संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं| मानमाला पुस्तकं अमरकोषः अनेकार्थसङ्ग्रहः ब्रह्मसूत्रम् अनुभाष्यम् आर्या-सप्तशती आत्मविद्याविलासः बार्हस्पत्यानि नीतिसूत्राणि श्रीभक्तिचन्द्रिका भट्टिकाव्यं भिक्षाटनकाव्यम् ब्रह्मसूत्राणि बृहदारण्यकोपनिषद्भाष्यार्थ बृहद्देवता चाणक्यनीतिदर्पणाः चन्द्रालोकः चमत्कारचन्द्रिका चौरपंचाशिका श्रीशिवराजाभिषेकप्रयोग: । दण्डनीतिः दर्पदलनम् दर्पदलनम् पूर्वपीठिका उत्तरपीठिका दशरूपकम् धर्मसिंधु धर्मपदम् ध्वन्यालोकः विद्यागणपतिवाञ्छाकल्पलता गौतमीयधर्मशास्त्रेः गीतगोविन्दम् श्रीमद्भगवद्गीतामाहात्म्यम् गोंदवलेकर महाराज प्रवचन हरिपाठ: जानकीहरणम् काव्य सारावली श्रीकृष्णकर्णामृतम् काव्यमीमांसा कृष्णभक्तिरत्नप्रकाशः क्रिया-कैरव-चन्द्रिका बृहत्कथामञ्जरी कुमारसम्भवम् श्रीमच्छङ्करदिग्विजय: मालतीमाधवम् मनोबोधः मनुस्मृतिः मयमतम् संस्कृतकाव्यानि मेघदूत नैष्कर्म्यसिद्धिः नलोपाख्यानम् श्रीनारदपञ्चरात्रम् श्रीनारायणीयम् नीतिप्रकाशिका चाणक्यनीतिदर्पणः चाणक्य-सूत्राणि नीतिशतकम् नृसिंहाख्यान श्रीपादुकासहस्रम् सार्थपंचदश्याम् पंचरत्नगीता परशुराम कल्पसूत्र पस्पषाह्निक पतज्जलिचरितम् । प्रबोधसुधाकरः रघुवंश रत्नावली पाञ्चरात्रागमः ऋतुसंहारः साङ्ख्यकारिका सारस्वत चम्पू सौंदर्यलहरी सौत्रामणी शङ्करदिग्विजयम् व्यासशिक्षा शिवानन्दलहरी शिवभारत शिवधनुर्वेदः शिवसंहिता श्लोकवार्तिकभिधः शृंगारशतकम शुक्रनीतिः सिद्धसिद्धान्तपद्धतिः श्रीसूक्तविधानम् श्रीरङ्गनाथपादुकासहस्रम् स्तुतिकुसुमाञ्जलिः सुभाषितरत्नकोशः सुप्रभेदागमः तर्कसंग्रह तत्त्वचिन्तामणी तत्वमुक्ताकलापे उज्ज्वलनीलमणिः वैराग्यशतकम् वैशेषिकदर्शनम् वेदान्त परिभाषा वेदान्तशास्त्रमकरन्दः सर्ववेदान्तसिद्धान्तसारसंग्रहः वेणीसंहारः श्रीकृष्णविलासम् विवेकचूडामणीः वृत्तरत्नाकर याज्ञवल्क्यस्मृतिः योगवासिष्ठम् भल्लटशतकम् काव्यप्रकाश सांख्यकारिका श्रीपादसप्ततिः ब्रह्मविदाशीर्वादः कोकिलसन्देशः परमार्थसारम् परमार्थसारः कुट्टनीमतम् मुकुन्द मुक्तावली मुकुन्दमाला श्रीविचारदीपकः मानमाला अनुत्तराष्टिका रामचापस्तवः मानमाला अच्युतकृष्णानन्दतीर्थ द्वारा रचित 'मानमाला' एक वेदांत ग्रंथ आहे, जो मुख्यत्वे अद्वैत वेदांताच्या में ज्ञानमीमांसाची व्याख्या करता आहे. Tags : manmalaमानमाला मानमाला Translation - भाषांतर अच्युतकृष्णानन्दतीर्थकृता मानमाला ओतप्रोतमिदं सर्वं यस्मिन् सच्चित्सुखात्मके ।पर्यवस्यन्ति वेदान्ता यत्र चाहं तदक्षरम् ॥१॥शङ्करं शङ्कराचार्यं केशवं बादरायणम् ।सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः ॥२॥श्रीमत्स्वयम्प्रकाशेन्द्रान् प्रणिपत्य जगद्गुरून् ।बालानां सुखबोधाय मानमाला विरच्यते ॥३॥प्रमाता च प्रमेयं च प्रमा चैव प्रमाणकम् ।पदार्थास्त्विह सर्वज्ञैश्चत्वार इति कीर्तिताः ॥४॥प्रमाताहं प्रमेयं च पञ्च शब्दादिकं किल ।शब्दस्पर्शरूपरसगन्धाः शब्दादयः स्मृताः ॥५॥तत्तद्विषयकज्ञानं द्विविधं परिकीर्तितम् ।संस्कारमात्रजन्यं यज्ज्ञानं स्मरणमुच्यते ॥६॥अनुभूतिस्तु तद्भिन्नज्ञानं सा च द्विधा स्थिता ।यथार्था चायथार्थेति तत्राद्या तु प्रमा किल ॥७॥अबाधितार्थकज्ञानं यथार्थानुभवो मतः ।प्रमायाः करणं यत्तत्प्रमाणमिति गीयते ॥८॥प्रत्यक्षमनुमानं चोपमानं शब्द इत्यपि ।चत्वार्येव प्रमाणानीत्याहुः केचन तार्किकाः ॥९॥अर्थापत्तिं तथा मानं वदन्त्यनुपलब्धिकम् ।प्रत्येकं लक्षणान्याहुः सङ्ग्रहेणेह कथ्यते ॥१०॥साक्षात्करोम्यहं शब्दं श्रोत्रेणेति विभाव्यते ।प्रत्यक्षप्रमितिः सा तु श्रोत्रं तत्करणं मतम् ॥११॥तथैवानुमिनोमीति ज्ञानं यदनुभूयते ।वह्न्यादिकं सानुमितिस्तस्याः करणमुच्यते ॥१२॥व्याप्यवानयमित्येवं परामर्शो हि जायते ।गृहीतव्याप्तिकस्यातोऽनुमितिः किल जायते ॥१३॥तस्माल्लिङ्गपरामर्शो ह्यनुमानमिति स्थितम् ।अविनाभावसम्बन्धो व्याप्तिरित्यवधार्यते ॥१४॥धूमे वह्न्यविनाभावसम्बन्धो ह्यवधार्यते ।व्यभिचाराभावदृष्टेः सहचारस्य दर्शनात् ॥१५॥अन्वयव्यतिरेकाभ्यां सहचारो द्विधा मतः ।यत्र धूमस्तत्र वह्निरस्ति यद्वन्महानसे ॥१६॥वह्निर्न विद्यते यत्र धूमस्तत्र न विद्यते ।यथा ह्रदे पर्वतादौ न तथा धूमदर्शनात् ॥१७॥व्यतिरेकमुखेनापि साध्यते हि शिखी बुधैः ।अन्वयव्यतिरेकाख्यमनुमानमुदाहृतम् ॥१८॥पर्वतो वह्निमान् धूमाद्यथा दृष्टो महानसः ।तथायं पर्वतस्तस्माद्वह्निमानेव गम्यते ॥१९॥अन्वयव्याप्तिमल्लिङ्गं व्यतिरेकि च केवलम् ।यथादृष्टं तथा तेन लिङ्गेनानुमितिर्भवेत् ॥२०॥हेतोस्तु लक्षणं व्याप्तिर्यस्तद्वानवभासते ।हेतुः सन् व्याप्तिरहितो हेत्वाभास उदाहृतः ॥२१॥अनुमानमिदं प्रोक्तमुपमानमथोच्यते ।सादृश्यदर्शनाज्जातं ज्ञानं सोपमितिर्भवेत् ॥२२॥उपमानं तु सादृश्यज्ञानं तत्करणं मतम् ।गोसादृश्यधिया यद्वद्गवयादिविनिश्चयः ॥२३॥आकाङ्क्षायोग्यतासत्तिमत्पदानां कदम्बकम् ।वाक्यं शब्दप्रमाणं स्याच्छक्तं पदमितीर्यते ॥२४॥शक्तिः सङ्केत इत्येके पदार्थान्तरमित्यपि ।गृहीतशक्तेस्तात्पर्यग्रहाद्वाक्यार्थधीर्भवेत् ॥२५॥संसर्गो वा विशिष्टो वा वाक्यार्थः समुदाहृतः ।गामानयेत्यादि वाक्यं सम्बन्धार्थस्य बोधकम् ॥२६॥नीलमुत्पलमित्यादि विशिष्टार्थस्य बोधकम् ।इत्यादि लौकिकं वाक्यमाप्तोक्तं मानमिष्यते ॥२७॥ज्योतिष्टोमेन यागेन स्वर्गकामो यजेत हि ।इत्यादि वैदिकं वाक्यं विदुषां स्वार्थबोधकम् ॥२८॥यागस्तु करणं तत्र फलं स्वर्गः प्रतीयते ।साध्यसाधनसम्बन्धो वाक्यार्थस्तु प्रतीयते ॥२९॥प्रवर्तकत्वं वाक्यस्य प्राहुर्मीमांसकाः किल ।बोधकत्वं प्रमाणत्वात्केवलं वादिनः परे ॥३०॥ईष्टसाधनताज्ञानात्कृतिसाध्यतया पुमान् ।प्रवर्तते स्वयं तस्माद्वाक्यं नैव प्रवर्तकम् ॥३१॥सप्तद्वीपवती पृथ्वी पुत्रस्ते जात इत्यपि ।वाक्याद्वाक्यार्थबोधस्तु जायते हि विना कृतिम् ॥३२॥प्रवर्तकत्वं वाक्यस्य नेति तस्माद्विनिश्चितम् ।शक्त्या लक्षणया वापि वाक्यं स्वार्थं प्रबोधयेत् ॥३३॥अन्वयानुपपत्तौ तु मुख्यार्थस्य परिग्रहे ।मुख्यार्थसम्बन्धिन्यर्थे प्रतीतिर्लक्षणा मता ॥३४॥तात्पर्यानुपपत्तिर्वा लक्षणाबीजमुच्यते ।विषं भुङ्क्ष्वेत्यादि वाक्यं तन्निवृत्तिं हि बोधयेत् ॥३५॥लक्षणा च त्रिधा प्रोक्ता जहत्यजहती तथा ।वाच्यैकभागत्यागेन भागान्तरपरिग्रहः ॥३६॥परीक्षकाः प्राहुरित्थं भागत्यागाख्यलक्षणाम् ।गङ्गायां घोष इत्यत्र या जहल्लक्षणा तु सा ॥३७॥श्वेतो धावति यान्त्येते छत्रिणोऽच्छत्रिणस्तथा ।अजहल्लक्षणा तत्र वाच्यार्थस्यापि सङ्ग्रहात् ॥३८॥विरुद्धांशपरित्यागादविरुद्धांशसङ्ग्रहात् ।सोऽहमित्यादिवाक्येषु सा भागत्यागलक्षणा ॥३९॥व्यञ्जना लक्षणेत्याहुर्लक्षणा गौण्यपि क्वचित् ।अग्निर्माणवकोऽधीते सिंहोऽयं क्षत्रियस्त्विति ॥४०॥गच्छ कान्त गमिष्यामि यत्र जन्म भविष्यति ।लोके तवाहमित्यत्र निवृत्तिर्व्यज्यते गतेः ॥४१॥दृष्टं श्रुतं वा पीनत्वं न सम्भवति भोजनात् ।ऋते रात्रौ विशेषेण भोजनं परिकल्प्यते ॥४२॥रात्रिभोजनविज्ञानमर्थापत्तिफलं भवेत् ।अन्यथानुपपत्तेस्तु ज्ञानं तत्करणं मतम् ॥४३॥उपलब्धेरभावोऽपि प्रमाणान्तरमिष्यते ।अभावग्रहणायेति साधयन्तीह केचन ॥४४॥एवं सर्वप्रमाणानां विषयास्तु पृथक्पृथक् ।व्यवहारबलात्कल्प्यास्तस्मात्ते व्यावहारिकाः ॥४५॥॥इति श्रीमत्स्वयम्प्रकाशसरस्वतीचरणारविन्द-संलग्नरजोभूताच्युतकृष्णानन्दतीर्थकृता मानमाला समाप्ता ॥ N/A References : N/A Last Updated : January 26, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP