संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं| श्रीविचारदीपकः पुस्तकं अमरकोषः अनेकार्थसङ्ग्रहः ब्रह्मसूत्रम् अनुभाष्यम् आर्या-सप्तशती आत्मविद्याविलासः बार्हस्पत्यानि नीतिसूत्राणि श्रीभक्तिचन्द्रिका भट्टिकाव्यं भिक्षाटनकाव्यम् ब्रह्मसूत्राणि बृहदारण्यकोपनिषद्भाष्यार्थ बृहद्देवता चाणक्यनीतिदर्पणाः चन्द्रालोकः चमत्कारचन्द्रिका चौरपंचाशिका श्रीशिवराजाभिषेकप्रयोग: । दण्डनीतिः दर्पदलनम् दर्पदलनम् पूर्वपीठिका उत्तरपीठिका दशरूपकम् धर्मसिंधु धर्मपदम् ध्वन्यालोकः विद्यागणपतिवाञ्छाकल्पलता गौतमीयधर्मशास्त्रेः गीतगोविन्दम् श्रीमद्भगवद्गीतामाहात्म्यम् गोंदवलेकर महाराज प्रवचन हरिपाठ: जानकीहरणम् काव्य सारावली श्रीकृष्णकर्णामृतम् काव्यमीमांसा कृष्णभक्तिरत्नप्रकाशः क्रिया-कैरव-चन्द्रिका बृहत्कथामञ्जरी कुमारसम्भवम् श्रीमच्छङ्करदिग्विजय: मालतीमाधवम् मनोबोधः मनुस्मृतिः मयमतम् संस्कृतकाव्यानि मेघदूत नैष्कर्म्यसिद्धिः नलोपाख्यानम् श्रीनारदपञ्चरात्रम् श्रीनारायणीयम् चाणक्यनीतिदर्पणः चाणक्य-सूत्राणि नीतिशतकम् नृसिंहाख्यान श्रीपादुकासहस्रम् सार्थपंचदश्याम् पंचरत्नगीता पस्पषाह्निक पतज्जलिचरितम् । प्रबोधसुधाकरः रघुवंश रत्नावली पाञ्चरात्रागमः ऋतुसंहारः साङ्ख्यकारिका सारस्वत चम्पू सौंदर्यलहरी सौत्रामणी शङ्करदिग्विजयम् व्यासशिक्षा शिवानन्दलहरी शिवभारत शिवधनुर्वेदः शिवसंहिता श्लोकवार्तिकभिधः शृंगारशतकम शुक्रनीतिः सिद्धसिद्धान्तपद्धतिः श्रीसूक्तविधानम् सुभाषितरत्नकोशः सुप्रभेदागमः तर्कसंग्रह तत्त्वचिन्तामणी तत्वमुक्ताकलापे उज्ज्वलनीलमणिः वैराग्यशतकम् वैशेषिकदर्शनम् वेदान्त परिभाषा वेदान्तशास्त्रमकरन्दः सर्ववेदान्तसिद्धान्तसारसंग्रहः वेणीसंहारः श्रीकृष्णविलासम् विवेकचूडामणीः वृत्तरत्नाकर याज्ञवल्क्यस्मृतिः योगवासिष्ठम् भल्लटशतकम् काव्यप्रकाश सांख्यकारिका श्रीपादसप्ततिः ब्रह्मविदाशीर्वादः कोकिलसन्देशः परमार्थसारम् परमार्थसारः कुट्टनीमतम् मुकुन्द मुक्तावली मुकुन्दमाला श्रीविचारदीपकः मानमाला श्रीविचारदीपकः श्रीविचारदीपकः श्रीमत्परमहंस स्वामी ब्रह्मानंद द्वारा रचित एक महत्वपूर्ण संस्कृत दार्शनिक ग्रंथ आहे. Tags : sanskritvichardipakविचारदीपकःसंस्कृत श्रीविचारदीपकः Translation - भाषांतर श्रीरमापतये नमः ।॥मङ्गलं ॥फणीन्द्रभोगामलतल्पशायिनेदुरन्तदुर्ज्ञेयविचित्रमायिने ।समस्तसत्त्वैकहृदब्जयायिनेनमोऽस्तु मेशाय विमोक्षदायिने ॥१॥स्वच्छास्त्रतैलश्च विरागवर्तिक-श्चेतः सुपात्रश्च गुरूक्तिपावकः ।निर्वातहृद्गेहगतः प्रकाशयेत्सर्वेप्सितं वस्तुविचारदीपकः ॥२॥कलौ हि योगो न जपस्तपो व्रतंन चापि यागो न सुरार्चनं तथा ।प्रयाति सिद्धिं दुरितप्रभावत-स्ततो विचारैकपरायणो भवेत् ॥३॥आहारनिद्रादि समं शरीरिषुवैशेष्यमेकं हि नरे विचारणम् ।तेनोज्झितः पक्षिपशूपमः स्मृत-स्तस्माद्विचारैकपरायणो भवेत् ॥४॥विचारहीनस्य वनेऽपि बन्धनंभवेदवश्यं भरतादिवद्यतः ।गृहेऽपि मुक्तो जनकादिवद्भवे-त्ततो विचारैकपरायणो भवेत् ॥५॥पठन्तु शास्त्राणि यजन्तु वाध्वरै-रटन्तु तीर्थानि तपन्तु तापकैः ।विदन्ति नात्मानमृते विचारणंततो विचारैकपरायणो भवेत् ॥६॥तस्य खरूपं तु समासतः स्फुटंशास्त्रान्तरादत्र विकृष्य यत्नतः ।सन्दर्श्यते शिष्यगुरुप्रसङ्गतोयुक्त्या कयापीह हि बोध्यते वुधैः ॥७॥दृष्ट्वा जराजन्मविपत्तिसङ्कुलंसर्व जगच्चांवुतरङ्गभङ्गुरम् ।भीतः समागम्य जनोज्झितं स्थलंकश्चिन्मुमुक्षुः समचिन्तयत्त्विदम् ॥८॥अहो विचित्राः खलु मोहशक्तयःप्रचोदितो याभिरहं निरन्तरम् ।जनुर्जरादुःखनिपीडितोऽपि नोकदापि पश्यामि हितं यदात्मनः ॥९॥बाल्यं मया केलिकलाकलापकै-र्नीतं च नारीनिरतेन यौवनम् ।वृद्धोऽधुना किं नु करोमि साधनंमुक्तेर्वृथा मे खलु जीवितं गतम् ॥१०॥निद्राव्यवायाशनतत्परोऽभवंनित्यं विवेकापगतो यथा पशुः ।नात्मानमन्तःस्थमपि व्यलोकयंसर्वं वृथा मे खलु जीवितं गतम् ॥११॥भवापहो नैव सतां समागमःकृतः श्रुता नापि कथाघहारिणी ।हरेर्न तीर्थानि गतानि वै मयावृथाखिलं मे खलु जीवितं गतम् ॥१२॥चतुर्भुजश्चक्रगदायुधः प्रभु-र्निरञ्जनः सर्वभवार्तिभञ्जनः ।स्मृतः कदापीह मया न माधवोवृथाखिलं मे खलु जीवितं गतम् ॥१३॥इहाङ्गनातातसुतादिबान्धवैःसमागमोऽयं मम किन्निबन्धनः ।सदाऽचलो वांवुतरङ्गचञ्चलोहितावहो मे किमुताहितावहः ॥१४॥इमे च दारात्मजसेवकादयःसमाश्रिता मामथ कर्म वा निजम् ।गतिस्तथैषां ननु का भविष्यतिमयि प्रयाते परलोकमन्ततः ॥१५॥पापैरनेकैस्तु यदर्थमादरा-द्वित्तं समानीय करोम्यहं व्ययम् ।ते बान्धवा वै मम दुःखभागिनःकिंवा भविष्यन्ति गतस्य रौरवम् ॥१६॥सायं समेत्यैकतरुं विहङ्गमाःप्रातः प्रयान्तीह दिशं निजां निजाम् ।त्यक्त्वा यथान्योन्यमगं च तं तथासर्वे समायान्ति च यान्ति बान्धवाः ॥१७॥यथा कपोतोऽन्नकणाभिवाञ्छयाशिचं विशन्नेति दुरन्तबन्धनम् ।कुटुम्बजाले विषयाशयाविशंतथा विमुच्येय कथं जगत्पते ॥१८॥इयं च मुक्तालिलसत्पयोधराकणन्मणिव्रातनितम्बमण्डला ।विभाति रम्या ललनाऽविचारतोविचारदृष्ट्या तु कुमांसपुत्रिका ॥१९॥एषा तु बद्ध्वालकदामभिर्दृढंकृष्ट्वा च हावाञ्चितलोलवीक्षणैः ।मामङ्गना नर्तयतीह सन्ततंनाद्यापि लज्जे कपितुल्यतां गतः ॥२०॥सूनुर्मयायं परिपूज्य देवतालब्धः प्रयत्नेन च वर्द्धितोऽधुना ।मामेव मूढः परिशिक्षितः स्त्रियाद्वेष्टीत्यहो भाग्यविपर्ययो हि मे ॥२१॥अनेकयत्नैः समुपार्ज्य सर्वतःसदाप्तिरक्षाक्षतिदुःखदं धनम् ।व्ययं कुकार्येषु करोम्यहो पदंस्वकं स्वकीयेन करेण हन्यते ॥२२॥जले स्थले योऽपि च शैलमस्तकेसदैव पुष्णाति जगच्चराचरम् ।स मेऽशनं दास्यति विश्वपालकोन किं किमर्थं तु गतोऽस्मि दीनताम् ॥२३॥लब्ध्वापि देवेप्सितमानुषं वपु-र्नीतं समस्तं गृहकृत्यकल्पनैः ।चिन्तामणिं हस्तगतं विहाय वैक्रीतं मया काचदलं कुबुद्धिना ॥२४॥इदं सदाऽभ्यङ्गसुतैलवासितंवराङ्गनालिङ्गनलालितं मुहुः ।हितान्नपानौषधिवर्धितं वपुःकृतघ्नमन्ते न समं मयैष्यति ॥२५॥मलीमसेऽनात्मनि नाशशालिनिशुचित्वमात्मत्वमवैमि नित्यताम् ।अनाद्यविद्यातिमिरावृतेक्षणःकिमञ्जनं तस्य भवेन्निवर्तकम् ॥२६॥क्षणं क्षणं दीपशिखोपमां दधत्सरन्ध्रकुम्भास्रवदंवुसन्निभम् ।प्रयात्यशेषं तु ममायुरुत्तमंन सेक्षणोऽपीह विलोकयाम्यहो ॥२७॥गता मदीयाः पितरो यमालयंप्रयान्ति चान्येपि दिनन्दिनं प्रति ।अहं तु पश्यन्नपि तानहो शठ-स्तथापि मन्ये स्थितिमात्मनो ध्रुवाम् ॥२८॥एते च जिह्वेक्षणनासिकादय-श्चौरास्तु शश्वन्मम देहवासिनः ।लुम्पन्ति सर्वात्मधनं प्रमाथिनोनाद्याप्यवेक्षे मम पश्यताज्ञताम् ॥२९॥पतङ्गमीनेभमृगालयो लयंप्रयान्ति पञ्चेन्द्रियपञ्चगोचरैः ।मया तु तत्पञ्चकमेव सेव्यतेगतिर्न जाने मम का भविष्यति ॥३०॥यथाऽहितुण्डे पतितोऽपि मेडकःसमीहतेऽत्तुं मशकानचेतनः ।तथान्तकास्यान्तरितः समन्तत-स्तथापि काङ्क्षे विषयानहो जडः ॥३१॥सितं शिरः सम्पतिता रदावलीमुखं वलिव्रातवृतं च चक्षुषी ।गतप्रभे मे शिथिलायते वपु-स्तथापि चेतो युवतिं स्मरत्यहो ॥३२॥अधःशिरस्केन दुरन्तसङ्कटेमया यदम्बाजठरे विनिश्चितम् ।स्मरामि नाद्यापि तदुद्धताशयोमुरारिमाया हि किलातिदुस्तरा ॥३३॥करोमि दुष्कर्म सदा प्रयत्नतःफलं तु वाञ्छामि सुखं सुकर्मणः ।करञ्जमारोप्य तु केन भुज्यतेफलं रसालस्य बतेयमज्ञता ॥३४॥कोऽहं कथं केन कुतः समुद्गतोयास्यामि चेतः क्व शरीरसङ्क्षये ।किं मेस्ति चेहागमने प्रयोजनंवासोऽत्र मे स्यात्कति वासराणि वा ॥३५॥इत्थं सुधीः शुद्धधिया निरन्तरङ्गसञ्चिन्तयन्नप्यगमन्न निश्चयम् ।खिन्नान्तरङ्गस्तु ततः समित्करोगत्वाभ्युवाचात्मविदांवरं गुरुम् ॥३६॥शिष्य उवाच ।भवार्णवे जन्मजरातिमिङ्गिलेतृषाऽनले मोहविवर्तसङ्कुले ।निमज्जतो मे किमु तारकं दृढंवदार्तबन्धो मयि चेदनुग्रहः ॥३७॥गुरुरुवाच ।संसारदुष्पारमहोदधौ नृणांतुम्बीवदेवोर्ध्वमधश्च मज्जताम् ।गोविन्दपादाम्बुरुहैकचिन्तनंपोतं वदन्तीह दृढं विपश्चितः ॥३८॥शिष्य उवाच ।इहैव सन्त्यज्य गृहं सबान्धवंधनं शरीरं च गतस्य देहिनः ।भवेदमुत्रास्य सहायकस्तु कःसुहृद्वदेतद्वद वेदविद्विभो ॥३९॥गुरुरुवाच ।वधूर्जनित्री जनकः सहोदरःसुतो धनं मित्रममुत्र गच्छता ।समेति साकं न सहायकोऽपि कोविना स्वधर्मेण नरेण वै क्वचित् ॥४०॥शिष्य उवाच ।धर्मस्य मार्गा बहवो महर्षिभिःसन्दर्शिता भुक्तिविमुक्तिसिद्धये ।कस्तेषु गम्यस्तु मयात्मशुद्धयेनिःशेषधर्मैकरहस्यविद्गुरो ॥४१॥गुरुरुवाच ।वाचा च चित्तेन च कर्मणापि यत्सम्पालनं नित्यमवेक्ष्य शास्त्रतः ।सत्यस्य तद्धर्ममिहोत्तमं बुधाःप्राहुस्ततस्तं हि समाश्रयाचिरम् ॥४२॥शिष्य उवाच ।इदं जगच्चित्रचरित्रचित्रितंविनिर्मितं केन कथं कुतस्तथा ।मृषाऽमृषा वापि ततो विलक्षणंभवेदथानादि किमादिमन्मुने ॥४३॥गुरुरुवाच ।यः सर्वगः सर्वविदक्षरः प्रभु-र्मयाधिपस्तन्तुरिवोर्णनाभितः ।तस्मादनिर्वाच्यमिदं प्रजायतेवेगात्मना चेदमनाद्युदाहृतम् ॥४४॥ शिष्य उवाच ।स्वकीयमुद्दिश्य किलेतरस्य वाप्रयोजनं किन्तु विनाप्रयोजनम् ।विनिर्मिमीते जगदेतदीश्वरोवदैतदज्ञानतमोनभोमणे ॥४५॥गुरुरुवाच ।सदाप्तकामस्य तु नात्महेतवेन चेतरस्यापि न चाप्यहेतुका ।जगत्क्रिया क्रीडनमेव केवलंविभोर्वदतींह तु वेदवादिनः ॥४६॥शिष्य उवाच ।निशाकरेन्द्रार्कयमानलानिलाघराघराधारनदीनदीश्वराः ।भयेन कस्याखिलशक्तिधारिणःसदैव भीता नियतिं त्यजन्ति नो ॥४७॥गुरुरुवाच ।यमीश्वराणां परमं महेश्वरंतथोद्यतं वज्रमपि श्रुतिर्जगौ ।भयेन तस्याखिलमेव कम्पतेयथेह राज्ञोऽनुचरादिकं जगत् ॥४८॥जडानि कर्माणि पृथक् पृथग्जनैःकृतानि चित्राणि सदा समन्ततः ।विबुद्ध्य कालेन तु कोऽखिलार्थवित्फलं दयालुर्भगवन् प्रयच्छति ॥४९॥गुरुरुवाच ।येनेश्यते सर्वमिहान्तरात्मनालोकेश्वरा यस्य निदेशकारिणः ।तेनाखिलं कर्मफलं प्रसूयतेवर्षांवुना सस्यमिवाविरोधतः ॥५०॥शिष्य उवाच ।दिवाकरो दाहकरो निशाकर-स्तडिद्गणश्चोडुगणस्तथानिशम् ।विभाति कस्यामितदीप्तिदीपितोब्रवीतु मे संशयशैलदेवराट् ॥५१॥न यत्र सूर्यो न निशाकरस्तथान चापि विद्युज्ज्वलनः प्रकाशते ।श्रुतौ स्वयञ्ज्योतिरुदीरितश्च योविभाति तस्याखिलमेव तेजसा ॥५२॥शिष्य उवाच ।सदेवनागासुरसिद्धमानवंजगत्समग्रं प्रलये लयोन्मुखम् ।विलीयते कस्य तनावनाशिनोजगत्पतेर्ब्रूहि विपश्चिताम्पते ॥५३॥गुरुरुवाच ।यस्योदरेऽनन्ततनोर्महात्मनोब्रह्माण्डलक्षाणि परिस्फुरन्त्यलम् ।खद्योतका भान्ति यथा नभोंऽगणेतस्मिन्निदं याति लयं लयेऽखिलम् ॥५४॥शिष्य उवाच ।इहास्ति देवः खलु कस्तु पूज्यतांगतः कथं तस्य भवेच्च पूजनम् ।सुपूजितेनापि च तेन किं फलंभवेदिहामुत्र वदाशु मे विभो ॥५५॥गुरुरुवाच ।यः सर्वगोऽव्यक्तवपुः स्वसंस्थिति-र्यन्मूर्तयो ब्रह्ममहेशमाधवाः ।सर्वेश्वरं वेदवचांसि यं जगु-र्देवाधिदेवं तमवेहि सन्मते ॥५६॥गुरुरुवाच ।न पुष्पमालाभिरसौ न चन्दनै-र्न धूपदीपादिनिवेदनैरपि ।प्रयाति तोषं तु मनोंऽवुजार्पणात्ततोऽचिरं मोक्षफलं प्रयच्छति ॥५७॥शिष्य उवाच ।स्थलं निवासस्य गुरो क्व विद्यतेसदैव देवस्य कथं च गम्यते ।कथं भवेत्तस्य च दर्शनं द्रुतंब्रवीतु मे तत्त्वदृशां मणिर्भवान् ॥५८॥गुरुरुवाच ।तस्य स्थलं भूमिगतं न चाम्बरेपातालगं वापि सदा हृदम्बुजे ।जानीहि तद्वासमुपेत्य चेतसापश्यन्ति तं दिव्यदृशस्तु योगिनः ॥५९॥शिष्य उवाच ।अहं शरीरं किमुतेन्द्रियाणि वामनोऽथवा प्राणगणोऽथवा मतिः ।अथो किमेषां तु समुच्चयोऽस्मि किंततः पृथग्वात्मविदां शिरोमणे ॥६०॥गुरुरुवाच ।शरीरमेतन्न तथेन्द्रियाण्यपिमनोऽपि नो प्राणगणोऽपि नो मतिः ।न चापि धीमन्नसि तत्समुच्चय-स्ततोऽन्यमात्मानमवेहि साक्षिणम् ॥६१॥शिष्य उवाच ।विचेष्टते केन मनः प्रचोदितंकरोति केनासुगणो गमागमौ ।वपुस्तथेदं ननु केन नीयतेहृदि प्रविष्टेन गुरुर्ब्रवीतु मे ॥६२॥गुरुरुवाच ।कर्णस्य कर्णं मनसो मनःश्रुति-र्वाचं च वाचो यमसोरसुं जगौ ।तेनानिशं यन्त्रमिवान्तरात्मनासम्प्रेरितं सर्वमिदं प्रवर्तते ॥६३॥शिष्य उवाच ।कर्तृत्वभोक्तृत्वमुखं किमात्मनःकिं धर्मजालं मनसोऽथवा मतेः ।किंवेन्द्रियाणां किमुतासुगं भवे-देतद्दयालो वद मे विनिश्चितम् ॥६४॥गुरुरुवाच ।कर्त्ता तु नात्मा न मनो न शेमुषीनैवेन्द्रियाणीह न चासवस्तथा ।नाहङ्कृतिर्नापि वपुर्विवेकिनःकर्त्तारमेषां तु समुच्चयं विदुः ॥६५॥शिष्य उवाच ।निबद्ध्यतेऽयं किल केन हेतुनातथैव केनेह जनो विमुच्यते ।बन्धश्च मोक्षश्च किमात्मकः स्मृतःकृपार्द्रदृष्टे वद मे समासतः ॥६६॥गुरुरुवाच ।निबद्ध्यतेऽयं विषयानुरागतोविरागतस्तेषु विमुच्यते द्रुतम् ।स्वभावतः संस्खलनं हि बन्धनंपुनः स्थितिस्तत्र विमुक्तिरुच्यते ॥६७॥शिष्य उवाच ।जीवो विभुर्वाणुरुतापि मध्यमोनानाऽथवैकः किमु मध्यसङ्ख्यकः ।नित्योऽथवा किं प्रलये विनश्यतिसर्वं तदेतत्कृपया वदाशु मे ॥६८॥गुरुरुवाच ।नाणुः समस्तावयवानुगो यतोनो मध्यमोऽयं परिणामवर्जनात् ।आकाशवत्सर्वगतो हि गीयतेतस्मात्त्वमेनं विभुमेव निश्चिनु ॥६९॥शिष्य उवाच ।रविर्यथैको निखिलाक्षिभासक-स्तथाऽयमात्माखिलदेहदीपकः ।उपाधिभेदाच्च भवेद्व्यवस्थितिःप्रमाणहीना तु तृतीयकल्पना ॥७०॥गुरुरुवाच ।समस्तवस्त्वेकविनाशसाक्षिणोभवेद्विनाशो न कदापि केनचित् ।लये भवेच्चेद्वद कस्तदाश्रय-स्ततस्त्विमं नित्यमवेहि देहिनम् ॥७१॥शिष्य उवाच ।स्वरूपमीशस्य तु किं विनिश्चितंतथास्य जीवस्य च किं वपुर्भवेत् ।कियत्तयोरस्ति तथैव चान्तरंब्रवीतु मे तत्त्वविदां वरो भवान् ॥७२॥गुरुरुवाच ।मायायुतं ब्रह्म महेश्वरं वुधाजीवं समेतं च वदन्त्यविद्यया ।नैवान्तरं किञ्चिदुपाधिमन्तरासम्यग्विचारेण तयोऽस्तु लभ्यते ॥७३॥शिष्य उवाच ।कथं महाम्भोधितरङ्गतुल्ययो-र्विरुद्धधर्मास्पदयोः परस्परम् ।भवेदिहैक्यं परमेशजीवयो-र्वदैतदात्मानुभवाद्भवार्तिहन् ॥७४॥गुरुरुवाच ।यथाब्धिता चापि तरङ्गता तयो-र्विहाय नीरैक्यमिहोपलक्ष्यते ।अपास्य जीवेश्वरभावमीक्ष्यतेतथा चिदानन्दमयं विचक्षणैः ॥७५॥शिष्य उवाच ।बहूनुपायानवदन्निहर्षयोविशुद्धयेंऽतःकरणस्य निश्चितान् ।भवेत्तु तेषामचिरं विशोधकोमहामते कस्तमुपादिशाशु मे ॥७६॥गुरुरुवाच ।न तीर्थयात्राभिरिदं न चाध्वरै-स्तपोभिरुग्रैर्न जपैर्व्रतैरपि ।तथा विशुद्ध्यत्यचिरं यथा हरे-रनन्यचेतःस्मरणेन नित्यशः ॥७७॥शिष्य उवाच ।अनेकशास्त्राणि पुरर्षिपुङ्गवैःकृतानि सर्वाणि च युक्तिमन्ति वै ।प्रमाणता तेषु तु कस्य सम्भवे -दशेषशास्त्रार्थविचारसारवित् ॥७८॥गुरुरुवाच ।यद्यद्धि वेदानुगतं सयुक्तिकंतत्तत्तु बालोक्तमपीह गृह्यते ।तद्बाह्यमप्यम्बुजजन्मनोदितंप्रामाण्यमायाति वचो न कर्हिचित् ॥७९॥शिष्य उवाच ।उपासनाज्ञानमुतापि कर्म वाभवेद्दृढं किन्नु विमोक्षसाधनम् ।अथो किमेतानि समुच्चितानि वाकिमन्यदप्यस्ति तदाप्तिकारणम् ॥८०॥गुरुरुवाच ।नोपासना नैव च कर्म कारणंमोक्षस्य नैवापि समुच्चयस्तयोः ।ज्ञानं वदन्तीह तु तस्य साधनंनान्योऽस्ति पन्था भवरोगशान्तये ॥८१॥शिष्य उवाच ।उपासनायाश्च तथैव कर्मणोभवेद्विबोधस्य च किन्नु साधनम् ।स्वरूपमेषां च किमस्ति निश्चितंपृथक् पृथग्ब्रूहि विभो समासतः ॥८२॥गुरुरुवाच ।श्रद्धा मनःस्थैर्यमुपासनस्य वैस्वास्तिक्यवित्ताधिकतादिकर्मणः ।ज्ञानस्य वैराग्यविवेचनादिकंविज्ञा वदन्तीह तु साधनं पृथक् ॥८३॥गुरुरुवाच ।दानाग्निहोत्रादि तु कर्मणस्तथो-पास्तेश्च चेतोर्पणमिष्टवस्तुनि ।ब्रह्मात्मनोरैक्यविनिश्चयं बुधाःप्राहुर्विबोधस्य च लक्षणं पृथक् ॥८४॥शिष्य उवाच ।कस्येह वृक्षस्य फले सुखासुखेशाखाश्च कास्तस्य मता महामते ।बीजं च मूलं च पदानि कानि किंसङ्क्षेपतो ब्रूहि पृथक पृथग्गुरो ॥८५॥गुरुरुवाच ।योऽनेकजन्मार्जितवासनापदःसङ्कल्पमूलोऽनुभवैकबीजकः ।धर्मेतरोत्तुङ्गलतोपशोभितःकर्मद्रुमस्तस्य फले सुखासुखे ॥८६॥शिष्य उवाच ।कथं नु निर्मूलनमस्य चाचिरंभवेद्गुरो कर्मतरोरशेषतः ।निरूढपादस्य च भीतिदायिनोदयानिधे तद्वद मे विनिश्चितम् ॥८७॥गुरुरुवाच ।वैराग्यमेवास्य दृढं दृढाशयाःशस्त्रं वदन्तीह विवेकसंशितम् ।तेनैनमुन्मूलय बोधवीर्यतोनान्यत्तु तत्साधनमस्ति वै क्वचित् ॥८८॥शिष्य उवाच ।सुखाय लोको यतते निरन्तरंसुखं च दुःखेन सदैव मिश्रितम् ।अमिश्रितं यन्नु तदाप्यते कथंतदर्थिनं मे वद वेदविद्गुरो ॥८९॥गुरुरुवाच ।यस्यैतदानन्दमहोदधेर्लवंसर्वं भवेन्निर्वृतमाश्रितं जगत् ।यत्र स्थितो वेत्ति न दुःखमण्वपितत्प्राप्यतेऽकामहतात्मवेदिना ॥९०॥शिष्य उवाच ।तथैव दुःखापगमाय जन्तवःसदा यतन्ते स तु नैव सिद्ध्यति ।पदं नु किञ्चाखिलदुःखवर्जितंभवेद्भवांस्तत्कृपया ब्रवीतु मे ॥९१॥गुरुरुवाच ।महेन्द्रलोकं भुवनं स्वयम्भुवोरमेशधामापि नगं पिनाकिनः ।प्रयातु पातालमपि प्रमुच्यतेन दुःखलेशात्तु विनात्मसंस्थितिम् ॥९२॥शिष्य उवाच ।ज्ञानोदयानन्तरमस्य देहिनःकर्त्तव्यमस्तीह न किञ्चनापि वा ।चेदस्ति किं तत्कृपया ब्रवीतु मेसम्यग्भवानागमगोऽप्यगोचरः ॥९३॥गुरुरुवाच ।ज्ञानामृतातृसमतेर्विवेकिनोनैवास्ति किञ्चित्करणीयतां गतम् ।यद्यस्ति तद्वृत्तिनिरोधनं सदानान्यत्कदापीति वदन्ति सूरयः ॥९४॥शिष्य उवाच ।इमा ध्वजाग्राग्निशिखातडित्प्रभानदीरयाश्वत्थदलालिचञ्चलाः ।कथं निरुद्धा ननु चित्तवृत्तयोभवन्ति तन्मे वद योगिनां पते ॥९५॥गुरुरुवाच ।यथा प्रमत्ता वनदन्तिनः क्वचित्प्रयत्युपायेन विना न निग्रहम् ।तथैव योगेन विना न वृत्तयोनिरोधनं यान्ति ततस्तमभ्यसेत् ॥९६॥शिष्य उवाच ।किं लक्षणं तस्य वदन्ति योगिनोयोगस्य चाङ्गानि कियन्ति सन्ति वै ।निर्विघ्नमायाति कथं च सिद्धतांयोगीन्द्र मे ब्रूहि समासतः स्फुटम् ॥९७॥गुरुरुवाच ।सन्त्यज्य सङ्कल्पविकल्पजालकंयत्र स्थितिं याति मनोऽतरात्मनि ।योगं तमष्टाङ्गमवेहि स ध्रुवंवैराग्यतोऽभ्यासबलाच्च सिद्ध्यति ॥९८॥शिष्य उवाच ।किं पौरुषेणाभिमतं स्वकर्मणापूर्वार्जितेनोत जनैरवाप्यते ।वस्त्वेतयोः किञ्च बलिष्ठमुच्यतेसर्वार्थविद्ब्रूहि यदेव निश्चितम् ॥९९॥गुरुरुवाच ।नैकेन पुंसा तनयः क्वचिद्यथानैवैकया वाङ्गनयापि जन्यते ।संयोगमेवात्र तथैव कारणंविद्धि त्वमाद्यं च बलिष्ठमेतयोः ॥१००॥शिष्य उवाच ।सर्वत्रगं वेदवचोभिरुच्यतेब्रह्मोपलादौ तु कथं न लक्ष्यते ।अस्मच्छरीरेषु यथैतदञ्जसासर्वज्ञ मे ब्रूहि विबोधवृद्धये ॥१०१॥गुरुरुवाच ।सामान्यतः सर्वगतापि भानुभायद्वद्विशेषेण विभाति दर्पणे ।ब्रह्मापि सर्वत्रगतं मतौ स्फुटंतद्वद्विभातीत्यनुभूयते बुधैः ॥१०२॥शिष्य उवाच ।परिव्रजन्नेव जनो विमुच्यतेगृहेपि तिष्ठन्किमु वा दयोदधे ।तयोश्च किं तत्र विमोक्षकारणंवदैतदाम्नायवचोऽनुरोधतः ॥१०३॥गुरुरुवाच ।विशेषतो न्यस्तगृहो विमुच्यतेक्वचिद्गृहस्थोऽपि च पूर्वयत्नतः ।न चेह कश्चिन्नियमोऽस्ति पक्षिणोऽ-भवन्मृगाश्चापि यतो विवेकिनः ॥१०४॥गुरुरुवाच ।शवोपमं देहमिमं विलोकय-न्नटेदिमां यस्तु धरां गतस्पृहः ।असक्तचेताः समदर्शनः क्षमीशुचिर्दयालुः स विमुच्यते यतिः ॥१०५॥गुरुरुवाच ।यथाप्तितुष्टोऽनृतरागवर्जितःस्वधर्मनिष्ठोऽतिथिपूजकः शुचिः ।जितेन्द्रियो वृद्धजनानुगः क्षमीविचारशीलश्च गृहेपि मुच्यते ॥१०६॥शिष्य उवाच ।शमं गतो मेऽखिलसंशयज्वरोभवन्मुखाम्भोजवचोमृतद्रवैः ।वनेऽथवा किं सदने विहारिणामया कथं स्थेयमिहाधुना गुरो ॥१०७॥गुरुरुवाच ।शरीरतः कर्म समारचन् बहि-र्गतान्तरासक्तिरमित्रमित्रयोः ।समः सतां सेतुमलङ्घयँस्तत-स्तपोवने वा सदने रमस्व भोः ॥१०८॥गुरुरुवाच ।मनोभ्रमं विश्वमिदं चराचरंविलोकयन्नात्मरतिर्गतैषणः ।विनिर्ममो मानमदादिवर्जित-स्तपोवने वा सदने रमस्व भोः ॥१०९॥गुरुरुवाच ।अहं हरिः सर्वमिदं च तन्मयंततोऽन्यदासीन्न भविष्यति क्वचित् ।इमं दृढं निश्चयमन्तरास्थित-स्तपोवने वा सदने रमस्व भोः ॥११०॥ततः समभ्यर्च्य गुरुं मुहुर्मुहुःप्रणम्य चैवामुदिताशयोऽगमत् ।सुखेप्सुरेकान्तनिकेतनं ततोजगाम सन्त्यक्ततनुः परं पदम् ॥१११॥इमं मुमुक्षुः सुमुमुक्षुमोक्षदंविचारयेद्यस्तु विचारदीपकम् ।समाहितः सोऽस्तसमस्तसंशयःपुनर्भवं याति न याति तत्पदम् ॥११२॥विचारदीपकः सोऽयं मनोविष्ण्वालयेऽर्पितः ।ब्रह्मानन्दाभिधानेन यतिना हरितुष्टये ॥११३॥श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितःश्रीविचारदीपकःं सम्पूर्णः । N/A References : N/A Last Updated : January 26, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP