संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं| सांख्यकारिका पुस्तकं अमरकोषः अनेकार्थसङ्ग्रहः ब्रह्मसूत्रम् अनुभाष्यम् आर्या-सप्तशती आत्मविद्याविलासः बार्हस्पत्यानि नीतिसूत्राणि श्रीभक्तिचन्द्रिका भट्टिकाव्यं भिक्षाटनकाव्यम् ब्रह्मसूत्राणि बृहदारण्यकोपनिषद्भाष्यार्थ बृहद्देवता चाणक्यनीतिदर्पणाः चन्द्रालोकः चमत्कारचन्द्रिका चौरपंचाशिका श्रीशिवराजाभिषेकप्रयोग: । दण्डनीतिः दर्पदलनम् दर्पदलनम् पूर्वपीठिका उत्तरपीठिका दशरूपकम् धर्मसिंधु धर्मपदम् ध्वन्यालोकः विद्यागणपतिवाञ्छाकल्पलता गौतमीयधर्मशास्त्रेः गीतगोविन्दम् श्रीमद्भगवद्गीतामाहात्म्यम् गोंदवलेकर महाराज प्रवचन हरिपाठ: जानकीहरणम् काव्य सारावली श्रीकृष्णकर्णामृतम् काव्यमीमांसा कृष्णभक्तिरत्नप्रकाशः क्रिया-कैरव-चन्द्रिका बृहत्कथामञ्जरी कुमारसम्भवम् श्रीमच्छङ्करदिग्विजय: मालतीमाधवम् मनोबोधः मनुस्मृतिः मयमतम् संस्कृतकाव्यानि मेघदूत नैष्कर्म्यसिद्धिः नलोपाख्यानम् श्रीनारदपञ्चरात्रम् श्रीनारायणीयम् नीतिप्रकाशिका चाणक्यनीतिदर्पणः चाणक्य-सूत्राणि नीतिशतकम् नृसिंहाख्यान श्रीपादुकासहस्रम् सार्थपंचदश्याम् पंचरत्नगीता परशुराम कल्पसूत्र पस्पषाह्निक पतज्जलिचरितम् । प्रबोधसुधाकरः रघुवंश रत्नावली पाञ्चरात्रागमः ऋतुसंहारः साङ्ख्यकारिका सारस्वत चम्पू सौंदर्यलहरी सौत्रामणी शङ्करदिग्विजयम् व्यासशिक्षा शिवानन्दलहरी शिवभारत शिवधनुर्वेदः शिवसंहिता श्लोकवार्तिकभिधः शृंगारशतकम शुक्रनीतिः सिद्धसिद्धान्तपद्धतिः श्रीसूक्तविधानम् श्रीरङ्गनाथपादुकासहस्रम् स्तुतिकुसुमाञ्जलिः सुभाषितरत्नकोशः सुप्रभेदागमः तर्कसंग्रह तत्त्वचिन्तामणी तत्वमुक्ताकलापे उज्ज्वलनीलमणिः वैराग्यशतकम् वैशेषिकदर्शनम् वेदान्त परिभाषा वेदान्तशास्त्रमकरन्दः सर्ववेदान्तसिद्धान्तसारसंग्रहः वेणीसंहारः श्रीकृष्णविलासम् विवेकचूडामणीः वृत्तरत्नाकर याज्ञवल्क्यस्मृतिः योगवासिष्ठम् भल्लटशतकम् काव्यप्रकाश सांख्यकारिका श्रीपादसप्ततिः ब्रह्मविदाशीर्वादः कोकिलसन्देशः परमार्थसारम् परमार्थसारः कुट्टनीमतम् मुकुन्द मुक्तावली मुकुन्दमाला श्रीविचारदीपकः मानमाला अनुत्तराष्टिका रामचापस्तवः सांख्यकारिका या ग्रंथाचे रचनाकार ईश्वरकृष्ण होत. या ग्रंथात त्यांनी सांगीतले आहे, त्यांना पंचाशिकाकडून, पंचाशिकाला आसुरीकडून आणि आसुरीला कपिलकडून हे ज्ञान मिळाले. Tags : ishvarkrishnasankhyakarikaईश्वरकृष्णसंस्कृतसांख्यकारिका सांख्यकारिका Translation - भाषांतर ईश्वरकृष्णः सांख्यकारिका दुःखत्रयाभिघाताज्जिज्ञासा तदभिघातके हेतौ ।दृष्टे सापार्था चेन्नैकान्तात्यन्ततोऽभावात् ॥ १॥दृष्टवदानुश्रविकः स ह्यविशुद्धः क्षयातिशययुक्तः ।तद्विपरीतः श्रेयान्व्यक्ताव्यक्तज्ञविज्ञानात् ॥ २॥मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥३॥दृष्टं अनुमानं आप्तवचनं च सर्वप्रमाणसिद्धत्वात् ।त्रिविधं प्रमाणं इष्टं प्रमेयसिद्धिः प्रमाणाद्धि ॥४॥प्रतिविषयाध्यवसायो दृष्टं त्रिविधं अनुमानं आख्यातम् ।तल्लिङ्गलिङ्गिपूर्वकं आप्तश्रुतिराप्तवचनं तु ॥५॥सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रतीतिरनुमानात् ।तस्मादपि चासिद्धं परोक्षं आप्तागमात्साध्यम् ॥६॥अतिदूरात्सामीप्यादिन्द्रियघातान्मनोऽनवस्थानात् ।सौक्ष्म्याद्व्यवधानादभिभवात्समानाभिहाराच्च ॥७॥सौक्ष्म्यात्तदनुपलब्धिर्नाभावात्कार्यतस्तदुपलब्धिः ।महदादि तच्च कार्यं प्रकृतिविरूपं सरूपं च ॥८॥असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात् ।शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम् ॥९॥हेतुमदनित्यं अव्यापि सक्रियं अनेकं आश्रितं लिङ्गम् ।सावयवं परतन्त्रं व्यक्तं विपरीतं अव्यक्तम् ॥१०॥त्रिगुणं अविवेकि विषयः सामान्यं अचेतन प्रसवधर्मि ।व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् ॥११॥प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः ।अन्योऽन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः ॥१२॥सत्त्वं लघु प्रकाशकं इष्टं उपष्टम्भकं चलं च रजः ।गुरु वरणकं एव तमः प्रदीपवच्चार्थतो वृत्तिः ॥१३॥अविवेक्यादिः सिद्धस्त्रैगुण्यात्तद्विपर्ययाभावात् ।कारणगुणात्मकत्वात्कार्यस्याव्यक्तं अपि सिद्धम् ॥१४॥भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च ।कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥१५॥कारणं अस्त्यव्यक्तं प्रवर्तते त्रिगुणतः समुदयाच्च ।परिणामतः सलिलवत्प्रतिप्रतिगुणाश्रयविशेषात् ॥ १६॥सङ्घातपरार्थत्वात्त्रिगुणादिविपर्ययादधिष्ठानात् ।पुरुषोऽस्ति भोक्तृभावात्कैवल्यार्थप्रवृत्तेश्च ॥१७॥जन्ममरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च ।पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव ॥१८॥तस्माच्च विपर्यासात्सिद्धं साक्षित्वं अस्य पुरुषस्य ।कैवल्यं माध्यस्थ्यं द्रष्टृत्वं अकर्तृभावश्च ॥१९॥तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ।गुणकर्तृत्वेऽपि तथा कर्तेव भवत्युदासीनः ॥२०॥पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य ।पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥२१॥प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः ।तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ॥२२॥अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् ।सात्त्विकं एतद्रूपं तामसं अस्माद्विपर्यस्तम् ॥२३॥अभिमानोऽहङ्कारस्तस्माद्द्विविधः प्रवर्तते सर्गः ।ऐन्द्रिय एकादशकस्तन्मात्रपञ्चकश्चैव ॥२४॥सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात् ।भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम् ॥२५॥बुद्धीन्द्रियाणि श्रोत्रत्वक्चक्षूरसननासिकाख्यानि ।वाक्पाणिपादपायूपस्थान्कर्मेन्द्रियाण्याहुः ॥२६॥उभयात्मकं अत्र मनः सङ्कल्पकं इन्द्रियं च साधर्म्यात् ।गुणपरिणामविशेषान्नानात्वं ग्राह्यभेदाच्च ॥२७॥रूपादिषु पञ्चानां आलोचनमत्रं इष्यते वृत्तिः ।वचनादानविहरणोत्सर्गानन्दास्तु पञ्चानाम् ॥२८॥स्वालक्षण्या वृत्तिस्त्रयस्य सैषा भवत्यसामान्या ।सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च ॥२९॥युगपच्चतुष्टयस्य हि वृत्तिः क्रमशश्च तस्य निर्दिष्टा ।दृष्टे तथाप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिः ॥३०॥स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिम् ।पुरुषार्थ एव हेतुर्न केनचित्कार्यते करणम् ॥३१॥करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् ।कार्यं च तस्य दशधाहार्यं धार्यं प्रकाश्यं च ॥३२॥अन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम् ।साम्प्रतकालं बाह्यं त्रिकालं आभ्यन्तरं करणम् ॥३३॥बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि ।वाग्भवति शब्दविषया शेषान्यपि पञ्चविषयाणि ॥३४॥सान्तःकरणा बुद्धिः सर्वं विषयं अवगाहते यस्मात् ।तस्मात्त्रिविधं करणं द्वारि द्वाराणि शेषाणि ॥३५॥एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः ।कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति ॥३६॥सर्वं प्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धिः ।सैव च विशिनष्टि ततः प्रधानपुरुषान्तरं सूक्ष्मम् ॥३७॥तन्मात्राण्यविशेषास्तेभ्यो भूतानि पञ्च पञ्चभ्यः ।एते स्मृता विशेषाः शान्ता घोराश्च मूढाश्च ॥३८॥सूक्ष्मा मातापितृजाः सह प्रभूतैस्त्रिधा विशेषाः स्युः ।सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते ॥३९॥पूर्वोत्पन्नं असक्तं नियतं महदादिसूक्ष्मपर्यन्तम् ।संसरति निरुपभोगं भावैरधिवासितं लिङ्गम् ॥४०॥चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा छाया ।तद्वद्विनाविशेषैस्तिष्ठति न निराश्रयं लिङ्गम् ॥४१॥पुरुषार्थहेतुकं इदं निमित्तनैमित्तिकप्रसङ्गेन ।प्रकृतेर्विभुत्वयोगान्नटवद्व्यवतिष्ठते लिङ्गम् ॥४२॥सांसिद्धिकाश्च भावाः प्राकृतिका वैकृताश्च धर्माद्याः ।दृष्टाः करणाश्रयिणः कार्याश्रयिणश्च कललाद्याः ॥४३॥धर्मेण गमनं ऊर्ध्वं गमनं अधस्ताद्भवत्यधर्मेण ।ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः ॥४४॥वैराग्यात्प्रकृतिलयः संसारो राजसाद्भवति रागात् ।ऐश्वर्यादविघातो विपर्ययात्तद्विपर्यासः ॥४५॥एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्यः ।गुणवैषम्यविमर्देन तस्य भेदास्तु पञ्चाशत् ॥ ४६॥पञ्च विपर्ययभेदा भवन्त्यशक्तेश्च करणवैकल्यात् ।अष्टाविंशतिभेदा तुष्टिर्नवधाष्टधा सिद्धिः ॥४७॥भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोहः ।तामिस्रोऽष्टादशधा तथा भवत्यन्धतामिस्रः ॥४८॥एकादशेन्द्रियवधाः सह बुद्धिवधैरशक्तिरुद्दिष्टा ।सप्तदश वधा बुद्धेर्विपर्ययात्तुष्टिसिद्धीनाम् ॥४९॥आध्यात्मिक्यश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः ।बाह्या विषयोपरमात्पञ्च नव च तुष्टयोऽभिहिताः ॥५०॥ऊहः शब्दोऽध्ययनं दुःखविघातत्रयं सुहृत्प्राप्तिः ।दानं च सिद्धयोऽष्टौ सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः ॥५१॥न विना भावैर्लिङ्गं न विना लिङ्गेन भावनिर्वृत्तिः ।लिङ्गाख्यो भावाख्यस्तस्माद्भवति द्विधा सर्गः ॥५२॥अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति ।मानुष्यश्चैकविधः समासतो भौतिकः सर्गः ॥५३॥ऊर्ध्वं सत्त्वविशालस्तमोविशालश्च मूलतः सर्गः ।मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः ॥५४॥अत्र जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः ।लिङ्गस्याविनिवृत्तेस्तस्माद्दुःखं समासेन ॥५५॥इत्येष प्रकृतिकृतो महदादिविषयभूतपर्यन्तः ।प्रतिपुरुषविमोक्षार्थं स्वार्थ इव परार्थ आरम्भः ॥५६॥वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥५७॥औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः ।पुरुषस्य विमोक्षार्थं प्रवर्तते तद्वदव्यक्तम् ॥५८॥रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् ।पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते प्रकृतिः ॥५९॥नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः ।गुणवत्यगुणस्य सतस्तस्यार्थं अपार्थकं चरति ॥६०॥प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति ।या दृष्टास्मीति पुनर्न दर्शनं उपैति पुरुषस्य ॥६१॥तस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित् ।संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥६२॥रूपैः सप्तभिरेवं बध्नात्यात्मानं आत्मना प्रकृतिः ।सैव च पुरुषस्यार्थं प्रति विमोचयत्येकरूपेण ॥६३॥एवं तत्त्वाभ्यासान्नास्मि न मे नाहं इत्यपरिशेषम् ।अविपर्ययाद्विशुद्धं केवलं उत्पद्यते ज्ञानम् ॥६४॥तेन निवृत्तप्रसवां अर्थवशात्सप्तरूपविनिवृत्ताम् ।प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवस्थितः स्वस्थः ॥६५॥सम्यग्ज्ञानाधिगमाद्धर्मादीनां अकारणप्राप्तौ ।तिष्ठति संस्कारवशाच्चक्रभ्रमवद्धृतशरीरः ॥६७॥प्राप्ते शरीरभेदे चरितार्थत्वात्प्रधानविनिवृत्तौ ।ऐकान्तिकं आत्यन्तिकं उभयं कैवल्यं आप्नोति ॥६८॥पुरुषार्थज्ञानं इदं गुह्यं परमर्षिणा समाख्यातम् ।स्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते यत्र भूतानाम् ॥६९॥एतत्पवित्र्यं अग्र्यं मुनिरासुरयेऽनुकम्पया प्रददौ ।आसुरिरपि पञ्चशिखाय तेन च बहुलीकृतं तन्त्रम् ॥७०॥शिष्यपरम्परयागतं ईश्वरकृष्णेन चैतदार्याभिः ।सङ्क्षिप्तं आर्यमतिना सम्यग्विज्ञाय सिद्धान्तम् ॥७१॥सप्तत्यां किल योऽर्थास्तेऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य ।आख्यायिकाविरहिताः परवादविवर्जिताश्चेति ॥७२॥तस्मात्समासदृष्टं शास्त्रं इदं नार्थतश्च परिहीनम् ।तन्त्रस्य च बृहन्मूर्तेर्दर्पणसङ्क्रान्तं इव बिम्बम् ॥७३॥ References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP