग्रहः ॥३६॥
परीक्षकाः प्राहुरित्थं भागत्यागाख्यलक्षणाम् ।
गङ्गायां घोष इत्यत्र या जहल्लक्षणा तु सा ॥३७॥
श्वेतो धावति यान्त्येते छत्रिणोऽच्छत्रिणस्तथा ।
अजहल्लक्षणा तत्र वाच्यार्थस्यापि सङ्ग्रहात् ॥३८॥
विरुद्धांशपरित्यागादविरुद्धांशसङ्ग्रहात् ।
सोऽहमित्यादिवाक्येषु सा भागत्यागलक्षणा ॥३९॥
व्यञ्जना लक्षणेत्याहुर्लक्षणा गौण्यपि क्वचित् ।
अग्निर्माणवकोऽधीते सिंहोऽयं क्षत्रियस्त्विति ॥४०॥
गच्छ कान्त गमिष्यामि यत्र जन्म भविष्यति ।
लोके तवाहमित्यत्र निवृत्तिर्व्यज्यते गतेः ॥४१॥
दृष्टं श्रुतं वा पीनत्वं न सम्भवति भोजनात् ।
ऋते रात्रौ विशेषेण भोजनं परिकल्प्यते ॥४२॥
रात्रिभोजनविज्ञानमर्थापत्तिफलं भवेत् ।
अन्यथानुपपत्तेस्तु ज्ञानं तत्करणं मतम् ॥४३॥
उपलब्धेरभावोऽपि प्रमाणान्तरमिष्यते ।
अभावग्रहणायेति साधयन्तीह केचन ॥४४॥
एवं सर्वप्रमाणानां विषयास्तु पृथक्पृथक् ।
व्यवहारबलात्कल्प्यास्तस्मात्ते व्यावहारिकाः ॥४५॥
॥इति श्रीमत्स्वयम्प्रकाशसरस्वतीचरणारविन्द-
संलग्नरजोभूताच्युतकृष्णानन्दतीर्थकृता मानमाला समाप्ता ॥
N/A
References : N/A
Last Updated : January 26, 2026

TOP