संस्कृत सूची|संस्कृत साहित्य|पुस्तकं| कुट्टनीमतम् पुस्तकं अमरकोषः अनेकार्थसङ्ग्रहः ब्रह्मसूत्रम् अनुभाष्यम् आर्या-सप्तशती बार्हस्पत्यानि नीतिसूत्राणि श्रीभक्तिचन्द्रिका भट्टिकाव्यं भिक्षाटनकाव्यम् ब्रह्मसूत्राणि बृहदारण्यकोपनिषद्भाष्यार्थ बृहद्देवता चाणक्यनीतिदर्पणाः चन्द्रालोकः चमत्कारचन्द्रिका चौरपंचाशिका श्रीशिवराजाभिषेकप्रयोग: । दण्डनीतिः दर्पदलनम् दर्पदलनम् पूर्वपीठिका उत्तरपीठिका दशरूपकम् धर्मसिंधु धर्मपदम् ध्वन्यालोकः विद्यागणपतिवाञ्छाकल्पलता गौतमीयधर्मशास्त्रेः गीतगोविन्दम् श्रीमद्भगवद्गीतामाहात्म्यम् गोंदवलेकर महाराज प्रवचन हरिपाठ: जानकीहरणम् काव्य सारावली श्रीकृष्णकर्णामृतम् काव्यमीमांसा कृष्णभक्तिरत्नप्रकाशः क्रिया-कैरव-चन्द्रिका बृहत्कथामञ्जरी कुमारसम्भवम् श्रीमच्छङ्करदिग्विजय: श्रीमच्छंकरदिग्विजयः । मालतीमाधवम् मनोबोधः मनुस्मृतिः मयमतम् संस्कृतकाव्यानि मेघदूत नैष्कर्म्यसिद्धिः नलोपाख्यानम् श्रीनारदपञ्चरात्रम् श्रीनारायणीयम् चाणक्यनीतिदर्पणः चाणक्य-सूत्राणि नीतिशतकम् नृसिंहाख्यान श्रीपादुकासहस्रम् सार्थपंचदश्याम् पंचरत्नगीता पस्पषाह्निक पतज्जलिचरितम् । प्रबोधसुधाकरः रघुवंश रत्नावली पाञ्चरात्रागमः ऋतुसंहारः साङ्ख्यकारिका सारस्वत चम्पू सौंदर्यलहरी सौत्रामणी व्यासशिक्षा शिवानन्दलहरी शिवभारत शिवधनुर्वेदः शिवसंहिता श्लोकवार्तिकभिधः शृंगारशतकम शुक्रनीतिः सिद्धसिद्धान्तपद्धतिः श्रीसूक्तविधानम् सुभाषितरत्नकोशः सुप्रभेदागमः तर्कसंग्रह तत्त्वचिन्तामणी तत्वमुक्ताकलापे उज्ज्वलनीलमणिः वैराग्यशतकम् वैशेषिकदर्शनम् वेदान्त परिभाषा वेदान्तशास्त्रमकरन्दः सर्ववेदान्तसिद्धान्तसारसंग्रहः वेणीसंहारः श्रीकृष्णविलासम् विवेकचूडामणीः वृत्तरत्नाकर याज्ञवल्क्यस्मृतिः योगवासिष्ठम् भल्लटशतकम् काव्यप्रकाश सांख्यकारिका श्रीपादसप्ततिः ब्रह्मविदाशीर्वादः कोकिलसन्देशः परमार्थसारम् परमार्थसारः कुट्टनीमतम् मुकुन्द मुक्तावली मुकुन्दमाला कुट्टनीमतम् काश्मीर नरेश जयापीड (७७९ ई.-८१२) चे प्रधान मंत्री दामोदर गुप्त ह्यांनी 'कुट्टनीमतम्' नामक काव्याची रचना केली होती. Tags : kuttanimatamsanskritकुट्टनीमतम्संस्कृत कुट्टनीमतम् Translation - भाषांतर स जयति संकल्पभवो रतिमुखशतपत्रचुम्बनभ्रमरः ।यस्यानुरक्तललनानयनान्तविलोकितं वसतिः ॥१॥अवधीर्य दोषनिचयं गुणलेशे संनिवेश्य मतिमार्याः ।कुट्टन्या मतमेतद्दामोदरगुप्तविरचितं शृणुत ॥२॥अस्ति खलु निखिलभूतलभूषणभूता विभूतिगुणयुक्ता ।युक्ताभियुक्तजनता नगरी वाराणसी नाम ॥३॥अनुभवतामपि यस्यामुपभोगान्कामतः शरीरवताम् ।शशधरखण्डविभूषितदेहलयः किल न दुष्प्रापः ॥४॥चन्द्रविभूषितदेहा भूतिरताः सद्भुजङ्गपरिवाराः ।वारस्त्रियोऽपि यस्यां पशुपतितनुतुल्यतां याताः ॥५॥अतितुङ्गसुरनिकेतनशिखरसमुत्क्षिप्तपवनचलिताभिः ।मञ्जरितमिव विराजति यत्र नभो वैजयन्तीभिः ॥६॥अविरतसंचरदबलाचरणतलालक्तकद्रवारुणितम् ।स्थलकमलवतीं लक्ष्मीं बिभर्ति वसुधातलं यत्र ॥७॥यत्र च रमणीभूषणरवबधिरितसकलदिङ्नभोभागे ।शिष्याणां नाचार्यैरवद्यमवधार्यते पठताम् ॥८॥विन्ध्यधराधरभूरिव या राजति मत्तवारणोपेता ।बहुलनिशीथवतीव प्रोज्ज्वलधिष्ण्योपशोभिता या च ॥९॥यतिगणगुणसमुपेता या नित्यं छन्दसामिव प्रचितिः ।वनपङ्क्तिरिव ससाला तुरुष्कसेनेव बहलगन्धर्वा ॥१०॥तारागणोऽकुलीनः प्रियदोषा यत्र कौशिकाः सततम् ।गद्ये वृत्तच्यवनं परगृहरोधस्तथाक्षेषु ॥११॥शूलभृतो व्यालास्था पदवेदिषु यत्र धातुवादित्वम् ।सुरतेष्वबलाक्रमणं दानच्छेदो मदच्युतौ करिणाम् ॥१२॥तीव्रकरत्वं भानोरविवेको यत्र मित्रहृदयानाम् ।योगिषु दण्डग्रहणं संधिच्छेदः प्रगृह्येषु ॥१३॥छन्दःप्रस्तारविधौ गुरवो यस्यामनार्जवस्थितयः ।वीणायां परिवादो द्विजनिलयेष्वप्रसन्नत्वम् ॥१४॥अनुरूपवृत्तघटना सत्कविकृतरूपकेषु लोके च ।रमणीवचने यस्यां माधुर्यं काव्यबन्धे च ॥१५॥यस्यामुपवनवीथ्यां तमालपत्त्राणि युवतिवदने च ।नखरप्रहारकणितं तन्त्रीवाद्ये च सुरतकलहे च ॥१६॥नन्दनवनाभिरामा विबुधवती नाकवाहिनीजुष्टा ।अमरावतीव यान्या विश्वसृजा निर्मिता जगति ॥१७॥तस्यां खगपतितनुरिव विलासिनां हृदयशोकसंजननी ।आकृष्टेश्वरहृदया प्रालेयनगाधिराजतनयेव ॥१८॥संसक्तभोगिनेत्रा मन्दरधरणीभृतो यथा मूर्तिः ।उपरिगता शूलानामन्धासुरगात्रलेखेव ॥१९॥समुवास वाररामा मानसवसतेः शरीरिणी शक्तिः ।निःशेषवेशयोषिद्विभूषणं मालती नाम ॥२०॥पेशलवचसां वसतिर्लीलानामालयः स्थितिः प्रेम्नः ।भूमिः परिहासानामावसथो वक्रकथितानाम् ॥२१॥सा शुश्राव कदा चिद्धवलालयपृष्ठदेशमधिरूढा ।केनापि गीयमानां प्रसङ्गपतितामिमामार्याम् ॥२२॥यौवनसौन्दर्यमदं दूरेणापास्य वारवनिताभिः ।यत्नेन वेदितव्याः कामुकहृदयार्जनोपायाः ॥२३॥श्रुत्वाथ विपुलजघना मनसीदं मालती चकार चिरम् ।अतिसाम्प्रतमुपदिष्टं सुहृदेवानेन साधुना पठता ॥२४॥तद्गत्वा पृच्छामो विकरालां कलितसकलसंसाराम् ।यस्याः कामिजनौघो दिवानिशं द्वारदेशमध्यास्ते ॥२५॥इति मनसि सा निवेश्य द्रुततरमवतीर्य वेश्मनः शिखरात् ।विकरालाभवनवरं परिजनपरिवारिता प्रययौ ॥२६॥अथ विरलोन्नतदशनां निम्नहनुं स्थूलचिपिटनासाग्राम् ।उल्बणचूचुकलक्षितशुष्ककुचस्थानशिथिलकृत्तितनुम् ॥२७॥गम्भीरारक्तदृशं निर्भूषणलम्बकर्णपालीं च ।कतिपयपाण्डुरचिकुरां प्रकटशिरासंततायतग्रीवाम् ॥२८॥सितधौतवसनयुगलां विविधौषधिमणिसनाथगलसूत्राम् ।तन्वीमङ्गुलिमूले तपनीयमयीं च वालिकां दधतीम् ॥२९॥गणिकागणपरिकरितां कामिजनोपायनप्रसक्तदृशम् ।आसन्द्यामासीनां विलोकयामास विकरालाम् ॥३०॥अवलोक्य सा विधाय क्षितिमण्डललीनमौलिना प्रणतिम् ।परिपृष्टकुशलवार्ता समनुज्ञातासनं भेजे ॥३१॥अथ विरचितहस्तपुटा सप्रश्रयमासनं समुत्सृज्य ।इदमूचे विकरालामवसरमासाद्य मालती वचनम् ॥३२॥विदधासि हरिमकौस्तुभमहरिं रविमगजनाथममरेन्द्रम् ।अद्रविणं द्रविणपतिं नियतं मतिगोचरे पतितम् ॥३३॥अयमेव बुद्धिविभवं हृतविभवस्ते पटच्चरावरणः ।कामुकलोकः कथयति सत्त्रागारेषु भुञ्जानः ॥३४॥उपसंहृतान्यकर्मा ढनवर्मा नर्मदाङ्घ्रियुगलस्य ।सकलसमर्पितसम्पद्यदुपेतः पादपीठत्वम् ॥३५॥यदुपनतो नयदत्तःसागरदत्तस्य मध्यमः पुत्रः ।प्रीणयति मदनसेनां विधाय पितृमन्दिरं रिक्तम् ॥३६॥यल्लीलार्पितचरणौ मञ्जर्या भट्टपुत्रनरसिंहः ।परितोषं व्रजति परं मृदु मृद्नन्पाणियुगलेन ॥३७॥यन्निःशेषितविभवो दीक्षितभवदेवपुत्रशुभदेवः ।निर्भर्त्सितोऽपि नोज्झति केसरसेनागृहद्वारम् ॥३८॥अन्या अपि कामिजनं साधारणयोषितो यदाक्रम्य ।विदधति कर्पटशेषं विलसितमेतत्तवोपदेशानाम् ॥३९॥हीनान्वयजन्मानो गुणहीना रोगिणो निराकृतयः ।उपसेविता मयापि प्रकटीकृतरागसौष्ठवं पुरुषाः ॥४०॥मातः किं विदधामो हतधातुर्वामताभियोगेन ।नासादयाम इष्टं निजतनुपण्यप्रसारकेणापि ॥४१॥तत्कुरु मातरनुग्रहमभिधत्स्व ममापि देहिनो भोग्यान् ।तेषां च वेशचेष्टितमनसिजशरजालपातनोपायान् ॥४२॥इति गिरमुदीरयन्तीं सप्रेमामृश्य पाणिना पृष्ठे ।रुचिरवचो विकराला रुचिराकृतिमालतीमूचे ॥४३॥अयमेव दह्यमानस्मरनिर्गतधूमवर्तिकाकारः ।चिकुरभरस्तव सुन्दरि कामिजनं किङ्करीकुरुते ॥४४॥अयमेव ते कृशोदरि मन्दोल्लसितभ्रुविभ्रमाधारः ।अधरीकरोति धीरान्मधुरस्मितसुभगवीक्षितविशेषः ॥४५॥इयमेव वदनकान्ती रतिकान्ताकूतमतितरां कुरुते ।श्रुतिपथमप्युपयाता नियतं तव कामिनां मनसि ॥४६॥इयमेव दशनपङ्क्ती रुचिराचिरकान्तिकान्तिसमकान्तिः ।उत्पादयति नितान्तं तव मन्मथदाहवेदनां पुंसाम् ॥४७॥इदमेव समुल्लपितं लीलावति विजितपरभृतध्वानम् ।तव निःशेषभुजङ्गव्याकर्षणसिद्धमन्त्रवच्चित्रम् ॥४८॥इदमेव मकरकेतननिकेतनं स्तनयुगं तवाभोगि ।भोगवति भोगसाधनमपरोपायग्रहो व्यर्थः ॥४९॥इदमेव बाहुयुगलं मृणालतनुसुन्दरं तवाभोगि ।कस्य न जनयति मदनं कनकाङ्गदभूषणं सुतनु ॥५०॥अयमेव मध्यदेशः कन्दर्पादेशकरणचतुरस्ते ।प्रकृशोऽपि शरीरभृतो दशमीं प्रापयति मन्मथावस्थाम् ॥५१॥इयमेव रोमराजिः सङ्कल्पजचापयष्टिगुणशोभाम् ।दधती विदधाति तव स्मरसायकशल्यविक्लवान्यूनः ॥५२॥इदमेव पृथुलजघनं कलधौतशिलातलाभिरमणीयम् ।तव तरुणवशीकरणं यतिसंयतिनाशकारि करभोरु ॥५३॥इदमेव तवोरुयुगं रम्भागर्भोपमं मनोहारि ।वद सुन्दरि नाभिमतं मदनज्वरतापशान्तये कस्य ॥५४॥यौवनकल्पतरोस्ते कनकलताविभ्रमं सुवृत्तमिदम् ।जङ्घायुगलं नेच्छति कामफलप्राप्तये क इव ॥५५॥निर्जितदाडिमरागं विजितस्थलकमलिनीविलासमिदम् ।तव चरणसरोजयुगं कस्य न मानसमलङ्कुरुते ॥५६॥ह्रेपयति वारणेन्द्रं हंसं हसति प्रयातमिदमेव ।तव लीलावति ललितं यूनां हृदयानि मथ्नाति ॥५७॥तदपि यदि ते कुतूहलमवधानं संविधाय तनुमध्ये ।आकर्णय कथयामि स्वबुद्धिविभवानुसारेण ॥५८॥स्वीकुरु तावत्प्रथमं नृपसेवकभट्टसूनुमतियत्नात् ।स्वाधीनामतिविपुलां यदि सम्पदमीहसे सुतनु ॥५९॥प्रत्यासन्नग्रामे स्वयं प्रभुः पितरि नित्यकटकस्थे ।भट्टसुतश्चिन्तामणिराकृष्टो भवति पुत्रि नियमेन ॥६०॥शृणु तस्य चारुहासिनि वेषग्रहणं च चेष्टितं चैव ।निपतति च यथा तूर्णं प्रियसुरभिकुसुमशरासनप्रसरे ॥६१॥स्थूलस्थापितचूलकपञ्चाङ्गुलमात्रकेशविन्यासः ।लम्बश्रवणनिवेशितकरपत्रिकघटितदशनपङ्क्तिश्च ॥६२॥करशाखाश्रितमुद्रिकचामीकरकण्ठसूत्रिकाभरणः ।परिमृष्टगात्रकुङ्कुमकिञ्चित्पिञ्जरितवसनसंवीतः ॥६३॥प्रविलम्बिकुसुमदामकगलमण्डनजातरूपकृतशोभः ।अन्तर्निविष्टसिक्थिततौरुष्किकखुश्शिकादिचरणत्रः ॥६४॥नानावर्णविवेष्टितबहलदशापाशबद्धततकेशम् ।एकस्मिन्दलवीटकमपरस्मिन्सीसपत्रकं कर्णे ॥६५॥उच्चण्डकनकगर्भितकुङ्कुमपिञ्जरितवस्तिपरिधानम् ।स्थूलतरकाचवर्तकमालां च गले दधानेन ॥६६॥वृश्चिकरञ्जितकररुहकरमूलनिबद्धशङ्खचक्रेण ।प्रथमवयस्त्वं भजता ताम्बूलकरङ्कवाहिनानुगतः ॥६७॥श्रेष्ठिवणिग्विटकितवप्रधानरङ्गस्य सुमहतो मध्ये ।शूलापालस्थापितकतिपयवध्रोरुपीठिकासीनः ॥६८॥उत्सङ्गार्पितखड्गैरयथातथभाषिभिर्महौद्धत्यम् ।बिभ्राणैरनुजीविभिरधिष्ठितः पञ्चषैः पुरुषैः ॥६९॥चतुरतरसेवकार्पितपृष्ठपरिक्षिप्तपूर्वदेहांशः ।अन्तर्विधृतावेलप्रोच्छूनकपोलकलितकरपर्णः ॥७०॥अनपेक्षितप्रसङ्गः पुनः पुनः पठति सोन्नतभ्रूकः ।गाथाश्लोकप्रायं भावितचेता यथातथाधीतम् ॥७१॥विस्मयलोलितमौलिः पार्श्वगतान्ताडयन्रसावेगात् ।हाकष्टसाधुवादैरन्तरयति परसुभाषितश्रवणम् ॥७२॥इदमुक्तो रहसि रुषा तातेन नृपो नृपेण तातोऽपि ।इति पितुराविष्कुरुते महीभृतः प्रणयविश्वासौ ॥७३॥पत्रच्छेदमजानन्जानन्वा कौशलं कलाविषये ।प्रकटयति जनसमाजे बिभ्राणः पत्रकर्तरीं सततम् ॥७४॥ब्रह्मोक्तनाट्यशास्त्रे गीते मुरजादिवादने चैव ।अभिभवति नारदादीन्प्रावीण्यं भट्टपुत्रस्य ॥७५॥वसुनन्दचित्रदण्डकमुक्तायुधखड्गधेनुबन्धेषु ।व्रजति पुरतोऽस्य नियतं भार्गवतां परशुरामोऽपि ॥७६॥वात्स्यायनमयमबुधं बाह्यं दूरेण दत्तकाचार्यम् ।गणयति मन्मथतन्त्रे पशुतुल्यं राजपुत्रं च ॥७७॥यः प्रार्थितोऽपि यत्नात्कवचं राधासुतो ददाति स्म ।अविचिन्तितवसुवर्षस्त्यागगुणं हसति तस्यायम् ॥७८॥प्रपलायनैकहृदये यो विक्रममातनोति हरिणेऽपि ।सिंहस्य तस्य शौर्यं त्रपाकरं भट्टपुत्रस्य ॥७९॥आखेटकेऽपि कौतुकमस्त्येव जयश्च चञ्चले लक्ष्ये ।भट्टभयेन न खेलति भट्टसुतः किं त्वतिप्रकटम् ॥८०॥इति निजसेवकनिगदितरामणिकावचनजनितपरितुष्ट्या ।अन्तर्मुदितो ब्रूते मामेष खलीकरोतीति ॥८१॥कतमत्कतमल्लग्नं प्रस्थानं का च नर्तकी भद्रा ।षिङ्गटके का नृत्यति कोहलभरतोदितक्रियया ॥८२॥कीदृक्त्वं लयमार्गे धवलुकरचिते च भाणके कीदृक् ।प्रेक्षणकादावेवं पृच्छति नृत्तोपदेशकं यत्नात् ॥८३॥सुमनोमालां कण्ठात्सादरचेता ददाति नर्तक्यै ।अपनीय सताम्बूलकमनवसरे साधुवादं च ॥८४॥भुजपतनगात्रसंस्थितिलालित्योद्वहनपार्श्ववलितानि ।अनयैव निर्मितानि स्थानकशुद्धिश्च चातुरस्र्यं च ॥८५॥प्रविभक्तैर्भावरसैरभिनयभङ्ग्या परिक्रमैश्चित्रैः ।रम्भामप्यतिशेते किमुतेतरमर्त्यनर्तकीलोकम् ॥८६॥इत्यपसारकविरतावविरतमुत्स्नायुकण्ठमत्युच्चैः ।वर्णयति भावितात्मा लक्षितपदमात्रया पात्रम् ॥८७॥प्रायेण भट्टतनयो भवतीदृशवेषचेष्टितो वत्से ।तं मदनवागुरान्तः पातयसि यथा तथा ब्रूमः ॥८८॥चतुरा प्रागल्भ्यवती परचित्तज्ञानकौशलोपेता ।योज्या तस्मिन्दूती वक्रोक्तिविभूषिता प्रयत्नेन ॥८९॥स उपेत्य तयावसरे ताम्बूलं सुमनसश्च दत्त्वेत्थम् ।अभिधातव्यः सुन्दरि मकरध्वजदीपकैर्वचनैः ॥९०॥जन्मसहस्रोपचितैः पुण्यचयैरद्य फलितमस्माकम् ।यत्त्वं नयनानन्दन नयनावसरं समेतोऽसि ॥९१॥चाटुक्रममनुरागं प्रणयरुषौ विरहजनितशोकार्तिम् ।प्रकटयति वाररमणी नटीव शिक्षाभियोगेन ॥९२॥प्रवयसि यौवनशालिनि हीनकुले सत्कुलप्रसूते च ।रोगवति दृढशरीरे समचित्ता योगिनश्च गणिकाश्च ॥९३॥उपचरिताप्यतिमात्रं प्रकटवधूः क्षीणसम्पदः पुंसः ।पातयति दृशं व्रजतः स्पृहया परिधानमात्रेऽपि ॥९४॥इत्थं दृढतरवासितमनसां पुंसां त्वसाम्प्रतं पुरतः ।वेशविलासवतीनामशरीरशरव्यथाकथनम् ॥९५॥केवलमगणितलाघवदूरपरित्यक्तधीरताभरणा ।मुखरयति मां दुराशादग्धसखी तेन कथयामि ॥९६॥हृदयमधिष्ठितमादौ मालत्याः कुसुमचापबाणेन ।चरमं रमणीवल्लभ लोचनविषयं त्वया भजता ॥९७॥क्षणमुत्कण्टकिताङ्गी क्षणमुल्बणदाहवेदनावस्था ।क्षणमुपजाताकम्पा स्वेदार्द्रवपुः क्षणं भवति ॥९८॥मुहुरविभावितहास्या मुहुरुज्झितधीरभावमत्युच्चैः ।रोदिति गायति च पुनः पुनश्च मौनावलम्बिनी भवति ॥९९॥पतति मुहुः पर्यङ्के मुहुरङ्के परिजनस्य मुहुरवनौ ।किसलयकल्पिततल्पे मुहुरम्भसि मुहुरनङ्गसंतप्ता ॥१००॥महिषीव पङ्कदिग्धा हंसीव मृणालवलयपरिवारा ।सुभग मयूरीवासौ भुजङ्गविद्वेषिणी जाता ॥१०१॥कदली चन्दनपङ्कः पङ्केरुहनीरहारघनसारम् ।शशधरशशधरकान्तं शान्त्यै नो मदनहुतभुजस्तस्याः ॥१०२॥अपसारय घनसारं कुरु हारं दूर एव किं कमलैः ।अलमलमालि मृणालैरिति वदति दिवानिशं बाला ॥१०३॥संकल्पैरुपनीतं त्वामन्तिकमुल्लसन्मनोवृत्तिः ।दृढमालिङ्गति पश्चात्स्वभुजापीडेन याति वैलक्ष्यम् ॥१०४॥कुसुमामोदी पवनः पिककूजितभृङ्गसार्थरसितानि ।इयमियती सामग्री घटिता विधिनैव तद्विनाशाय ॥१०५॥अबलां बलिना नीतां दशामिमां मकरकेतुना रक्ष ।आपत्पतितोद्धृतये भवति हि शुभजन्मनां जन्म ॥१०६॥नो गृह्णन्ति यथार्था अर्थिजनैर्निगदिता गिरः प्रायः ।मालत्या गुणलेशं शृणु धृष्टतया तथापि कथयामि ॥१०७॥आस्फालयतो नूनं धनुरतनोः कौसुमं रजः पतितम् ।संहृत्य सा सुमध्या विश्वसृजा निर्मिता तेन ॥१०८॥उपहसति ङिरिसुताया लावण्यं येन सततलग्नेन ।न द्रवतामुपनीतं भोगीन्द्रविभूषणस्य देहार्धम् ॥१०९॥शशधरबिम्बार्धगतां छायामिव सैंहिकेयवदनस्य ।अलिपटलनीलकुटिलामलकावलिमलिकसंनिधौ वहति ॥११०॥सरसिजमस्थिरशोभं विभ्रमरहितं च मण्डलं शशिनः ।केन समेतु समत्वं हृदयप्रिय मालतीवदनम् ॥१११॥अलिरुपरि तदीक्षणयोर्भ्रान्त्वासौगन्ध्यसूचितविशेषः ।निपतति कर्णाम्बुरुहे निर्गुणताप्यवसरे साध्वी ॥११२॥बिभ्राणेऽरुणिमानं सहजं जितबन्धुजीवरुचिमधरे ।यदलक्तकविन्यसनं तत्तस्या मण्डनक्रीडा ॥११३॥चित्रमिदं यत्कृशता तस्या वलिपरिगृहीतमध्यस्य ।अथवा नो विधिविहिता महताप्यपनीयते तनुता ॥११४॥आस्तामपरस्तावत्तस्याः स्मरवसतिपृथुतरनितम्बः ।श्लथयति कपिलमुनेरपि दृक्पथपतितः समाधानम् ॥११५॥तस्या रम्भावपुषो रम्भोपममूरुयुगलमवलोक्य ।मकरध्वजोऽपि सहसा निजसायकलक्ष्यतां याति ॥११६॥जघनभरालसयाता नो याता सा विलोचनप्रसरम् ।तिष्ठति तेन मनोहर शरजन्मा ब्रह्मचर्येण ॥११७॥यदि कथमपि मधुमथनः पश्यति तामसमबाणसर्वस्वम् ।तदसारभारभूतं ऌअक्ष्मीवपुरुरसि विनिहितं मनुते ॥११८॥यदि पतति सा कथं चिद्वीक्षणविषयं हरस्य तदवश्यम् ।त्रिभुवनमशिवं कुरुते वामेतरदेहभागमासाद्य ॥११९॥सौन्दर्यं तत्तादृशमशेषयोषिद्विलक्षणं सृजतः ।यन्निष्पन्नं धातुस्तन्मन्ये काकतालीयम् ॥१२०॥सहजविलासनिवासं तस्या वपुरनभिवीक्षमाणस्य ।मन्ये नाकाधिपतेः सहस्रमपि चक्षुषां विफलम् ॥१२१॥शिथिलयतु कुसुमचापं क्षिपतु शरान्बाणधौ मनोजन्मा ।संसारसारभूता विचरति भुवि मालती यावत् ॥१२२॥वात्स्यायनमदनोदयदत्तकविटवृत्तराजपुत्राद्यैः ।उच्छ्वसितं यत्किं चित्तत्तस्या हृदयदेशमध्यास्ते ॥१२३॥भरतविशाखिलदत्तिलवृक्षायुर्वेदचित्रसूत्रेषु ।पत्रच्छेदविधाने भ्रमकर्मणि पुस्तसूदशास्त्रेषु ॥१२४॥आतोद्यवादनविधौ नृत्ते गीते च कौशलं तस्याः ।अभिधातुं यदि शक्तो वदनसहस्रेण भोगिनामीशः ॥१२५॥परिगलदालोलांशुकमपयन्त्रणमुपरि मालती रभसात् ।निपतति नापुण्यवतां रतिलालसमानसा रहसि ॥१२६॥रतिरसरभसास्फालनचलवलयनिनादमिश्रितं तस्याः ।तत्कालोचितमणितं श्रुतिपथमुपयाति नाल्पपुण्यस्य ॥१२७॥इत्थमभिधीयमानः शुभमध्ये यदि भवेदुदासीनः ।एवं ततोऽभिधेयः संदर्शितकोपया दूत्या ॥१२८॥किं सौभाग्यमदोऽयं यौवनलीलाभिरूपतादर्पः ।सहजप्रेमोपनतां मालतिकां न बहु मन्यसे येन ॥१२९॥न गणयति या कुलीनान्द्रविणवतः शास्त्रवेदिनः प्रणतान् ।सा भवदर्थे शुष्यति कुस्थाननिवेशितं धिगनुरागम् ॥१३०॥कमलवती तीव्ररुचौ बहुभस्मनि शम्भुशिरसि शशिलेखा ।सा च त्वयि पशुकल्पे यदभिरता तेन मे कृशता ॥१३१॥असरलमरसं कठिनं दुर्ग्रहमस्निग्धमाश्रिता खदिरम् ।यदुपैति वाच्यपदवीं मालतिका तत्किमाश्चर्यम्? ॥१३२॥अथवा कः खलु दोषो यदतुल्यतयोपजनितवैलक्ष्यः ।स्वाधीनामपि सरसां परिहरति मृणालिकां ध्वाङ्क्षः ॥१३३॥मात्र करिष्यसि खेदं निष्ठुरमुक्तोऽसि यन्मया सुभग ।यूनां हि रक्ततरुणीसुहृदभिहितपरुषमाभरणम् ॥१३४॥चन्द्रमसेव ज्योत्स्ना कंसासुरवैरिणेव वनमाला ।कुसुमशरासनलतिका कुसुमाकरवल्लभेनेव ॥१३५॥मदलीला हलिनेव स्तनयुगलेनेव हारलता ।रम्यापि सा सुगात्री रम्यतरा भवतु संगता भवता ॥१३६॥किं बहुना यदि यूनामुपरि विधातुं समीहसे चरणम् ।तत्कुरु रमणीरत्नं प्रेमोज्ज्वलमङ्कतस्तूर्णम् ॥१३७॥अथ तद्वचनश्रवणप्रविजृम्भितमदनभट्टदायादः ।उपचरणीयः सुन्दरि निजवसतिमुपागतस्त्वयाप्येवम् ॥१३८॥दूरादभ्युत्थानं प्रणमनमात्मासनप्रदानं च ।प्रविधेयमञ्चलेन प्रस्फोटनमङ्घ्रियुगलस्य ॥१३९॥ईषदयत्नप्रकटं कक्षोदरबाहुमूलकुचभागम् ।संदर्श्य झटिति यास्यसि नायकदृग्गोचरात्तूर्णम् ॥१४०॥अथ पर्यङ्कसनाथं दीपोज्ज्वलकुसुमधूपगन्धाढ्यम् ।विततवितानकरम्यं प्रवेशितो वासकावासम् ॥१४१॥मात्रा ते गुरुजघने सादरमवतारणादिकं कृत्वा ।अभिनन्दनीय एभिर्वचनविशेषैः प्रयत्नेन ॥१४२॥अद्याशिषः समृद्धाः परितुष्टा इष्टदेवता अद्य ।कल्याणालङ्कारो यदलङ्कृतवानिदं वेश्म ॥१४३॥अनुरूपपात्रघटनं कुर्वाणस्याद्य कुसुमबाणस्य ।सुचिराद्बत संजातः शरासनाकर्षणश्रमः सफलः ॥१४४॥विन्यस्य शिरसि चरणं सुभगा गणिकाजनस्य सकलस्य ।सौभाग्यवैजयन्तीं सम्प्रति वत्सा समुत्क्षिपतु ॥१४५॥दुहितर एव श्लाघ्या धिग्लोकं पुत्रजन्मसंतुष्टम् ।जामातर आप्यन्ते भवादृशा यदभिसम्बन्धात् ॥१४६॥दृढपरिचया गुणज्ञा भवद्विधा नार्थनार्हका यदपि ।तदपि हृदयाभिनन्दन दुहितृस्नेहादहं वच्मि ॥१४७॥सहजप्रेमोपहृता न्यस्ता त्वयि मालती तथा कार्यम् ।न यथा भवति वराकी त्वद्विप्रियजन्मनां शुचां वसतिः ॥१४८॥मृदुधौतधूपिताम्बरमग्राम्यं मण्डनं च बिभ्राणा ।परिपीतधूपवर्तिः स्थास्यसि रमणान्तिके सुतनु ॥१४९॥सस्नेहं सव्रीडं ससाध्वसं सस्पृहं च पश्यन्ती ।किं चिद्दृश्यशरीरा प्रविरलपरिहासपेशलालापा ॥१५०॥मातरि निर्यातायां परिजनमुक्ते च वासकस्थाने ।अभियुञ्जाने रमणे वामाचरणं क्षणं कार्यम् ॥१५१॥रतिसंगरनिहितमतावाकर्षति रभसतः पुरस्तस्मिन् ।कुट्टमितमाचरन्ती जनयिष्यसि किं चिदङ्गसंकोचम् ॥१५२॥प्रारब्धे सुरतविधौ क्रमदर्शितचित्तयोनिसंवेगा ।अपशङ्कमर्पयिष्यसि निर्व्याजं पुत्रि गात्राणि ॥१५३॥यद्यद्वाञ्छति हन्तुं यद्दंष्टुं यच्च विलिखितुं गात्रम् ।तत्तदपसारणीयं सावेगं ढौकनीयं च ॥१५४॥दंशे सव्यथहुङ्कृतिमामर्दे विविधकण्ठरसितानि ।नखविलिखने च सीत्कृतमाघातेषूल्बणं क्वणितम् ॥१५५॥ह्रस्वायासश्वासान्मुञ्चन्ती पुलकदन्तुरशरीरा ।स्विद्यत्सर्वावयवा प्रकरिष्यसि रागवृद्धये पुंसाम् ॥१५६॥परभृतलावकहंसकपारावततुरगहृदयनिःस्वनितम् ।अनुकार्यमुचितकाले कलकण्ठरुतैस्त्वया रसतः ॥१५७॥मा मा मामतिपीडय मुञ्च क्षणमदय नो समर्थास्मि ।इति गद्गदास्फुटाक्षरमभिधातव्यस्त्वया कामी ॥१५८॥अनुबन्धमानुकूल्यं वामत्वं प्रौढतामसामर्थ्यम् ।सुरतेषु दर्शयिष्यसि कामुकभावं स्फुटं बुद्ध्वा ॥१५९॥असमञ्जसमश्लीलं दूरोज्झितधैर्यमविनयप्रसरम् ।व्यवहारमाचरिष्यसि वृद्धिमुपेते रतावेगे ॥१६०॥अविवेचितनखरक्षतिरामीलितलोचना निरुत्साहा ।नायककार्यसमाप्तौ स्थास्यसि शिथिलीकृतावयवा ॥१६१॥झगिति नितम्बावरणं निःसहतनुतां स्मितं सवैलक्ष्यम् ।खेदालसां च दृष्टिं जनयिष्यसि मोहनच्छेदे ॥१६२॥वृत्ते रताभियोगे स्पृष्ट्वा सलिलं विकृष्टभूभागे ।प्रक्षाल्य पाणिपादं स्थित्वा क्षणमासने समूह्य कचान् ॥१६३॥उपयुक्तवदनवासा शय्यामारुह्य दर्शितप्रणया ।इति वक्ष्यसि तं रमणं दृढतरमालिङ्ग्य रभसतः कण्ठे ॥१६४॥भट्टसुत नूनमिष्टा तव जाया यदनुरक्तहृदयस्य ।जनयति परितुष्टिमलं नापररामापरिष्वङ्गः ॥१६५॥सफलं तस्या जन्म स्पृहणीया सैव सकलललनानाम् ।ङौरी तयैव महिता सुभगङ्करणं तपस्तयाचरितम् ॥१६६॥सैवैका गुणवसतिस्तस्या एवान्वयः सदा श्लाघ्यः ।यस्याः शुभशतभाजः पाणिग्रहणं त्वया विहितम् ॥१६७॥तिष्ठतु सा पुण्यवती वंशद्वयभूषणं वरारोहा ।या नापयाति भवतो ऌअक्ष्मीरिव नरकवैरिणो हृदयात् ॥१६८॥पातयसि कुवलयनिभे कौतुकमात्रेण लोचने यासु ।ता अपि सत्यं सुन्दर हर्षोल्लसिता न मान्ति गात्रेषु ॥१६९॥तनुरपि नाथप्रणयः प्रायो मुखरीकरोति लघुमनसः ।स्वार्थनिवेशितचित्ता करोमि तेऽभ्यर्थनां तेन ॥१७०॥तीव्रस्मरतारुण्याच्चापलतः कौतुकेन घृणया वा ।मद्भाग्यसम्पदा वा दूत्या वा कौशलात्स्वभावाद्वा ॥१७१॥योऽयं प्रेमलवांशः प्रदर्शितोऽस्मासु जीवनोपायः ।बाधा नात्र विधेया गणिकाजनवृत्तमन्यथा बुद्ध्वा ॥१७२॥येन स्नेहः क्रोधः शाठ्यं दाक्षिण्यमार्जवं व्रीडा ।एतानि सन्ति तास्वपि जीवद्धर्मोपनीतानि ॥१७३॥निर्व्याजसमुत्पन्नप्रबलप्रेमाभिभूतहृदयानाम् ।दयितविरहाक्षमाणां गणिकानां तृणसमाः प्राणाः ॥१७४॥अत्राकर्णय साद्भुतमाख्यानं वर्णयामि यद्वृत्तम् ।अद्यापि बिभर्ति वटो विशेषणं यदभिसम्बन्धात् ॥१७५॥अस्ति महीतलतिलकं सरस्वतीकुलगृहं महानगरम् ।नाम्ना पाटलिपुत्रं परिभूतपुरन्दरस्थानम् ॥१७६॥त्रिभुवनपुरनिष्पादनकौशलमिव पृच्छतो विरिञ्चस्य ।दर्शयितुं निजशिल्पं वर्णकमिव विश्वकर्मणा विहितम् ॥१७७॥अश्रेयोभिरनाश्रितमभिभूतं नाभिभूतिदोषेण ।न स्वीकृतमुपसर्गैः कलिकालमलैरनालीढम् ॥१७८॥पातालतलं भोगिभिरम्भोधिर्वारिरत्ननिचयैश्च ।सुरसदनं विबुधगणैर्द्रविणोपचयैः पुरं कुवेरस्य ॥१७९॥रमणीभिरसुरविवरं कटकं हेमाचलस्य गान्धर्वैः ।रिनगरं क्रतुयूपैः शमविभवैर्मुनिजनस्थानम् ॥१८०॥तिष्ठन्तु सकलशास्त्रव्यालोचनविमलबुद्धयो विप्राः ।सदसद्गुणनिर्णीतौ ललना अपि निकषभूमयो यस्मिन् ॥१८१॥कलिकालोदितभीत्या क्रतुहुतवहधूमकम्बलावरणः ।तिष्ठन्निभृतोऽपि कृतश्चरितैरनुमीयते यस्मिन् ॥१८२॥अपहरति पिधातुमिव स्वकलङ्कं शशधरः प्रसार्य करान् ।रात्रौ यत्र वधूनां लावण्यं वदनकोषेभ्यः ॥१८३॥तिमिरपटलासिताम्बरमपहरदभिसारिकाजनौघस्य ।निजतनुकान्तिवितानं वल्लभसम्भोगविहतये यस्मिन् ॥१८४॥यत्र नितम्बवतीनां विचलन्नयनान्तशितशरैर्व्रणितः ।शिथिलयति पथिकलोकः स्वकलत्रसमागमोत्कण्ठाम् ॥१८५॥यत्र च कुलमहिलानामल्पत्वं वचसि पाणिपादे च ।स्वच्छत्वमाशयेषु व्यालोलविशालनेत्रे च ॥१८६॥पीनपयोधरभारे घनता जीवेशसहजरागे च ।कुलदेवतार्चनविधौ वलिशोभा मध्यभागे च ॥१८७॥गम्भीरता स्वभावे चेतोभवबाणतूणनाभौ च ।विस्तीर्णता नितम्बे गुरुजनपूजानुरक्तचित्ते च ॥१८८॥हरिणायतेक्षणानां विच्छित्तिः कोषहरणमब्जेषु ।कुटिलत्वमलकपङ्क्तौ बालानां कामचेष्टितं यत्र ॥१८९॥संयमनमिन्द्रियाणामिनोपघातग्रहस्तमिस्रस्य ।स्तब्धत्वं सालतरौ हारलता तरलसंगता यस्मिन् ॥१९०॥भुजगाः पररन्ध्रदृशः खण्ड्यन्ते प्रियतमाधरा यत्र ।सूचीव्यथानुभूतिर्नृत्याभ्यासप्रवृत्तानाम् ॥१९१॥नतवपुरप्यतिसरला मन्थरगमनापि नर्मदा यस्मिन् ।गुरुजनशास्त्ररतापि स्वभावमुग्धाङ्गनाजनता ॥१९२॥तस्मिन्मखशतपूतः पुरुहूत इव द्विजन्मनां प्रवरः ।गुरुरिव विद्यावसतिर्वसति स्म पुरन्दरो नाम्ना ॥१९३॥धर्मात्मजस्य सत्यं त्रिपुररिपोर्विजितकुसुमचापत्वम् ।रिनाभिपङ्कजभुवो विजितेन्द्रियतां जहास यः सततम् ॥१९४॥न्यक्कृतवृष इति शर्वे याचक इति कौस्तुभाभरणे ।पीडितवसुधासुत इति कपिले न बभूव यस्य बहुमानः ॥१९५॥मार्गानुसृतौ लुब्धो यः प्राणिवपुर्विनाशविमुखोऽपि ।परिहृतपरदारोऽपि स्वाकाङ्क्षितगुरुजनप्रमदः ॥१९६॥यस्यान्वये महीयसि सरसीव समस्तसत्त्वनिजवसतौ ।सच्चरितजन्मभूमौ विनिवारितकलिमलप्रसरे ॥१९७॥पितृतर्पणप्रसङ्गे खड्गग्रहणं न शौर्यदर्पेण ।त्रुटनं मेखलिकानां वटुकजने नो रताजिसंमर्दे ॥१९८॥श्रुतिभेदेषु विवादो नो रिक्थविभागमन्युना जनितः ।तेजस्विता हविर्भुजि न शमैकरतेषु भूमिदेवेषु ॥१९९॥जरतामेव स्खलनं जपतामेवाधरस्फुरणम् ।यजतामेव समिध्रुचि रेणाजिन एव कृष्णसम्पर्कः ॥२००॥तस्याभूत्सकलकलोद्भासितपक्षद्वयस्य सुत एकः ।नाम्ना सुन्दरसेनः कच इव वचसामधीशस्य ॥२०१॥पशुपतिनयनहुताशनभस्मितमवधार्य यं वपुष्मन्तम् ।अपरमिव कुसुमचापं रतिरतये निर्ममे ढाता ॥२०२॥तिष्ठन्तु तावदन्याः कुलललना यस्य रूपमवलोक्य ।सापि महामुनिदयिता कृच्छ्रेण ररक्ष चारित्रम् ॥२०३॥कलधौतफलकशोभां बिभ्राणं यस्य पृथुतरं वक्षः ।दृष्ट्वा चिराय ऌअक्ष्मीर्हरिहृदये दुःस्थितं मेने ॥२०४॥कथमीदृग्यदि न कृतः शशिशकलैरथ कृतः कथं व्यथकः ।इत्थं यमीक्षमाणो निर्णयमगमन्न कामिनीसार्थः ॥२०५॥यो जग्राह हिमांशोः प्रसन्नमूर्तित्वमचलतः स्थैर्यम् ।जलधरत उन्नतत्वं गाम्भीर्यं यादसां पत्युः ॥२०६॥यो विनयस्य निवासो वैदग्ध्यस्याश्रयः स्थितेः स्थानम् ।प्रियवाचामायतनं निकेतनं साधुचरितस्य ॥२०७॥यो मदनः प्रमदानां तुहिनकरः साधुकुमुदषण्डस्य ।निकषोपलो गुणानां मार्गतरुः पथिकलोकस्य ॥२०८॥सज्जनगोष्ठीनिरतः काव्यकथासारनिकषपाषाणः ।प्रणयिजनकल्पवृक्षो लक्ष्मीलीलाविहारभूमिश्च ॥२०९॥जलधिरिव तुहिनभासः सहवृद्धिपरिक्षयः सुहृत्तस्य ।सकलोपधाविशुद्धो बभूव ङुणपालितो नाम्ना ॥२१०॥तेन समं स कदा चित्तिष्ठन्रहसि प्रसङ्गतः पतिताम् ।केनापि गीयमानामशृणोदार्यामिमां सहसा ॥२११॥देशान्तरेषु वेषस्वभावभणितानि ये न बुध्यन्ते ।समुपासते न च गुरून्विषाणविकलास्त उक्षाणः ॥२१२॥आकर्ण्याथ तमूचे वचनमिदं सुन्दरः सुहृन्मुख्यम् ।शोभनमेतद्गीतं ङुणपालित साधुनानेन ॥२१३॥साधूनामाचरितं खलचेष्टां विविधलोकहेवाकान् ।नर्म विदग्धैर्विहितं कुलटाजनवक्रकथितानि ॥२१४॥गुरुगूढशास्त्रचर्चां विटवृत्तं धूर्तवञ्चनोपायान् ।वारिधिपरिखां पृथ्वीं जानाति परिभ्रमन्पुरुषः ॥२१५॥अत उत्सृज्य गृहस्थितिसुखलेशं विविधलाभपरिणामे ।स्थापय गमनारम्भे वयस्य हृदयं मया सहितः ॥२१६॥इत्थं निगदितवन्तं सुहृदुत्तरलाभलालसात्मानम् ।ऊचे सुन्दरसेनं लज्जित इव सहचरो वचनम् ॥२१७॥अभ्यर्थनानुबन्धो लज्जाकर एव मादृशां किं तु ।आकर्णय कथयामः पथिकानां यानि दुःखानि ॥२१८॥कर्पटकावृतमूर्तिर्दूराध्वपरिश्रमावसितशक्तिः ।पांसूत्करधूसरितो दिनावसाने प्रतिश्रयाकाङ्क्षी ॥२१९॥मातर्भगिनि दयां कुरु मा मैवं निष्ठुरा भव तवापि ।कार्यवशेन गृहेभ्यो निर्यान्ति भ्रातरश्च पुत्राश्च ॥२२०॥किं वयमुत्पाट्य गृहं प्रातर्गन्तार ईदृगेव सताम् ।भवति निवासो यस्मिन्निज इव पथिकाः प्रयान्ति विश्रामम् ॥२२१॥अद्य रजनीं नयामो यथा कथं चित्त्वदाश्रये मातः ।अस्तङ्गतो विवस्वान्वद सम्प्रति कुत्र गच्छामः ॥२२२॥इति बहुविधदीनवचाः प्रतिगेहं द्वारदेशमधितिष्ठन् ।निर्भर्त्स्यते वराको गृहिणीभिरिदं वदन्तीभिः ॥२२३॥न स्थित इह गेहपतिः किं रटसि वृथा प्रयाहि देवकुलम् ।कथितेऽपि नापगच्छति पश्य मनुष्यस्य निर्बन्धम् ॥२२४॥अथ यदि कथं चिदपरः पुनः पुनर्याचितो गृहस्वामी ।निर्दिशति सावधीरणमत्र स्वपिहीति शीर्णगृहकोणे ॥२२५॥तत्र कलहायमाना तिष्ठति गृहिणी विभावरीप्रहरम् ।अज्ञाताय किमर्थं वासो दत्तस्त्वयेति सह भर्त्रा ॥२२६॥ईदृगयं सरलात्मा किं कुरुषे भगिनि तावको भर्ता ।स्थास्यसि गेहेऽवहिता भ्रमन्ति खलु वञ्चका एवम् ॥२२७॥इति भाजनादियाच्ञां बुद्धौ विनिधाय निकटवर्तिगृहात् ।नारी समभ्युपेता ब्रूते तामाप्तभावेन ॥२२८॥गृहशतमधिकमटित्वा कलमकुलत्थाणुचणमसूरादि ।एकीभूतं भुङ्क्ते क्षुधोपतप्तोऽध्वगो भैक्षम् ॥२२९॥परवशमशनं वसुधां शयनीयं सुरनिकेतनं सद्म ।पथिकस्य विधिः कृतवानुपधानकमिष्टकाखण्डम् ॥२३०॥इति निगदितवति तस्मिन्षुन्दरसेनस्य चोत्तरावसरे ।इयमुपगीता गीतिः केनापि कथाप्रसङ्गेन ॥२३१॥निजवरभवनं सुरगृहमुर्वीतलमतिमनोहरं शयनम् ।कदशनममृतमभीप्सितकार्यैकनिविष्टचेतसां पुंसाम् ॥२३२॥समुपश्रुत्य च सुहृदं पौरन्दरिरिदमुवाच परितुष्टः ।मम हृदयगतं प्रकटितमेतेन सतैव भवतु गच्छावः ॥२३३॥अथ सहचरद्वितीयः क्लेशसमुद्रावतरणकृतचित्तः ।निरगात्सुन्दरसेनः कुसुमपुरादविदितः पित्रा ॥२३४॥पश्यन्विदग्धगोष्ठीरभ्यस्यन्नायुधानि सकलानि ।शास्त्रार्थानवगच्छन्विलोकयन्कौतुकानि विविधानि ॥२३५॥जानन्पत्रछेदनमालेख्यं सिक्थपुस्तकर्माणि ।नृत्यं गीतोपचितं तन्त्रीमुरजादिवाद्यभेदांश्च ॥२३६॥बुध्यन्वञ्चकभङ्गीर्विटकुलटानर्मवक्रकथितानि ।बभ्राम सुहृत्सहितः सुन्दरसेनो महीमखिलाम् ॥२३७॥अथ विदितसकलशास्त्रो विज्ञाताशेषजनसमाचरणः ।निजगृहगमनाकाङ्क्षी स शिलोच्चयमर्बुदं प्राप ॥२३८॥तत्पृष्ठदेशदर्शनलोलमलं सुन्दरं परिज्ञाय ।ङुणपालितो बभाषे विलोक्यतामद्रिराज इति ॥२३९॥एष सुतः सानुतटस्यन्दच्छीताच्छसलिलसम्पन्नः ।लोकानुकम्पयेव प्रालेयमहीभृता मरौ न्यस्तः ॥२४०॥शिशिरकरकान्तमौलिः कटकस्थितपवनभोजनः सगुहः ।विद्याधरोपसेव्यो बिभर्ति लक्ष्मीमयं शम्भोः ॥२४१॥अत्र तरुशिखरसंगतसुमनस इति जातनिश्चयो मन्ये ।अभिलषति समुच्चेतुं तारा निशि मुग्धकामिनीसार्थः ॥२४२॥आश्चर्यं यदुपान्ते तिष्ठन्त्येतस्य सप्त मुनयोऽपि ।अथवा कस्याकर्षं न करोति समुन्नतिर्महताम् ॥२४३॥अवगत्य निरवलम्बनमम्बरमार्गं पतङ्गतुरगाणाम् ।अयमवनिधरो मन्ये विश्रान्त्यै वेधसा विहितः ॥२४४॥इममाश्रित्य हिमांशोरोषधयः संनिकर्षमुपयाताः ।प्रत्यासत्तिः प्रभुणा प्रायोऽनुग्राहकवशेन ॥२४५॥सेक्तुमिवाशाकरिणो विसृजत्ययमवनिधरणपरिखिन्नान् ।निर्झरसलिलकणौघान्भवति हि सौहार्दमेककार्याणाम् ॥२४६॥हारीताहृतशोभो मुदितशुको व्यासयोगरमणीयः ।विश्रान्तभरद्वाजः समतामयमेति मुनिनिवासस्य ॥२४७॥अस्मिन्निःसङ्गा अपि परलोकप्राप्त्युपायकृतयत्नाः ।गन्धवहभोजना अपि न हिंसकाः फलभुजोऽपि न प्लवगाः ॥२४८॥शुभकर्मैकरता अपि षट्कर्माणो यता अपि स्ववशाः ।अनभिमतरौद्रचरिताः शिवप्रिया अपि वसन्ति शमनिरताः ॥२४९॥मूर्तिरिव शिशिररश्मेर्हरिणवती सप्तपत्रकृतशोभा ।सरणिरिव चण्डभासः पलाशिनी यातुधानजायेव ॥२५०॥सोत्कण्ठेव समदना वासकसज्जेव तिलकपरिभूषा ।धवहरिपीलुसनाथा नरनाथद्वारभूमिरिव ॥२५१॥आर्जुनबाणव्रातैः कुरुनाथवरूथिनीव संछन्ना ।रक्षसहस्रोपचिता लक्ष्मीरिव गगनदेशस्य ॥२५२॥ध्वजिनीव डानवानां रिष्टकसमधिष्ठिता त्रियामेव ।उद्द्योतरोहिणीका रम्येयमुत्पत्यका भाति ॥२५३॥इति दर्शयति वयस्ये सुन्दरसेने च पश्यति प्रीत्या ।स्वप्रस्तावोपगता गीतिरियं केन चिद्गीता ॥२५४॥अतिशयितनाकपृष्ठं पृष्ठं ये नार्बुदस्य पश्यन्ति ।बहुविषयपरिभ्रमणं मन्ये क्लेशाय केवलं तेषाम् ॥२५५॥आकर्ण्य च स बभाषे महात्मनानेन युक्तमुपगीतम् ।शिखरिशिरः पश्यामो वयस्य रम्यं समारुह्य ॥२५६॥अथ गिरिवरमारूढो विलोकयन्विविधविबुधभवनानि ।वापीरुद्यानभुवः सरांसि सरितश्चचार विस्मेरः ॥२५७॥अचिराभामिव विघनां ज्योत्स्नामिव कुमुदबन्धुना विकलाम् ।रतिमिव मन्मथरहितां श्रियमिव हरिवक्षसः पतिताम् ॥२५८॥हस्तोच्चयं विधातुः सारं सकलस्य जन्तुजातस्य ।दृष्टान्तं रम्याणामस्त्रं संकल्पजन्मनो जैत्रम् ॥२५९॥विकसितकुसुमसमृद्धिं शृङ्गाररसापगैककलहंसीम् ।लीलापल्लववल्लीं व्रतिनामवधानवर्मणां भल्लीम् ॥२६०॥विचरन्नुपवनमण्डपपुष्पप्रकराभिरामभूपृष्ठे ।रममाणां सह सख्या ललनामालोकयामास ॥२६१॥अवलोकयतस्तस्य स्मरमार्गणवेध्यतामुपेतस्य ।इदमासीन्मनसि चिरं विस्मयभाराभिभूयमानस्य ॥२६२॥क्वेदं खलु विश्वसृजः कौशलमत्यद्भुतं समुपजातम् ।येन विरुद्धानामपि घटितैकत्र स्थितिस्तथा हीयम् ॥२६३॥ललितवपुर्निर्दोषा स्फुरदुज्ज्वलतारकाभिरामा च ।निर्वाच्यवदनकमला जितवीणाक्वणितवाणी च ॥२६४॥संविहितविग्रहस्थितिरतिशोभनघटितसन्धिबन्धा च ।उन्नतपयोधराढ्या शरदिन्दुकरावदाता च ॥२६५॥अभिमतसुगतावस्थितिरभिनन्दितचरणरचना च ।अतिविपुलजघनदेशा विध्वस्तशरीरविहितशोभा च ॥२६६॥आविर्भवदनुरागे तस्मिन्नथ वलितलोचना सहसा ।सापि बभूव मृगाक्षी हस्तगता कुसुमचापस्य ॥२६७॥तरुमूलमाश्रिताया विस्मृतसकलान्यकर्मणः सपदि ।तस्या गात्रलतायामङ्कुरितं सात्त्विकैर्भावैः ॥२६८॥सैवोपवनसमृद्धिस्तस्मिन्नेव क्षणे स्मरं स्मृत्वा ।तां व्यथयितुमारेभे प्रभोर्हि कृत्यं करोति खलु सर्वः ॥२६९॥गात्रसरसेन्धनेभ्यः प्रस्वेदजलं विनिर्ययौ तस्याः ।अन्तर्ज्वलितमनोभवहव्यभुजा दह्यमानेभ्यः ॥२७०॥कुसुमशरजालपतिता मुहुर्मुहुर्विदधती विवृत्तानि ।अनिमेषं पश्यन्ती मत्स्यवधूमनुचकार सा तन्वी ॥२७१॥स्तब्धतनुं सोत्कम्पां पुलकवतीं स्वेदिनीं सनिःश्वासाम् ।विदधे तामसमशरः क्रीडति हि शठो विशिष्टमासाद्य ॥२७२॥उच्छ्वासैरुल्लसनं कुचयुगले सौष्ठवं विलासानाम् ।अभिलषितेन प्रेम्णा स्निग्धत्वं चक्षुषोर्मनोहारि ॥२७३॥अनुरक्त्या वदनरुचिं वचसि च गमने च साध्वसस्खलनम् ।तस्या मदनः कुर्वन्नुपनिन्ये चारुतामधिकाम् ॥२७४॥पार्श्वगतेऽपि प्रेयसि कामशरासारताड्यमानापि ।न शशाक साभिधातुं चित्तगतं प्रणयभङ्गतो भीता ॥२७५॥अथ विदितचित्तवृत्तिः सक्तदृशं प्रियतमे समाकृष्य ।मदनेन दह्यमानां विहसितविशदं जगाद तामाली ॥२७६॥अयि हारलते संहर हरहुङ्कृतिदग्धदेहसंक्षोभम् ।सद्भावजानुरक्तिर्न हि पण्यं पण्यनारीणाम् ॥२७७॥अवधीरय धनविकलं कुरु गौरवमकृशसम्पदः पुंसः ।अस्मादृशां हि मुग्धे धनसिद्ध्यै रूपनिर्माणम् ॥२७८॥अभिरामेऽभिनिवेशं विदधाना विभवलाभनिरपेक्षा ।उपहस्यसे सुमध्ये विदग्धवाराङ्गनावारैः ॥२७९॥येषां श्लाघ्यं यौवनमभिमुखतामुपगतो विधिर्येषाम् ।फलितं येषां सुकृतं जीवितसुखितार्थिता येषाम् ॥२८०॥तेऽवश्यं स्वयमेव त्वामनुबध्नन्ति मदनशरभिन्नाः ।न हि मधुलेहाः सुन्दरि मृग्यन्ते चूतमञ्जर्या ॥२८१॥इति गदितवतीमालीं कामशरासारभिन्नसर्वाङ्गी ।अव्यक्तस्खलिताक्षरमूचे कृच्छ्रेण हारलता ॥२८२॥सखि कुरु तावद्यत्नं बहुमतमतिवेदनाप्रतीकारे ।क्रोडीकृता विपत्त्या न भवन्त्युपदेशयोग्या हि ॥२८३॥अस्वायत्तः प्रेयान्मृदुपवनः सुरभिकुसुममुद्यानम् ।इयती खलु सामग्री भवति क्षीणायुषामेव ॥२८४॥मत्वा मदनाशीविषविषवेगाकुलितविग्रहामालीम् ।समुपेत्य शशिप्रभया पौरन्दरिरभिदधे कृतप्रणतिः ॥२८५॥यदि नाम रुणद्धि गिरं गणिकाभावोपजनितवैलक्ष्यम् ।तदपि कथितव्यमेव स्निग्धापदि न हि निरूप्यते युक्तम् ॥२८६॥एतावति संसारे परिगणिता एव ते सुजन्मानः ।आपत्सु परित्राणव्याकुलमनसां स्फुरन्ति ये बुद्धौ ॥२८७॥यस्मिन्नेव मुहूर्ते चक्षुर्विषयं गतोऽसि मम सख्याः ।तत एवारभ्य गता विधेयतां दग्धमदनस्य ॥२८८॥रोमोद्गमसंनहनं भित्त्वान्तर्विग्रहं परापतिताः ।तस्या मानससम्भवकोदण्डविनिःसृता इषवः ॥२८९॥किं विदधातु वराकी कुत्र समाश्वसितु यातु कं शरणम् ।पीडयति भृशं यस्या नित्यशुचिर्दक्षिणो मृदुः पवनः ॥२९०॥वचसि गते गद्गदतामुज्झितमौनव्रताश्चिराय पिकाः ।हृष्टा व्यथयन्ति सखीं जातावसरा निरर्गलं विरुतैः ॥२९१॥स्खलिताकुलिते गमने तन्वङ्ग्या अगणितश्रमा हंसाः ।सुचिराल्लब्धावसराः कुर्वन्ति गतागतानि परितुष्टाः ॥२९२॥उष्णोच्छ्वसितसमीरैर्विदह्यमानोऽपि मधुकरस्तस्याः ।अलककुसुमं न मुञ्चति कृच्छ्रेष्वपि दुस्त्यजा विषयाः ॥२९३॥नो वारयसि तथा मां साम्प्रतमिति कथयतीव मधुलेहः ।निःसहवपुषः कर्णे श्रुतिपूरकपुष्पसंगतो गुञ्जन् ॥२९४॥प्रशिथिलभुजलतिकातस्तस्याः पतितस्य हेमकटकस्य ।यत्प्रापणं पृथिव्यास्तस्मिन्खलु मुक्तहस्तता हेतुः ॥२९५॥रशनागुणेन विगलितमेकपदे तन्नितम्बतश्चित्रम् ।पतनाय नियतमथवा निषेवणं गुरुकलत्रस्य ॥२९६॥अङ्गीकृत्य मनोभवमुरसि तथा लालितोऽपि हतहारः ।तापयति सखीं तत्क्षणमन्तर्भिन्नात्कुतः कुशलम् ॥२९७॥वाससितं स्वेदजलं कज्जलमलिनाश्रुवारिणा मिश्रम् ।कुचतटपतितं तस्याः प्रयागसम्भेदसलिलमनुकुरुते ॥२९८॥पिकरुतमलयसमीरणसुमनःस्मरभृङ्गदहनपरिकरिता ।पञ्चतपश्चरति भवत्परिरम्भणसौख्यलम्पटा बाला ॥२९९॥न परां पतति वराकी दशमीं यावन्मनोभवावस्थाम् ।त्रायस्व सुभग तावच्छरणागतरक्षणं व्रतं महताम् ॥३००॥अथ तद्वचसि कृतादरमुद्भूतमनोभवं समवधार्य ।अवगीतिभीतचेता ऊचे ङुणपालितः सुहृदम् ॥३०१॥यद्यपि मारप्रसरो दुर्वारः प्राणिनां नवे वयसि ।चिन्त्यं तदपि विवेकिभिरवसानं वेशयोषितां प्रेम्णः ॥३०२॥वारस्त्रीणां विभ्रमरागप्रेमाभिलाषमदनरुजः ।सहवृद्धिक्षयभाजः प्रख्याताः सम्पदः सुहृदः ॥३०३॥ताभिरवदातजन्मा कुर्वीत समागमं कथं यासाम् ।क्षणदृष्टोऽपि प्रणयी रूढप्रणयोऽपि जन्मनोऽपूर्वः ॥३०४॥प्रद्युम्नः प्रद्युम्नो विरूपकः खलु विरूपकः सततम् ।सुस्निग्धः सुस्निग्धो रूक्षो रूक्षस्तु गणिकानाम् ॥३०५॥यासां जघनावरणं परकौतुकवृद्धये न तु त्रपया ।उज्ज्वलवेषा रचना कामिजनाकृष्टये न तु स्थितये ॥३०६॥मांसरसाभ्यवहारः पुरुषाहतिपीडया न तु स्पृहया ।आलेख्यादौ व्यसनं वैदग्ध्यख्यातये न तु विनोदः ॥३०७॥रागोऽधरे न चेतसि सरलत्वं भुजलतासु न प्रकृतौ ।कुचभारेषु समुन्नतिराचरणे नाभिनन्दितेऽसद्भिः ॥३०८॥जघनस्थलेषु गौरवमाकृष्टधनेषु नो कुलीनेषु ।अलसत्वं गमनविधौ नो मानववञ्चनाभियोगेषु ॥३०९॥वर्णविशेषापेक्षा प्रसाधने नो रतिप्रसङ्गेषु ।ओष्ठे मदनासङ्गो नो पुरुषविशेषसम्भोगे ॥३१०॥या बालेऽपि सरागा वृद्धेष्वपि विहितमन्मथावेशाः ।क्लीबेष्वपि कान्तदृशः साकाङ्क्षा दीर्घरोगेऽपि ॥३११॥स्वेदाम्बुकणोपचिता अनार्द्रतानिजनिवासमनसश्च ।आविष्कृतवेपथवो वज्रोपलसारकठिनाश्च ॥३१२॥जघनचपला अनार्याः परभृतयः कृतकनेत्ररागाश्च ।सर्वाङ्गार्पणदक्षा असमर्पितहृदयदेशाश्च ॥३१३॥नकुलसमुत्पन्ना अपि भुजङ्गदशनकृतवेदनाभिज्ञाः ।कन्दर्पदीपिका अपि रहिताः स्नेहप्रसङ्गेन ॥३१४॥उज्झितवृषयोगा अपि रतिसमये नरविशेषनिरपेक्षाः ।कृष्णैकाभिरता अपि हिरण्यकशिपुप्रियाः सततम् ॥३१५॥मेरुमहीधरभुव इव किम्पुरुषसहस्रसेवितनितम्बाः ।नीतय इव भूमिभृतां सुपरिहृतानर्थसंयोगाः ॥३१६॥बहुमित्रकरजदारणलब्धाभ्युदयाः सरोरुहिण्य इव ।डाकिन्य इव च रक्तव्याकर्षणकौशलोपेताः ॥३१७॥प्रतिपुरुषं संनिहिताः कृत्यपरा विविधविकरणोपचिताः ।बहुलार्थग्राहिण्यः प्रकृतय इव दुर्ग्रहा गणिकाः ॥३१८॥सादरमाश्लिष्य चिरं कुसुमस्तबकं च नरविशेषं च ।रिक्तीकर्तुं निपुणं क्षुद्राः क्षुद्राश्च चुम्बन्ति ॥३१९॥परमार्थकठोरा अपि विषयगतं लोहकं मनुष्यं च ।चुम्बकपाषाणशिलाः रूपाजीवाश्च कर्षन्ति ॥३२०॥पुरुषाक्रान्ताः सततं कृत्रिमशृङ्गाररागरमणीयाः ।आहन्यमानजघनाः करेणवो वारयोषाश्च ॥३२१॥उचितगुणोत्क्षिप्ता अपि पुरतो विनिवेशिते सुवर्णलवे ।झगिति पतन्ति मुखेन प्रकटप्रमदाः कलाधिकाश्च तुलाः ॥३२२॥बहिरुपपादितशोभा अन्तस्तुच्छाः स्वभावतः कठिनाः ।दास्यः समुद्गिका इव मणन्ति यन्त्रप्रयोगेण ॥३२३॥बध्नन्ति येऽनुरागं दैवहतास्तासु वारवनितासु ।ते निःसरन्ति नियतं पाणिद्वयमग्रतः कृत्वा ॥३२४॥इत्युपदिशति वयस्ये सुन्दरसेने च मन्मथव्यथिते ।आवादुपयातं गीतित्रयमभ्यधायि केनापि ॥३२५॥तरुणीं रमणीयाकृतिमुपनीतां स्मृतिभुवा वशीकृत्य ।परिहरति यो जडात्मा प्रथमोऽसौ नालिको विना भ्रान्तिम् ॥३२६॥इदमेव हि जन्मफलं जीवितफलमेतदेव यत्पुंसाम् ।लडहनितम्बवतीजनसम्भोगसुखेन याति तारुण्यम् ॥३२७॥सुमनोमार्गणदहनज्वालावलिदह्यमानसर्वाङ्ग्यः ।प्रबलप्रेमप्रवणाः प्रमदाः स्पृहयन्ति नाल्पपुण्येभ्यः ॥३२८॥एवमुपश्रुत्य वचः समुवाच पुरन्दरात्मजः सुहृदम् ।मम हृदयादिव कृष्ट्वा गीतमिदं साधुनानेन ॥३२९॥तदतनुसायकविकलां हारलतां हरिणशावतरलाक्षीम् ।आश्वासयितुं यामो गुणपालित किं विकल्पितैर्बहुभिः ॥३३०॥अथ यत्र कापि गणिका गणयन्ती परिचितं हृतद्रविणम् ।प्रविशन्तमेव मन्दिरमीर्ष्याव्याजेन निरुरोध ॥३३१॥का चिद्वञ्चकदत्तं लुण्डीकृतजीर्णवसनमवलोक्य ।वेश्या विषीदति स्म क्षपाक्षये वृत्तकर्तव्या ॥३३२॥दैवस्मृत्या पतितं दृष्टिपथं भग्नमूल्यविटमेका ।ज्वलिता रुषा भुजिष्या जग्राह जवेन धावित्वा ॥३३३॥अन्तःस्थितकामिगृहद्वारगतं लुप्तवित्तनरमन्या ।समुवाच कुट्टनी व्रज कल्लोलाकल्पदेहेति ॥३३४॥प्रकटितदशननखक्षतिरभिदधती राजपुत्ररतियुद्धम् ।अपरा पुरः सखीनां वारवधूराततान सौभाग्यम् ॥३३५॥अन्या कामिस्पर्धावर्धितभाटी समुच्छ्रिता खेडा ।सौभाग्यगर्वदर्पं समुवाह विलासिनीमध्ये ॥३३६॥एकगणिकानुबन्धक्रोधोद्यतशस्त्रकामिनोः कापि ।सम्भ्रमतो धावित्वा निवारयामास कुट्टनी कलहम् ॥३३७॥धनमाहृत्य बहुभ्यो भुज्यत एकेन केन चित्सार्धम् ।इति धनवन्तं कामिनमावर्जयति स्म कापि वारवधूः ॥३३८॥गायन्गाथामात्रं द्विपदकमथ सौष्ठवेन विट एकः ।बभ्राम पुरो दास्या विदधद्विकृतीरनेकविधाः ॥३३९॥कश्चित्पण्यस्त्रीणां विभवोपचितान्यपुरुषयोजनया ।विदधाति स्माराधनमधनत्वमुपागतः कामी ॥३४०॥त्वयि सक्तेन मया गृहमुज्झितमधुना परेव जातासि ।इति ढौकमलभमानः कश्चिद्गणिकामुपालेभे ॥३४१॥उषितामपरेण समं वृद्धविटानां पुरः पराजित्य ।त्याजयति स्म भुजङ्गः कश्चिद्गणिकां द्विगुणभाटीम् ॥३४२॥दृष्टा त्वया विशेषक वलयकलापी शशिप्रभाभुजयोः ।बाढं भण भण कीदृक्चारुतरा सा मया दत्ता ॥३४३॥अद्य चतुर्थो दिवसश्चीनाम्बरयुगलकस्य दत्तस्य ।तदपि परुषा विलासा वद मदनक किं करोम्यत्र ॥३४४॥स्नेहपरा मयि केली कलहंसक किं तु राक्षसी तस्याः ।माता नात्मीकर्तुं वर्षशतेनापि शक्यते पापा ॥३४५॥सुमनःकुङ्कुमवासं सज्जीकुरु किमिति तिष्ठसि विचित्तः ।अद्य तव दयितिकायाः किञ्जल्कक नर्तनावसरः ॥३४६॥यदि नाम पञ्च दिवसान्त्वयि कुरुते प्रेम धनलवं दृष्ट्वा ।तदपि टरङ्गवती सा कन्दर्पक किं वृथा गर्वः ॥३४७॥जीवद्वेषिनॢआसक परिहर दूरेण मूढ हरिसेनाम् ।बद्धावेशस्तस्यां व्यापृतपुत्रो महाविषमः ॥३४८॥केसरया क्षणदत्तं कृत्वांशुकमुपरि कामिजालस्य ।स्तब्धग्रीवं भ्रमतश्चन्द्रोदय पश्य माहात्म्यम् ॥३४९॥कौमारकं विधातुं वाञ्छसि किल रमण मदनसेनायाः ।इच्छामि किं तु तस्या मात्रातीव प्रसारितं वदनम् ॥३५०॥विभ्रम कियतस्तपसः फलमेतद्यदुपभुज्यते मदिरा ।स्वकरेण पीतशेषा मदघूर्णितदेवदत्तया दत्ता ॥३५१॥कुवलयमालानिलयो ऌईलोदय किमिति सम्प्रति त्यक्तः ।किं विदधामस्तस्मिन्भ्रातर्दास्या विना मूल्यम् ॥३५२॥मुषिताशेषविभूतेरिन्दीवरकस्य यामिनी याति ।संवाहयतः सम्प्रति मञ्जीरक टिलकमञ्जरीचरणौ ॥३५३॥अद्यापि बालभावं निखिलं न जहाति मदनिका तदपि ।प्रौढिम्ना मकरन्दक सकला ललना अधः कुरुते ॥३५४॥कुब्जे गत्वा वक्ष्यसि तं निर्दयचित्तनर्तनाचार्यम् ।हारा सुकुमारतनुः किमिति श्रममद्य कारिता भवता ॥३५५॥निःसर कोऽभिनिवेशः शुकशावकपाठने सुरतदेवि ।तिष्ठति बहिरुपविष्टः प्रतीक्षमाणस्तव प्रेयान् ॥३५६॥वीणावादनखिन्ना पतितास्ते वासभवनपर्यङ्के ।उत्थापय तां त्वरितं स्मरलीलां भट्टपुत्र आयातः ॥३५७॥किमिदं यथास्थितत्वं तव माधवि यन्मुहुर्वदन्त्या मे ।परिधत्से नाभरणं श्रीविग्रहराजसूनुना दत्तम् ॥३५८॥ईदृक्शून्यमनस्त्वं किं कुर्मो मातरिन्दुलेखायाः ।पानक्रीडासक्त्या पतितापि न चेतिता कनकताडी ॥३५९॥नकुलः पयो न पायित इति रोषवशादियं हि दुःशीला ।नाश्नाति कामसेना पुनः पुनः प्रार्थ्यमानापि ॥३६०॥श्रीबलसुतपरिपालित ऊर्णायुः किमनया विजेतव्यः ।मुकुला मुक्तसुखस्थितिरहर्निशं मेषपोषणे लग्ना ॥३६१॥आताम्रतां समुपगतमुच्छूनं करतलं तव सुललिते ।मा पुनरतिचिरमेवं प्रविधास्यसि कन्दुकक्रीडाम् ॥३६२॥अभिराम डोम्ब भाटी प्रथममियं गृह्यते समुत्पन्ने ।स्नेहे तु कुसुमदेव्यास्त्वं प्रभवसि जीवितस्यापि ॥३६३॥ग्रहणकमर्पय तावद्यदि कौतुकमुपरि Cअन्द्रसेनायाः ।निर्वर्तितकर्तव्यो दास्यसि किं चिद्यथाभिमतम् ॥३६४॥न परमदाता मातः सूनुरसौ नगररोटभट्टस्य ।निर्लज्जः शठवृत्तिः पुनः पुनर्वार्यमाणोऽपि ॥३६५॥क्षपयति वसनानि सदा हठेन सकलानि सुरतसेनायाः ।न ददात्येकामूर्णामुरणः परमत्ति कर्पाशम् ॥३६६॥भगिनि न मुञ्चति वेश्म क्षणमपि मे कपटराजपुत्रोऽसौ ।भग्नोऽन्यनरावसरो नग्नेनाधिष्ठितं यथा तीर्थम् ॥३६७॥इत्थंप्राया वाचः शृण्वन्विटकुट्टनीसमुद्गीर्णाः ।तं वेशसंनिवेशं पश्यन्प्रविवेश दयितिकावेश्म ॥३६८॥आकृष्टमिवोत्कतया स्नपितमिव स्निग्धचक्षुषः प्रसरैः ।तमुपागतमभ्यर्णं हारलता पूजयामास ॥३६९॥संविहितसमुचितस्थितिरवनतशिरसा प्रणम्य तत्सख्या ।इदमभिदधेऽतिनम्रं सुन्दरसेनः शुभेऽवसरे ॥३७०॥प्रियदर्शन किं बहुभिः स्मरपीडितदीनवचनसंदर्भैः ।इयमास्ते हारलता जीवितमस्यास्त्वदायत्तम् ॥३७१॥निर्यन्त्रकेलिविशदं सहजप्रेमानुबन्धरमणीयम् ।कार्यान्तरान्तरायैः सुपरिहृतं यातु यौवनं भवतोः ॥३७२॥निर्दयमविरतवाञ्छं ध्वस्तत्रपमव्यवस्थिताचरणम् ।उपचीयमानरागं सततं भूयाद्भवत्सुरतम् ॥३७३॥इति दत्त्वाशिषमन्तर्निर्याते परिजने तदङ्गेषु ।विस्रम्भविविक्तरसो ववृधे कुसुमायुधः सुतराम् ॥३७४॥यदमन्दमन्मथोचितमनुरूपं यन्नवानुरागस्य ।यद्यौवनेऽभिरामं यच्च फलं जीवितव्यस्य ॥३७५॥अविनय एव विभूषणमश्लीलाचरणमेव बहुमानः ।निःशङ्कतैव सौष्ठवमनवस्थितिरेव गौरवाधानम् ॥३७६॥केशग्रहणमनुग्रह उपकारस्ताडनं मुदे दंशः ।नखविलिखनमभ्युदयो दृढदेहनिपीडनं समुत्कर्षः ॥३७७॥निगरणलोलं चुम्बनमवयवनिष्पेषणस्पृहो मर्दः ।अन्तःप्रवेशनेच्छं निर्भरपरिरम्भणं यस्मिन् ॥३७८॥यदनङ्गैरिव विहितं रागैरिव दीप्तिमत्त्वमुपनीतम् ।प्रेमभिरिव निश्चलितं शृङ्गारैरिव विकाशमानीतम् ॥३७९॥अप्रागल्भ्यं व्यसनं धैर्यमकार्यं विवेक उपघातः ।ह्रेपणमगुणो यस्मिन्तत्सुरतं प्रस्तुतं ताभ्याम् ॥३८०॥प्रारम्भ एव तावत्प्रज्वलितो धगिति मनसिजो यस्मिन् ।तस्य विशेषावस्था वक्तुमशक्याः प्रवृद्धस्य ॥३८१॥सहजरसेन जडीकृतमिति यूनोः कामशास्त्रनिर्णीते ।नानाकरणग्रामे मालिन्यमवाप पाण्डित्यम् ॥३८२॥अविधेयमनाख्येयं प्रविचार्यं छादनीयमविषह्यम् ।न बभूव तयोस्तस्मिन्नाविद्धारब्धसुरतसंमर्दे ॥३८३॥अभ्यस्ता या तन्व्या सुरतविधौ विविधचाटुपरिपाटी ।तामालूनविशीर्णां चकार सहजः स्मरावेशः ॥३८४॥सद्भावरागदीपितमदनाचार्योपदिष्टचेष्टानाम् ।कः परिगणनं कर्तुं रतिचक्राविष्टरमणयोः शक्तः ॥३८५॥बाला मृदुगात्रलता दृढपुरुषाक्रान्तविग्रहा न परम् ।न व्यथिता मुदमाप प्रभवति खलु चित्तजन्मनः शक्तिः ॥३८६॥किं रमणीं रमणोऽविशदुत रमणी रमणमिति न जानीमः ।स्वावयवावगमस्तु प्रणाशमगमत्तयोस्तदा निपुणम् ॥३८७॥तस्या निमीलितदृशो निःस्पन्दतनोर्बभूव सुरतान्ते ।लिङ्गमनङ्गच्छाया जीवितसत्तानुमानस्य ॥३८८॥श्रमजलबिन्दूपचिता वृत्तस्मरणेन जातवैलक्ष्या ।सा शुशुभे रतिविरतौ पर्याकुलकेशभूषणा नितराम् ॥३८९॥निर्व्याजार्पितवपुषोर्निर्वृतिमयमेव गणयतोर्विश्वम् ।क्षणदा विरराम तयोरक्षीणाकाङ्क्षयोरेव ॥३९०॥मोहनविमर्दखिन्ना विजृम्भमाणा स्खलद्गतिर्मन्दम् ।निद्राकषायिताक्षी हारलता वासवेश्मनो निरगात् ॥३९१॥परिचितपार्श्वगताहं तेन समं पानभोजनं कृत्वा ।नीता निशा कथाभिर्मोहनकार्यं तु यत्किं चित् ॥३९२॥अविदग्धः श्रमकठिनो दुर्लभयोषिद्युवा जडो विप्रः ।अपमृत्युरपक्रान्तः कामिव्याजेन मे रात्रौ ॥३९३॥नेच्छाविरतिः क्षणमपि न च शक्तिर्वस्तुशून्यरतियत्नैः ।केवलमलमद्याहं कदर्थिता वृद्धपुरुषेण ॥३९४॥मद्यवशादभियोक्तरि मृतकल्पे तल्पभागमग्नायाः ।अनिरोधितनिद्रायाः सुखेन मे यामिनी याता ॥३९५॥सुकुमारसम्प्रयोगः पेशलवचनः सवक्रपरिहासः ।शकुनवशेनोपनतो मम सखि रमणो मनोहराकारः ॥३९६॥पर्यङ्कान्तनिलीनः पराङ्मुखो मुक्तमन्दनिःश्वासः ।मच्चोदनया सुतरां निष्पन्दः स्वेदसलिलसंसिक्तः ॥३९७॥पर्यस्तमितानङ्गो व्यपगतनिद्रः क्षपाक्षयाकाङ्क्षी ।ग्रामोषितः प्रहीणो निष्प्रतिपत्तिः स्थितोऽद्य सखि मनुजः ॥३९८॥शृणु सखि कौतुकमेकं ग्रामीणककामिना यदद्य कृतम् ।सुरतसुखमीलिताक्षी मृतेति भीतेन मुक्तास्मि ॥३९९॥अविदितदेशप्रकृतेः शठात्मकाद्दुर्विदग्धतोऽस्माभिः ।अनुभूतो राजसुतादपि भाण्डविडम्बनाक्लेशः ॥४००॥प्रियसखि लोकसमक्षं नगरप्रभुणा हठेन नीतास्मि ।एवं बन्धकदातुर्द्विगुणार्थप्रार्थने कुतोऽन्यायः ॥४०१॥आकर्षन्ती जघनं व्रजसि यथा विक्षता नखैस्तिलशः ।मन्ये तथोपभुक्ता त्वं केरलि दाक्षिणात्येन ॥४०२॥अधरे बिन्दुः कण्ठे मणिमाला कुचयुगे शशप्लुतकम् ।तव सूचयन्ति केतकि कुसुमायुधशास्त्रपण्डितं रमणम् ॥४०३॥इति शृण्वन्नुषसि गिरो निर्वृत्तनिशाभियोगगणिकानाम् ।सोऽपि यथाक्रियमाणं प्रविधातुं निर्जगाम कर्तव्यम् ॥४०४॥सुरचितरागोपचितिस्वीकृतमनसस्तया समं तस्य ।यौवनसुखमनुभवतो जगाम संवत्सरः सार्धः ॥४०५॥विश्रम्भकथाः कुर्वन्विचरन्नुद्यानवेदिकापृष्ठे ।सहचरकरसक्तकरः सुन्दरसेनः कदा चित्तु ॥४०६॥स्थूलघनतन्तुसन्ततितानितनानाम्बरावरणम् ।यष्टिप्रान्तनियन्त्रितदलवीटककुतपतुम्बकप्रायम् ॥४०७॥त्रुटितचरणत्रसंगतविस्फुटिताभ्यक्तपादमलिनतनुम् ।त्वरितगतिलेखवाहकमारादायान्तमद्राक्षीत् ॥४०८॥प्रत्यासन्नीभूतं क्रमेण पौरन्दरिः परिज्ञाय ।साकूतमना ऊचे वयस्य हनुमानयं प्राप्तः ॥४०९॥अवनितललीनशिरसा कृतनतिना तेन विनिहितं भूमौ ।उत्क्षिप्य झटिति लेखं सुन्दर इति वाचयामास ॥४१०॥स्वस्ति श्रीकुसुमपुरात्पुरन्दरः सुन्दरं समभिधत्ते ।अन्तर्जृम्भितशोकग्रस्तोऽविस्पष्टवर्णपदम् ॥४११॥कुलमकलङ्कं न गणितमवधीरितमग्रजन्मनामुचितम् ।नापेक्षितमवगीतं शठसेवितवर्त्मनि त्वया पतता ॥४१२॥वंशेऽकुटिलगतीनां द्विजिह्वतादोषरहितचरितानाम् ।अपरविनाशरतानामुत्पन्नः कथमसि भुजङ्गः ॥४१३॥क्व पुरोडाशपवित्रितवेदपदोद्गारगर्भवदनं ते ।क्व च मदिरासववासितवारवधूमुखरसास्वादः ॥४१४॥क्व कुशविपाटनजन्मा सहसोदितवेदनाचमत्कारः ।क्व च दासीरतसङ्गरनिर्दयनखरक्षतिः प्रीत्यै ॥४१५॥क्व त्रेतानलधूमक्षोभितनयनाम्बुधौतवदनत्वम् ।क्व च गणिकानिर्भर्त्सनशोकभरायातबाष्पसलिलौघः ॥४१६॥क्व वषट्कारध्वानः षट्कर्मविभूषणं श्रवणपूरः ।क्व च साधारणवनितारतिमणिताकर्णनौत्सुक्यम् ॥४१७॥क्वाचार्यप्रतनुलताताडनसंक्षोभसम्भवः कम्पः ।क्व च कुपितवारललनानिष्ठुरपादप्रहारविषहित्वम् ॥४१८॥क्व हरिणचर्मावरणं स्मृतिशास्त्रनिवेदितं व्रतं चरतः ।क्व च पण्यस्त्रीगात्रस्पृष्टाम्बरधारणेषु बहुमानः ॥४१९॥समिधामेव च्छेदनमभ्यस्तं शैशवात्समारभ्य ।शठवनिताधरखण्डन उत्पन्नं कौशलं कुतो भवतः ॥४२०॥शुश्रूषणमेव गुरोः परिशीलितमचलचेतसा सततम् ।कुटिलमतयो भुजिष्याः कथं त्वयाराधिता निपुणम् ॥४२१॥आम्नायपाठ एव स्फुटतरपदसौष्ठवं तव ख्यातम् ।प्रकुपितवेश्यानुनये क्व शिक्षितं वचनचातुर्यम् ॥४२२॥अथवा किं क्रियतेऽस्मिन्नवदातकुलेऽपि लब्धजन्मानः ।सदसंस्तुता भवन्ति प्रागुपचितकर्मदोषेण ॥४२३॥त्वयि विनिवेश्य कुटुम्बं परलोकहितार्जनैकनिहितात्मा ।स्थास्यामीति समीहितमनुदिवसं तद्विसंवदितम् ॥४२४॥इत्यवधृतलेखार्थे सुन्दरसेने विधेयसम्मूढे ।आर्यामगायदन्यः स्वावसरे गीतिपरिकरिताम् ॥४२५॥विषयतिमिरावृताक्ष्णामवटे पततामदृष्टमार्गाणाम् ।पुंसां गुरुजनवचनद्रव्यशलाकाञ्जनं शरणम् ॥४२६॥उद्वेजयति तदात्वे सुखसम्पत्तिं करोति परिणामे ।कटुकौषधप्रयोगो गुरुनिगदितकार्यनिष्ठुरं च वचः ॥४२७॥लब्ध्वाथ वचोवसरं मित्रमवादीत्पुरन्दरापत्यम् ।पुनरपि न हि खिद्यन्ते प्रियजनहितभाषणे सन्तः ॥४२८॥अगणितसहचरवचसो दुर्व्यसनमहाब्धिमग्नवपुषस्ते ।मन्युव्यथितस्य पितुर्यदि परमवलम्बनं वचनम् ॥४२९॥निजवंशदीपभूतः कृतचरितालङ्कृतो महासत्त्वः ।षुन्दर सम्प्रति तातः स्पृष्टो दुष्पुत्रदोषेण ॥४३०॥पुत्राभावः श्रेयान्दुःसुतता पुत्रिणः कुलीनस्य ।अन्तस्तापयति भृशं सच्चरितकथाप्रसङ्गेषु ॥४३१॥सांव्यवहारिक एव प्रायो लोके गुणोन्नता नियताः ।येन तु सुतेन जननी वन्ध्यात्वं श्लाघते स पापीयान् ॥४३२॥विफलं शास्त्रज्ञानं गुरुगृहसेवापि नोपकाराय ।विषयवशीकृतमनसो न्याय्यं पन्थानमुत्सृजतः ॥४३३॥जीवन्नेव मृतोऽसौ यस्य जनो वीक्ष्य वदनमन्योन्यम् ।कृतमुखभङ्गो दूरात्करोति निर्देशमङ्गुल्या ॥४३४॥नो परिहर्तुं विषयाः शक्याः सत्यं तथापि निपुणधियः ।अभिधेयतां न गच्छन्त्यपवादविशेषिताभिधानस्य ॥४३५॥गुरुपरिचर्या जाया कुलोद्गता स्निग्धबन्धुसम्पर्कः ।ब्राह्मे कर्मणि सक्तिर्लोकद्वयसाधनं सुधियाम् ॥४३६॥सुलभा तस्य विभूतिस्तस्य गुणा यान्ति जगति विस्तारम् ।बहु मनुते तं सुजनस्तस्मै स्पृहयन्ति बान्धवाः सततम् ॥४३७॥नासादयति स एकः सत्सेवितमार्गतः परिस्खलनम् ।मण्डयति सोऽन्ववायं स निवासः शर्मणामशेषाणाम् ॥४३८॥स भवति विनयाधारो युक्तायुक्ते विवेकिता तस्य ।वृद्धोपदेशवाचः श्रवणोदरतर्पणं सदा यस्य ॥४३९॥प्राक्तनकर्मविपाकः क्षुद्रासु शरीरिणां यदासक्तिः ।आयतनं तु सुखानां संसारभुवां कुलोद्गता रामा ॥४४०॥निर्विण्णे निर्विण्णा मुदिते मुदिता समाकुलाकुलिते ।प्रतिबिम्बसमा कान्ता संक्रुद्धे केवलं भीता ॥४४१॥यावद्वाञ्छितसुरतव्यायामसहाविरुद्धसंभाषा ।चित्तानुवृत्तिकुशला पुण्यवतामेव जायते जाया ॥४४२॥सद्भावप्रेमरसं वलयावलिशब्दशङ्किता निभृतम् ।विदधानाङ्गसमर्पणमुन्मीलितकुसुमसायकाकूता ॥४४३॥हा हा किमुद्धतत्वं श्रोष्यति कश्चिद्गतत्रप स्वैरम् ।निकटे परिवारजनो विस्मृत एव स्मरातुरस्य तव ॥४४४॥इति हुङ्कृतिसंवलितैरायासनिवेदितार्थपदवाक्यैः ।द्विगुणीकरोति कुलजा नायककर्माणि मोहनप्रसरे ॥४४५॥इत्थमुदीरितवाचं सुहृदमवोचत्पुरन्दरस्य सुतः ।समुपस्थितजीवसमावियोगभयकम्पितो वचनम् ॥४४६॥तातादेशेऽलङ्घ्ये हारलताविरहपावके तीव्रे ।विधिवशवर्तिनि मरणे नो विद्मः कार्यपरिणामम् ॥४४७॥अनपेक्षितधनलाभां स्नेहैकनिबद्धमानसां दयिताम् ।दैवाकृष्टो मुञ्चति घटितो वा लोहवज्रकणिकाभिः ॥४४८॥अथ कृतगमनविनिश्चितिरभिमतरामां चकार विदितार्थाम् ।सापि तमनुवव्राज प्रस्तुतयात्रं शुचाकुलिता ॥४४९॥आसाद्य वटस्य तलं बाष्पपयःकणचिताक्षिपक्ष्माग्राम् ।विघ्नितचरणविहारो हारलतामभिदधाति स्म ॥४५०॥आ क्षीरवतो वृक्षादा सलिलाद्वा प्रिये प्रियं यान्तम् ।अनुयायादिति वचनं तेन त्वमितो निवर्तस्व ॥४५१॥किं कुर्मो दैवहताः प्रभवति यस्मिन्कृशोदरि प्रसभम् ।प्रेमग्रन्थिच्छेत्ता गुरुशासनसायको निरावरणः ॥४५२॥न द्रविणचयप्राप्तिर्नैकाश्रयपरिचयो न चाटुगुणः ।न स्वामिसमादेशो नाकारविलोभनं न च ख्यातिः ॥४५३॥हेतुस्तव प्रवृत्तेरस्मासु तथापि दैववशात् ।ईदृक्कोऽप्यनुबन्धो यस्य विपाकोऽप्रतीकारः ॥४५४॥परुषं यदभिहितासि प्रणयरुषा शङ्कितं च नर्मणि वा ।सुदति न तत्स्मरणीयं दुर्भाषणकीर्तनोद्घाते ॥४५५॥तव हृदये हृदयमिदं विन्यस्तं न्यासपालनं कष्टम् ।यत्नात्तथा विधेयं स्थानभ्रंशो यथा न स्यात् ॥४५६॥अथ विरतवचोदयितं बाष्पभरक्लिष्टवर्णपदयोगात् ।इति कथमपि हारलता संमूर्छितवस्तुभारतीमूचे ॥४५७॥अविशुद्धकुलोत्पन्ना देहार्पणजीविका शठाचरणा ।क्वाहं रूपाजीवा क्व भवन्तः श्लाघनीयजन्मगुणाः ॥४५८॥यत्तु विषयावलोकनकुतूहलाभ्यागतेन विश्रान्तम् ।इयतो दिवसानस्मिन्तन्मे परजन्मकृतशुभस्य फलम् ॥४५९॥गुरुसेवां बन्धुजनं स्वदेशवसतिं कलत्रमनुकूलम् ।अनुषङ्गदृष्टपरिचित आस्थां प्रविधाय कः परित्यजति ॥४६०॥यौवनचापलमेतद्यन्मादृशि भवति कौतुकं भवताम् ।यत्तु सुखमनवगीतं तस्य स्थानं निजा दाराः ॥४६१॥ते मधुराः परिहासास्ता वक्रगिरः स वामतासमयः ।नो हृदये कर्तव्या रहसि क्षेमार्थिना भवता ॥४६२॥लाघवतो यन्मनसः प्रणयाद्वा यत्तवाचरितम् ।प्रतिकूलं तत्र मया नाथाञ्जलिरेष विरचितो मूर्ध्नि ॥४६३॥दुःसंचारा मार्गा दूरे वसतिर्विसंष्ठुलं हृदयम् ।ङुणपालित तव सुहृदा भवितव्यमतोऽप्रमत्तेन ॥४६४॥हृदयद्वय एकत्वं याते यूनोर्वियोगजं क्लेशम् ।अनुभवतोरपरेण प्रसङ्गतः पठ्यते पथ्या ॥४६५॥अन्योन्यसुदृढचेष्टितसद्भावस्नेहपाशबद्धानाम् ।विच्छेदकरो मृत्युर्धीराणां वा परिच्छेदः ॥४६६॥अथ तच्छ्रवणानन्तरमास्स्व सुखं दयितिके व्रजामीति ।अभिधाय याति मन्दं सुन्दरसेने विवर्तितग्रीवम् ॥४६७॥वटशाखालम्बिभुजां श्वसितोष्णसमीरशुष्यदधरमुखीम् ।पर्यस्तां बिभ्राणां तन्मार्गविलोकनानिमेशदृशम् ॥४६८॥दोलायमानवेणीं तिर्यग्गतकण्ठभूषणविशेषाम् ।गलदश्रुवारिपूर्णां पतितांशुकभागनिःसहाङ्गलताम् ॥४६९॥रुन्धानामिव हृदयं स्फुटदितरकरेण कुचयुगाश्रयिणा ।परिशेषितां विलासैरुत्सृष्टां जीवलोककर्तव्यैः ॥४७०॥अङ्गीकृतां विपत्त्या वशीकृतां मर्मघट्टनैर्विषमैः ।रलतामपरिस्फुटमन्तःपरिकृष्यमाणभारत्या ॥४७१॥मा मा तावद्यात क्षणमेकं यावदेष निष्करुणः ।वनगुल्मैर्न तिरोहित इत्यभिदधतीं जहुः प्राणाः ॥४७२॥अथ पश्चात्समुपेतं पप्रच्छ पुरन्दरात्मजः पथिकम् ।दृष्टा शोकव्यथिता निवर्तमानाङ्गना भवता ॥४७३॥स उवाच वटतरोरध उर्व्यां पतिता विनिश्चलावयवा ।तिष्ठति वनिता नान्या नयनावसरं गतास्माकम् ॥४७४॥इति तद्वचनाश्महतो विह्वलमूर्तिः पपात भूपृष्ठे ।उत्थापितश्च सुहृदा सोऽभिदधे तेन शोकदीनेन ॥४७५॥भवतु कृतार्थस्तातस्त्वमपि सुमित्रास्स्व साम्प्रतं प्रीतः ।समकालमेव मुक्ता पापेन मयासुभिश्च हारलता ॥४७६॥हा हा हाव हतोऽसि ध्वस्ता लीला विलास किं कुरुषे ।उच्च्छिन्ना विच्छित्तिर्भ्रम विभ्रम दश दिशो निराधारः ॥४७७॥किलकिञ्चित गच्छ वनं मोट्टायितमशरणत्वमुपयातम् ।कुट्टमित प्रव्रज्यां गृहाण बिब्बोक विश भुवो विवरम् ॥४७८॥ललितमनाथीभूतं विहृतस्य न विद्यते गतिः क्वापि ।शशधरबिम्बद्युतिमुषि यातायामन्तकान्तिकं तस्याम् ॥४७९॥विनिवृत्त्य यामि दग्धुं मद्विरहे मुक्तवल्लभप्राणाम् ।भवतु वराक्यास्तस्याः सप्तार्चिर्दानमात्रमुपकारः ॥४८०॥गत्वाथ तमुद्देशं यस्मिन्सा पञ्चभावमापन्ना ।विललाप मुक्तनादं विलुठन्भुवि सहचरेण धृतमूर्तिः ॥४८१॥एते वयं निवृत्ता मुञ्च रुषं देहि कोपने वाचम् ।उत्तिष्ठ किमिति तिष्ठसि भूमितले रेणुरूषितशरीरा ॥४८२॥विनिमील्य दृशौ कस्मादप्रतिपत्त्या स्थितासि शुभवदने ।त्वदवारितगमनविधेरपराधितया न मे योगः ॥४८३॥नाकाधिपतिपुरन्ध्रीरभिभवितुं त्वयि दिवं प्रयातायाम् ।सत्स्वपि शरेषु पञ्चसु निरायुधः साम्प्रतं मदनः ॥४८४॥वञ्चकवृत्ता वेश्या इत्यपवादो जनेषु यो रूढः ।अपनीतोऽसौ निपुणं त्वया प्रिये जीवमोक्षेण ॥४८५॥वन्द्यः सद्व्रत एकस्त्रिपुरान्तकनन्दनो महासेनः ।हृदयं यस्य स्पृष्टं न मनागपि वामलोचनाप्रेम्णा ॥४८६॥मन्येऽभीष्टवियोगं निमेषमपि दुःसहं समवधार्य ।रिणा वक्षसि ऌअक्ष्मीर्विधृता ङौरी हरेण देहार्धे ॥४८७॥अयि ऌओकपाल सा भुवि ललामभूता तया विना शून्यम् ।विश्वमिति किं न चिन्तितमात्मस्थानं प्रियां नयता ॥४८८॥भगवन्हुतवह मा मा लावण्यसमुद्रसारमुद्धृत्य ।कथमपि विहितां धात्रा धक्ष्यस्येनां जगद्भूषाम् ॥४८९॥इति विलपन्तं बहुविधमवधीर्य सुहृत्पुरन्दरस्य सुतम् ।काष्ठैर्विरचय्य चितां तामकरोदग्निसाद्गणिकाम् ॥४९०॥तस्मिन्निद्धहुताशनविनिपतने कृतमतौ शुचाकुलिते ।मनसि स्फुरितामार्यां पपाठ कश्चित्प्रसङ्गेन ॥४९१॥अनुमरणे व्यवसायं स्त्रीधर्मे कः करोति सविवेकः ।संसारमुक्त्युपायं दण्डग्रहणं व्रतं मुक्त्वा ॥४९२॥श्रुत्वा सुन्दरसेनः सचिवमवोचद्व्यपेतवैक्लव्यः ।प्रतिबोधितं मनो मे धीरेणानेन युक्तमुपदिशता ॥४९३॥क्षणदृष्टनष्टवल्लभजन्मजराव्याधिमरणपरिभूते ।आवर्तिनि संसारे कः कुर्यादाग्रहं सुमतिः ॥४९४॥यातु भवान्कुसुमपुरं वयमप्यन्त्याश्रमे समाश्रयणम् ।अङ्गीकुर्मोऽविद्याप्रहाणसंसिद्धये विहितम् ॥४९५॥सोऽवददभिजातजनो बाल्यात्प्रभृति त्वया च न वियुक्तः ।संन्यसनबुद्धिमधुना कथमुज्झति विषयनिःस्पृहं सुहृदम् ॥४९६॥एवमिति सोऽभिधाय स्थिरयतिनियमैस्तपोधनैर्जुष्टम् ।ङुणपालितेन सहितः सुन्दरसेनो जगाम वनम् ॥४९७॥एवं भवन्तु वेश्याः स्वार्थैकदृशो व्यपेतसद्भावाः ।अभिलषितविषयसिद्धेः का हानिस्तदपि युष्माकम् ॥४९८॥रमणहृदयानुवर्तनचतुरचतुःषष्टिकर्मकुशलानाम् ।न स्पृशति तत्त्वचर्चा पण्यवधूनां विदग्धचेतांसि ॥४९९॥वलितप्लुतचित्रगतिस्थितिवेगैश्चोदनानुवृत्त्या च ।रागस्पर्शेन विना विशति मनः सादिनां तुरगः ॥५००॥गन्धोऽपि कुतः प्रेम्णः परभृतहारीतगृहकपोतानाम् ।उज्ज्वलयन्त्यसमेषुं विरुतविशेषैस्तथापि ते यूनाम् ॥५०१॥आहितयुक्ताहार्यः सम्यक्सकलप्रयोगनिष्पत्त्या ।भावविहीनोऽपि नटः सामाजिकचित्तरञ्जनं कुरुते ॥५०२॥येऽपि धनक्षयदोषं पश्यन्ति जडा विलासिनीश्लेषे ।प्रष्टव्यास्ते भवता किमकृतकशिपुव्यया दाराः ॥५०३॥न च लाभ एक एव प्रवर्तने कारणं मनुष्येषु ।रागादयोऽपि सन्ति वैशिकशास्त्रप्रणेतृभिः कथिताः ॥५०४॥का वा विभूतिराप्ता सुन्दरसेनात्तया तपस्विन्या ।तद्विरहकुलिशभिन्ना मुमोच या जीवितं क्षणार्धेन ॥५०५॥उत्तमतरुणप्रकृतिः पुलकादिकसूचितान्यतनुसक्तिः ।स्फुटसंनिहितविभावो निवार्यते केन शृङ्गारः ॥५०६॥अन्तःकरणविकारं गुरुपरिजनसंकटेऽपि कुलटानाम् ।बुध्यन्ति तदभियुक्ता भ्रूभङ्गापाङ्गमधुरदृष्टेन ॥५०७॥अन्या विहाय पतिगृह मविचिन्तितकुलकलङ्कजनगर्हाः ।रागोपरक्तहृदया यान्ति दिगन्तं मनुष्य आसज्य ॥५०८॥अपमानः पतिविहितो गुरुपरिकरतीव्रता गृहेऽपि दौर्गत्यम् ।शीलक्षतये यासां तासामपि रागतोऽन्यनरसक्तिः ॥५०९॥या अप्यचलितवृत्ता भर्तुः परिचरणतत्पराः प्रमदाः ।ता अपि रागविमुक्तास्तिष्ठन्त्यौचित्यमात्रेण ॥५१०॥तस्मादस्त्वभिगमनं विविधनिमित्तं निवार्यते केन ।निजपरपण्यस्त्रीणां रागाधीनं तु हृदयनिर्वहणम् ॥५११॥एवंविधदृष्टान्तैरुपपत्तियुतैस्तथेदृशैर्वाक्यैः ।अन्यैरपि चाटुपदैरावर्जितमानसं गम्यम् ॥५१२॥विहितस्वापविबोधं किञ्चित्प्रकटीकृतश्रमग्लान्या ।उत्पादितजृम्भिकया परिरभ्य घनं निशापगमे ॥५१३॥विघटितपुटमुद्रदृशा विलोक्य ककुभः सदीर्घनिःश्वासम् ।वक्तव्यमिति भवत्या रजनि खले किं प्रयातासि ॥५१४॥अबला विषहेत कथं दृढशक्तिमनुष्यरतिरसप्रसरम् ।मदनजनितोऽनुरागो न विदध्याद्यदि बलाधानम् ॥५१५॥धन्या चक्राह्ववधूः प्रियतमसंघटनसमयसम्प्राप्त्या ।शशिना वियुज्यमाना कुमुद्वति क्षीणपुण्यासि ॥५१६॥विकसितसुरभिमनोहरसंस्थानं सरसकुसुममप्राप्तम् ।न करोति तथा पीडामास्वादितविच्युतं यथा भृङ्ग्याः ॥५१७॥विज्ञापयाम्यतस्त्वां रचिताञ्जलिमौलिना विधाय नतिम् ।परिचारकजनमध्ये गणनीयाहं प्रसादेन ॥५१८॥अथ दीपितरागाङ्गैरपहस्तितलाभदिक्क्रमोपचितैः ।मृदुभिश्चित्तानुगतैरुपचारैः पातितस्य विश्वासे ॥५१९॥अवलोकितोऽसि लम्पट किमपि वदन्कर्णसंनिधौ निभृतम् ।शङ्करसेनाधात्र्या अद्य मया जालमार्गेण ॥५२०॥मालत्या सह केलिं विदधासि सखी ममेति न विरोधः ।यत्तु चिरं स्निग्धदृशा पश्यसि तां तत्र मे शङ्का ॥५२१॥त्वामागता न वीक्षितुमनुबध्य न याचितः प्रयत्नेन ।आहूय वद किमर्थं ताम्बूलं ग्राहिता कमलदेवी ॥५२२॥कञ्चुकमपकर्षन्त्याः प्रकटीभवदंसकक्षकुचपार्श्वम् ।साभिनिवेशं दृष्टं भवता किं कुन्दमालायाः ॥५२३॥परिहासेन गृहीता यद्यंशुकपल्लवे त्वया हीरा ।आच्छोट्यापक्रान्ता किं मामवलोक्य पृष्ठतः सहसा ॥५२४॥विज्ञानेन ख्यातां कुसुमलतां त्वं तु वर्णयस्यनिशम् ।नृत्यन्तीं मृगदेवीं विस्फारितलोचनः पश्यन् ॥५२५॥कारणमत्र न वेद्म्यहमृजुपन्थानं प्रसिद्धमुत्सृज्य ।वक्रेण यदेषि सदा माधवसेनागृहाग्रेण ॥५२६॥इति सेर्ष्योपन्यासैरन्यैश्चामर्मवेधिलघुकोपैः ।प्रणयप्रभवैर्विदिते च्छातोदरि रूढरागत्वे ॥५२७॥श्रुतिविशयेऽन्तरिततनुर्जनितस्थितिरायताक्षि सह मात्रा ।परुषगिरा त्वं कुर्या इत्थं मिथ्यावचःकलहम् ॥५२८॥अक्लेशोपनतधनः प्रेमप्रह्वो निरर्गलत्यागः ।भट्टानन्दस्य सुतो निधिभूतोऽभव्यया त्वया त्यक्तः ॥५२९॥व्यसनोपहतविवेको दैवैकगतिः स्वदारविद्वेषी ।मामविगणय्य मूढे निर्भर्त्सित एव केशवस्वामी ॥५३०॥अगणितराजापायोऽविच्छिन्नायः स्वभावतस्त्यागी ।किमुपेक्षितोऽनुरक्तो वामधिया शौल्किकाध्यक्षः ॥५३१॥पितुरेक एव पुत्रश्चतुर्थवयसो गदाभिभूतस्य ।द्रविणवतः प्रभुरातो निराकृतोऽभूतिकामया सोऽपि ॥५३२॥स्वकरेण परित्यक्ता त्वया विभूतिः करोमि किं पापा ।सर्वभरेणोपनतं वसुदेवमनादरेण पश्यन्त्या ॥५३३॥पुरुषान्तरसंघर्षप्रोत्साहितचित्तवृत्तिरनपेक्षम् ।वसु विसृजति यो रभसात्तस्य न वार्ता त्वया पृष्टा ॥५३४॥चित्रादिकलाकुशलः स्मरशास्त्रविचक्षणो वृषप्रकृतिः ।उपकुर्वन्नपि सर्वो विद्वेषिगणे त्वया क्षिप्तः ॥५३५॥चन्द्रवतीमाभरणं दत्तं मधुसूदनस्य पुत्रेण ।पश्यन्ती बिभ्राणामयि रागिणि किं न जिह्रेषि ॥५३६॥ग्रामोत्पत्तिरशेषा प्रविशन्ती सिंहराजविनियोगात् ।मन्मथसेनावासं लघयति ते रूपसौभाग्यम् ॥५३७॥आस्तामपरो लाभो हेडावुकनन्दिसेनतनयेन ।शिवदेव्या उपचारः क्रियते यस्तेन पर्याप्तम् ॥५३८॥पश्येदं धवलगृहं पाशुपताचार्यभावशुद्धेन ।कारितमनङ्गदेव्या आभरणं पत्तनस्य सकलस्य ॥५३९॥आपणिकार्थस्य कुतो राजा लभते चतुर्थमपि भागम् ।हट्टपतिरामसेनप्रसादतो नर्मदा तमुपभुङ्क्ते ॥५४०॥पुंस्त्वख्यापनकामो न स्त्री न पुमान्किल प्रभुस्वामी ।अनुबध्नन्नुपहसितस्त्वया जडे स्वार्थयोगमनपेक्ष्य ॥५४१॥वाजीकरणैकमतिर्नरनाथानुग्रहेण विख्यातः ।प्रत्याख्यातः स तथा रविदेवः किङ्करत्वमाकाङ्क्षन् ॥५४२॥किं कन्दर्पकुटुम्बे जातोऽसावुत वशीकरणयोगम् ।जानाति कमपि सिद्धं येनाकृष्टासि सर्वभावेन ॥५४३॥बाल्ये तावदयोग्या पश्चादपि वृद्धभावपरिभूता ।तारुण्ये रागहृता यदि गणिका भ्रमतु तद्भिक्षाम् ॥५४४॥उपनय भाण्डकमेतद्यदर्जितं मामकेन देहेन ।विदधामि तीर्थयात्रामास्स्व सुखं प्रेयसा सार्धम् ॥५४५॥आर्यजननिन्दितानां पापैकरसप्रकाशनारीणाम् ।एतावानेव गुणो यदभीष्टसमागमो निरावरणः ॥५४६॥नो धनलाभो लाभो लाभः खलु वल्लभेन संसर्गः ।अक्षिगतादर्थाप्तिर्न भवति मनसः प्रमोदाय ॥५४७॥गाढानुरागभिन्नं तारुण्यरसामृतेन संसिक्तम् ।न भजति सहृदयहृदयं विभवार्जनसम्भवा चिन्ता ॥५४८॥लाभः स एव परमः पर्याप्तं तेन तेन तृप्तास्मि ।विनिवेश्य यदुत्सङ्गे निक्षिपति मुखे मुखेन ताम्बूलम् ॥५४९॥सुरतश्रमवारिकणान्परिमार्ष्टि निजांशुकेन गात्रेषु ।यदुरसि निधाय विहसंस्तस्य न मूल्यं वसुन्धरा सकला ॥५५०॥शिथिलितनिजदाररतिर्मयि सक्तमना अनन्यकर्तव्यः ।यदसौ जितनलरूपस्तिरस्कृतं तेन गाणिक्यम् ॥५५१॥बहुकुसुमरसास्वादं कुर्वाणा मधुकरी विधिनियोगात् ।ईदृक्प्रसवविशेषं लभते खलु येन भवति कृतकृत्या ॥५५२॥अयि सरले तावदिमा उपदेशगिरो विशन्ति कर्णान्तः ।यावन्नान्तर्भूतं तच्चेतसि मामकं चेतः ॥५५३॥श्रीरस्तु दुर्गतिर्वा वेश्मनि वासो महत्यरण्ये वा ।स्वर्लोके नरके वा किं बहुना तेन मे सार्धम् ॥५५४॥इदमास्तेऽलङ्करणं दुर्जननि गृहाण किं ममैतेन ।तेनैव भूषिताहं गुणनिधिना भट्टपुत्रेण ॥५५५॥उचितस्थाननियुक्तान्यपनीय विभूषणानि सावेगम् ।एवमभिधाय यास्यसि मातुः पुरतः समुत्सृज्य ॥५५६॥इति रागान्धः श्रुत्वा चेतसि कुरुते कदा चिदेवमिदम् ।स्नेहाधिष्ठितमनसामविधेयं नास्ति नारीणाम् ॥५५७॥जननीं जन्मस्थानं बान्धवलोकं वसूनि जीवं च ।पुरुषविशेषासक्ताः सीमन्तिन्यस्तृणाय मन्यन्ते ॥५५८॥रणशिरसि हते वज्रे वज्रोपमयन्त्रनिर्गतग्राव्णा ।प्राणान्मुमोच दयिता न मन्त्रविधिना हृता नाम ॥५५९॥कालवशेनायासीत्पञ्चत्वं दाक्षिणात्यमणिकण्ठः ।प्रेमोपगता वेश्या तेनैव समं जगाम भस्मत्वम् ॥५६०॥भास्करवर्मणि याते सुरवसतिं वारितापि भूपतिना ।तद्दुःखमसहमाना प्रविवेश विलासिनी दहनम् ॥५६१॥ज्वालाकरालहुतभुजि नग्नाचार्यः पपात नरसिंहः ।तस्मिन्नेव शरीरं निजमजुहोच्छोकपीडिता दासी ॥५६२॥प्रीतिभराक्रान्तमतिस्त्रिदशालयजीविकां क्रमोपनताम् ।अङ्गीचकार मुक्त्वा ञीहल्ला भट्टविष्णुमा मृत्योः ॥५६३॥देशान्तरादुपेते प्रसादमात्रेण वीक्षिते वनिते ।पादयुगं तत्यजतुर्न वामदेवस्य समिति निहतस्य ॥५६४॥भट्टकदम्बकतनये याते वसतिं परेतनाथस्य ।चक्रे देहत्यागं रणदेवी वारयोषितां मुख्या ॥५६५॥अस्यामेव नगर्यां द्रविणमदात्कालसञ्चितमशेषम् ।प्रेम्णाकृष्टा गणिका भट्टात्मजनीलकण्ठाय ॥५६६॥इयमपि मयि विहितास्था मातृवचःश्रवणकलुषिता क्व गता ।त्यक्त्वाभरणं सर्वं प्रविजृम्भितमन्युसंवेगा ॥५६७॥उत्सृष्टालङ्करणां परिशेषितमातृमुक्तपरिवाराम् ।संतर्पयामि सम्प्रति सर्वस्वेनापि हरिणाक्षीम् ॥५६८॥गेहेन किं प्रयोजनमन्यैरपि बन्धुदारपरिवारैः ।संसारग्रहकारणमेका खलु मालती मम हि ॥५६९॥अमृतकरावयवैरिव घटिता सा दृढतरं परिष्वक्ता ।चेतो नयति समत्वं ब्रह्मण आनन्दरूपस्य ॥५७०॥आविर्भवदात्मभवक्षोभक्षतधीरता घनं रभसात् ।विगलितकुचयुगलावृतिरालिङ्गति मालती धन्यम् ॥५७१॥निर्दयतरोष्ठखण्डनसव्यथहुङ्कारमूर्छितं सुरते ।अहहेति वचस्तस्या अपुण्यभाजो न शृण्वन्ति ॥५७२॥स्मृतिजन्मजनितविकृतिव्रततिच्छन्नं करोति संसारम् ।आविद्धसुरतसङ्गरविमर्दसंक्षोभिता दयिता ॥५७३॥गाढतराश्लिष्टवपुर्भजते कान्ता प्रमोदसम्मोहम् ।शिथिलीकृता तु किं चिद्विविधविकारं समुच्छ्वसिति ॥५७४॥सन्त्यन्या अपि सत्यं पुरुषोचितकर्मपण्डिताः प्रमदाः ।सृष्टा तु तया नियतं विपरीतरतिक्रियागोष्ठी ॥५७५॥तन्त्रीवाद्यविशेषानुद्दामानन्यजन्मनस्तस्याः ।कुहरितरेचितकम्पितसम्पादननैपुणं करोति जडान् ॥५७६॥ललिताङ्गहारजृम्भितवलितस्मितवेपनानि मालत्याः ।पश्यञ्जहाति कामः रतिमोहनचेष्टितेषु बहुमानम् ॥५७७॥न ग्राम्यं परिहसितं नाविभ्रमतरलितोऽक्षिविक्षेपः ।सुरतोद्योगनिरोधो दोहददानं न पुष्पबाणस्य ॥५७८॥नार्थपरो लपनरसो न पराशयवेदनेऽविचक्षणता ।नासौष्ठवं प्रसङ्गेनोल्वणगुणकीर्तनेषु भारत्याः ॥५७९॥नापरपुरुषश्लाघा न त्यागः कालदेशवेशस्य ।वैदग्ध्यजन्मभूमेर्गुरुजघनभरेण मन्दयातायाः ॥५८०॥चक्राह्वपरिष्वजनं हंससमाश्लेषनकुलपरिरम्भम् ।पारावतावगूहनमाचरति सुमध्यमा यथावसरम् ॥५८१॥तद्वक्रवचनहासव्यवहृतिहृतमानसस्य जायन्ते ।अनुकूलसुन्दरा अपि भरणीयभराय केवलं दाराः ॥५८२॥सूचयति पृथक्करणं भ्रातऋणां वक्ति विषमशीलत्वम् ।विवृणोति गृहविसंस्थामभिनन्दति पितृकुलस्य गुणवत्ताम् ॥५८३॥अन्यसुतपक्षपातं कथयति मातुस्तिरस्करोति पतिम् ।पार्श्वनिमग्ना जाया मा यातु विमुच्य कार्मुकं मदनः ॥५८४॥एवं कृतेऽपि सुन्दरि यदि तिष्ठति नायकः प्रकृत्यैव ।इत्थं पथि परिमोषस्त्वत्सख्या नैपुणेन वक्तव्यः ॥५८५॥गृहकार्यव्यग्रतया चित्तग्रहणाय वा कुलस्त्रीणाम् ।नायाते भवति सखी प्रावृड्घनकलुषिते दिशां चक्रे ॥५८६॥प्रग्रीवकशयनगता स्फारीभवदात्मसम्भवविकारा ।त्वन्मार्गनिहितनेत्रा गीतामन्येन गीतिकामशृणोत् ॥५८७॥यदि जीवितेन कृत्यं संभावय विरहिणि प्रियं तूर्णम् ।घनरसितस्य हि पुरतः कदलीदलकोमलः कुलिशपातः ॥५८८॥आकर्ण्य मामवादीद्धन्यास्ता युवतयः सखि कठोराः ।या विषहन्ते दीर्घं प्रियतमविरहानलासङ्गम् ॥५८९॥मम तु दिनान्तरितेऽपि प्रेयसि लब्ध्वा सहायसामग्रीम् ।विदधाति मकरकेतन उत्कलिकाविधुरितं हृदयम् ॥५९०॥उत्कण्ठयति भृशं मां समीरणो बकुलकुसुमगन्धाढ्यः ।प्रच्यावयन्ति धैर्यान्मधुरध्वनितैः कलापभृतः ॥५९१॥सतडिन्मिलद्बलाकामसिताम्बुधरावलीं समुद्यन्तीम् ।उत्सहते सा वीक्षितुमविरलमालिङ्गितो यया कान्तः ॥५९२॥स्वेच्छागमनलघुत्वं बहुलापायं निशासु पन्थानम् ।न विचारयन्ति महिला अभीष्टतमसङ्गतावुत्काः ॥५९३॥क्रियतां भूषणशोभा त्वरयति मे मानसं मनोजन्मा ।रञ्जयति मनो नितरां कलधौतनिवेशितं रत्नम् ॥५९४॥घनजलदावृतककुभि प्रदोषसमये प्रदोषगमनाय ।विदधानया कुबुद्धिं रागान्धे किमिदमारब्धम् ॥५९५॥वचनप्रपञ्चसारं जायाश्रितमन्यदेशसम्बद्धम् ।पुरुषमभिगन्तुकामा नवेयमभिसारिका दृष्टा ॥५९६॥दरधौततिलकरचनां गलदम्भोबिन्दुलुलितकेशाग्राम् ।तिम्यत्तनुलीनावृतिचण्डानिलसलिलपातकण्टकिताम् ॥५९७॥अविभावितसमविषमप्रस्खलदङ्घ्रिं सहायकरलग्नाम् ।पुरतोऽध्वनः प्रमाणं मुहुर्मुहुः साध्वसेन पृच्छन्तीम् ॥५९८॥अन्यस्मिन्प्रेतपतौ व्यग्रे कृच्छ्रेण कथमपि प्राप्ताम् ।तत्कालयोग्यपरिजननिवेदितामिति विकल्प्य सह सचिवैः ॥५९९॥किं प्रेम्णोऽयं महिमा किमुतानन्त्यं धनप्रलोभस्य ।किं वान्यतः प्रवृत्ता प्रवेशिता वातवर्षेण ॥६००॥संनिहितकलत्राणामनुचितमिति बाह्यलोकसंवदनात् ।अन्यस्मिन्नुदवसिते विसर्जितामिष्टमालतीकेन ॥६०१॥लोकेन हास्यमानां बिभ्राणां वाससी जलक्लिन्ने ।रूपमदमुत्सृजन्तीं वैलक्ष्यव्रीडितेन नतवदनाम् ॥६०२॥पश्चात्तापगृहीतां कण्टकदर्भाग्रभिन्नपादतलाम् ।अस्मद्वचः स्मरन्तीं द्रक्ष्यन्त्यभिसारिकां सुकर्माणः ॥६०३॥इति परुषमभिदधानां मातरमवधीर्य युष्मदभ्यासम् ।चौरहतका व्रजन्तीं विद्रावितरक्षिणः सखीं मुमुषुः ॥६०४॥एषा प्रपञ्चरचना यदि भवति वृथा पुनः पुरस्तस्य ।वणिगिदमुपेत्य वक्ष्यति सहायपरिचोदितो भवतीम् ॥६०५॥पूर्वादत्तस्योपरि मुक्ताहारस्य केदरास्त्रिंशत् ।परिचारिकयानीता अन्यानपि मृगयते व्ययस्य कृते ॥६०६॥यत्तु घनसारकुङ्कुमचन्दनधूपादि मुक्तकं दत्तम् ।तत्सम्पुटके लिखितं शृणु पिण्डनिकां करोमि ते पुरतः ॥६०७॥एतावन्तं कालं नावष्टभ्यार्थिता त्वमसि ।रिक्तं भाण्डस्थानं साम्प्रतमिति याचना क्रियते ॥६०८॥एवंवादिनि तस्मिन्किं चिल्लज्जानता क्षणं स्थित्वा ।प्रश्रितया वाचा वाच्यः सवैलक्ष्यम् ॥६०९॥हारस्तवैव तिष्ठतु मध्यस्थस्थापितेन मूल्येन ।शेषं ततो यदन्यत्तद्दिवसैः संपादयिष्यामि ॥६१०॥इयमपि कपटग्रथना षण्डसमा चेत्तदीदृगभिधेयम् ।आशङ्कन्तेऽनिष्टं कातरहृदया हि योषितः प्रायः ॥६११॥अपटुशरीरे स्वामिनि विज्ञप्ता भगवती मया गत्वा ।भवतु निरामयदेहो जीवितनाथस्तव प्रसादेन ॥६१२॥सम्पन्नवाञ्छिताहं बल्युपहारेण पूजयिष्यामि ।सामग्रीविरहेण तु न वितीर्णा तत्र मे मनसि शूका ॥६१३॥अस्मिन्व्यर्थीभूते रिक्तीकृतशीर्णवेश्मनो दाहम् ।उत्पाद्य मन्दगामिनि सर्वविनाशः प्रकाशमुपनेयः ॥६१४॥स्निग्धत्वमलं बुद्ध्वा सहभोजनशयनवसनलिङ्गेन ।एभिरुपायद्रव्यैर्वान्तविरिक्तस्त्वया कार्यः ॥६१५॥वार्धुषिककदर्थनया भोगध्वंसात्सहायवचनैर्वा ।अवधारितेऽपि निपुणं वरगात्रि विलुप्तसारत्वे ॥६१६॥परुषवचोनिर्धारणमायत्यामीहितोपघातीति ।यत्नादमी विधेया गम्यस्य विमोक्षणोपायाः ॥६१७॥पृथगासननिर्देशः प्रत्युत्थानादिकेषु शैथिल्यम् ।सासूयसोपहासा आलापा मर्मवेधि परिहसितम् ॥६१८॥तत्प्रतिपक्षश्लाघा तदधिकगुणरागकीर्तनावृत्तिः ।वदति प्रियमाभीक्ष्ण्यं बहुप्रलापित्वदूषणाख्यानम् ॥६१९॥वचनान्तरोपघातैस्तत्प्रस्तुतसंकथासमाक्षेपः ।तद्व्यवहारजुगुप्सा सव्यपदेशस्तदन्तिकत्यागः ॥६२०॥व्याजेन कालहरणं स्वापावसरे विवर्तनं शयने ।निद्राभिभवख्यापनमुद्वेगः सम्मुखीकरणे ॥६२१॥गुह्यस्पर्शनिरोधः स्वभावसंस्था रताभियोगेषु ।चुम्बति वदनविकूणनमालिङ्गति कठिनगात्रसंकोचः ॥६२२॥असहिष्णुत्वं प्रहणनकररुहदशनक्षतिप्रसङ्गेषु ।दीर्घरते निर्वेदः स्वपिहीति वचोऽभियोजके भूयः ॥६२३॥तदशक्तावनुबन्धो वैदग्ध्यविकाशने तथा हासः ।रात्र्यवसानस्पृहया पुनः पुनर्यामिकप्रश्नः ॥६२४॥निःसरणं वासगृहादुषसि समुत्थाय तल्पतस्त्वरया ।सरभसमुदीरयन्त्या निशा प्रभाता प्रभातेति ॥६२५॥उभयेच्छया प्रवृत्तं निरुपाधि प्रेम भवति रमणीयम् ।अन्योन्यसमासक्तौ संस्थानमिवाभिजातमणिहेम्नोः ॥६२६॥यस्त्वेकाश्रयरागः परिभवदौर्बल्यदैन्यनाशानाम् ।स निदानमसंदिग्धं सीतां प्रति दशमुखस्येव ॥६२७॥यानि हरन्ति मनांसि स्मितवीक्षितजल्पितानि रक्तानाम् ।तान्येव विरक्तानां प्रतिभान्ति विवर्तितानीव ॥६२८॥विदधातु किमपि कथमपि निगृह्यमाणा मुहूर्तमासिष्ये ।इति यत्र मनः स्त्रीणां तत्रापि रते रमन्ति पशुतुल्याः ॥६२९॥यत्र न मदनविकाराः सद्भावसमर्पणं न गात्राणाम् ।तस्मिन्नुज्झितभावे पशुकर्मणि पशव एव रज्यन्ते ॥६३०॥अवधीरणयोपहतः प्रतिदिवसं हीयमानसद्भावः ।अभिमानवान्मनुष्यो योषितमूढामपि त्यजति ॥६३१॥साक्षिनिकोचं सख्याः पाणितलं पाणिना समाहत्य ।यं नरमुपहसति स्त्री ददातु तस्मै मही रन्ध्रम् ॥६३२॥पुरुषान्तरगुणकीर्तनमन्योद्देशेन चात्मनो निन्दाम् ।शृण्वन्नपि यः स्वस्थः स्वस्थोऽसौ कालपाशबद्धोऽपि ॥६३३॥अवगत्याभिप्रायं स्वामिन्याः परिजनोऽपि यं पुरुषम् ।व्यवहरति तिरस्कुर्वंस्तस्य न मूल्यं वराटिकाः पञ्च ॥६३४॥तत्त्वातत्त्वसमुत्थव्यवहृतयोर्योऽन्तरं न जानाति ।स्थानं भवति स पशुपतिरपसंशयमर्धचन्द्रलाभस्य ॥६३५॥क्रमगलितगौरवांशो रिक्ततया लाघवं परापतितः ।अप्राप्तपरिच्छेदतटः प्लवतेऽसौ युवतिसरसि कुमनुष्यः ॥६३६॥यत्नेन कपटघटिताञ्शृङ्गारज्ञापनार्थमनुभावान् ।रतिशिल्पजीविकाभिर्मूढास्तत्त्वेन गृह्णन्ति ॥६३७॥या धनहार्या नार्यो निर्मर्यादाः स्वकार्यतात्पर्याः ।ताभिरपि समीहन्ते बत मन्दाः संगतमजर्यम् ॥६३८॥अपरोक्षधनो गम्यः श्रीमानपि नान्यथेति निर्दिष्टम् ।कन्दर्पशास्त्रकारैः कुतः कथा लुप्तविभवेषु ॥६३९॥व्यासमुनिनापि गीतं द्वावेव नराधमौ मनो दहतः ।योऽनाढ्यः कामयते कुप्यति यश्चाप्रभुत्वयुक्तोऽपि ॥६४०॥क्षीणद्रव्ये देहिनि दारा अपि नादरेण वर्तन्ते ।किमुतादानैकरसाः शरीरपणवृत्तयो दास्यः ॥६४१॥अविदितहेयादेयास्तिर्यञ्चोऽपि त्यजन्ति पीतरसम् ।कुसुमं किमु कार्यविदो वेश्या नरमात्तसर्वस्वम् ॥६४२॥उत्पादयति सदानो रागं रागात्मको यथाभ्यधिकम् ।निर्दानोऽपि सदा नो निःसंदेहं तथैव मनुजन्मा ॥६४३॥यदतीतं तदतीतं भाविनि लाभेऽपि नातिबहुमानः ।तत्कालहस्तनिपतितमनियतपुंसां मुदे वित्तम् ॥६४४॥पीडितमधु मधुजालं तुच्छीभूतं च मन्मथाग्रस्तम् ।मुञ्चन्ति मदनशेषं क्षुद्राश्च प्रकटरामाश्च ॥६४५॥एकः क्रीणात्यद्य प्रातो भविता तथापरः क्रेता ।अन्यवशे क्षणमेकं न विक्रयः शाश्वतोऽस्ति वेश्यानाम् ॥६४६॥संदर्शितपरमार्थं भ्रूक्षेपकटाक्षदृष्टहसितादि ।शृण्वन्तु ये सकर्णास्तत्कृतमन्यत्र संक्रान्तम् ॥६४७॥यदि नाम निराकरणे न समर्था छिन्नकार्यबन्धेऽपि ।का चिन्महानुभावा बोद्धव्यं तदपि चेतनावद्भिः ॥६४८॥तेनार्थेनोपकृतं तयापि तस्य स्वदेहदानेन ।तच्चातीतं सम्प्रति निरर्थकः शुष्कशृङ्गारः ॥६४९॥अवधीरणा रसायनमपमानो भवति यस्य परितुष्ट्यै ।योग्योऽसौ पुरुषखरः खरतरनिर्भर्त्सनोक्तिलकुटानाम् ॥६५०॥दीपज्वालाललने व्रजतः खलु निर्वृतिं तयोस्त्वियान्भेदः ।प्रथमा स्नेहेन विना तथापरा स्नेहयोगेन ॥६५१॥धर्मः कामादभिनवगुणवन्निःस्वस्य मदनरोगवतः ।अर्थोऽर्थवतोऽभिगमात्कामः समरतनरोपभोगेन ॥६५२॥यस्तु न धर्मप्राप्त्यै नार्थाय न कामसाधनोपायः ।स पुमान्सच्चरितधनैः पर्यनुयुक्तः किमाचष्टे ॥६५३॥कामोद्वेगगृहीतं धूर्तैरुपहस्यमानशृङ्गारम् ।दारिद्र्यहतं यौवनमबुधानां केवलं विपदे ॥६५४॥व्यपगतकोषे रागिणि याति लयं पानमात्रलाभहृता ।क्षुद्रा मधुकरिकाब्जे न तु गणिका चिन्तितस्वार्था ॥६५५॥यासां कार्यापेक्षा सकटाक्षनिरीक्षणेऽपि वेश्यानाम् ।दर्शनमात्रक्षुभितैर्वञ्च्यन्ते ताः कथं पुरुषैः ॥६५६॥क्लेशाय दुर्गतानां मानस्तुतिगात्रभङ्गविन्यासम् ।गणिकाभिनयचतुष्टयमाकृष्ट्यै स्वापतेयपुष्टानाम् ॥६५७॥किं धक्ष्यति भूयोऽपि ज्वलनस्तं तादृशं कुलाङ्गारम् ।यो दह्यतेऽविरामं विरक्तदासीतिरस्कारैः ॥६५८॥गृहमेतदीश्वराणां कान्तारं दुष्प्रवेशमन्येषाम् ।पूत्कृतमिदमुद्भुजया न मालती कामसत्त्रदानपरा ॥६५९॥इति चोदितगृहचेटीनिगदितकटुकाक्षरान्यकृतलक्ष्याः ।आकर्णयतो वाचो दैवोपहतस्य तस्य मर्मभिदः ॥६६०॥एवमभिधीयमानो नो बुध्यति यदि पशुर्नराकारः ।तदिदं सुन्दरि वाच्यः प्रश्रितवचसा त्वया कामी ॥६६१॥प्रीयत एव तवोपरि हृदयं मे किं तु गुरुजनाधीना ।मातृवचोतिक्रमणं न समर्था संविधातुमहम् ॥६६२॥अर्हसि तावदतस्त्वं गन्तुमितः कतिपयान्यपि दिनानि ।पुनरपि भवतैव समं भोक्तव्यं जीवलोकसुखम् ॥६६३॥निर्वासिते तु तस्मिन्यः कामी पूर्वमुज्झितो भुक्त्वा ।तस्य प्राप्तविभूतेर्युक्तिरियं भिन्नसंधाने ॥६६४॥उपवनलीलाविहरणहावोज्ज्वलमञ्जुलस्य सह तेन ।वर्णनमितिवृत्तस्य स्मरजविकाराश्च वीक्षिते तस्मिन् ॥६६५॥इदमुपवनमतिधन्यं निर्भरमालिङ्गितं सुरभिलक्ष्म्या ।मत्स्कन्धार्पितपाणिर्बभ्राम स यत्र जीविताधीशः ॥६६६॥सख्य इतो भ्रमरकुलत्रासितया प्रियतमो मया सहसा ।वक्रीभवत्पयोधरमुपगूढो धीरसीत्कारम् ॥६६७॥रणदिन्दिन्दिरवृन्दे कूजत्कलकण्ठरावरमणीये ।अत्रातिमुक्तकगृहे मरुदीरणविधुतकुसुमसंछन्ने ॥६६८॥मयि जाताधिकरागो बलवति मदने सहायसामग्र्या ।कान्तः पल्लवशयने नो तृप्तिमगाद्विविक्तकार्येषु ॥६६९॥प्रेङ्खोलनवितरणयुक्त्या विध्यन्पार्श्वयोर्नखैर्धूर्तः ।चक्रे मां मदनमयीं व्रततिप्रेङ्खामिमां समारूढाम् ॥६७०॥स्पृहणीयोऽयमशोकः स्पृष्टो यद्वल्लभेन हस्तेन ।अस्मदवतंसकार्थं नूतनदलपल्लवान्विचारयता ॥६७१॥अस्मिन्सहकारतले तस्योत्सङ्गे सलीलमासीना ।अशृणवमहमिति वाचः पश्यन्ती विलसितानि तरुणानाम् ॥६७२॥उत्थापय मानरसे दयितं चरणाग्रनिपतितं तूर्णम् ।अत्याकृष्टं त्रुट्यति सुदृढमपि प्रेमबन्धनं मूढे ॥६७३॥तिष्ठन्नपि यातसमः किं तेन निवारितेन सखि पशुना ।यामीति निष्प्रकम्पं विनिःसृता यस्य माधवे वाणी ॥६७४॥आयुःसारं यौवनमृतुसारः कुसुमसायकवयस्यः ।सुन्दरि जीवितसारो रतिभोगसुखामृतास्वादः ॥६७५॥रम्यं कुसुमस्तबकं कुरु मे प्रिय कैङ्किरातमवतंसम् ।तिष्ठतु वा किमनेन प्रत्यग्रमशोककिसलयं चारु ॥६७६॥आस्तामास्तामेतत्प्रापय मां सिन्दुवारमभिरामम् ।नहि नहि राजति सुतरां चूतद्रुममञ्जरी कर्णे ॥६७७॥धिक्तारुण्यमकान्तं धिक्कान्तं यौवनेन रहितं च ।धिक्तद्द्वयमपि मन्मथसामर्थ्यविकासितं विना सुरतम् ॥६७८॥जनितोऽप्यपराधशतैर्वामे तस्मिंश्चिरप्ररूढोऽपि ।अवगतमधुना सख्यो न वसन्तमतीत्य वर्तते मानः ॥६७९॥वर्षशतस्य स सारः काललवः प्रथममेलकस्थानम् ।सचकितमागच्छन्ती सोत्कलिका यत्र दृश्यते रमणी ॥६८०॥किं निर्मितोऽसि धात्रा नवोऽपरः किमु वसन्तगुण एषः ।कुसुमशरपूर्णतूणः किमुताभवदन्य एव कन्दर्पः ॥६८१॥नो पश्यसि यदि ककुभः प्रचुरोज्ज्वलसुरभिकुसुमरमणीयाः ।परभृतकूजितमिश्रान्न शृणोषि यदि द्विरेफझङ्कारान् ॥६८२॥गन्धं यदि नो लभसे वासितदिग्व्योम सुमनसां हृद्यम् ।अनुभवसि यदि स्पर्शं नो शीतलदाक्षिणात्यपवनस्य ॥६८३॥रसनेन्द्रियैकशेषः परसंचार्यो जनेन परिभूतः ।नार्हसि ततोऽपि मुक्त्वा निजाश्रयं गन्तुमन्यतो नितराम् ॥६८४॥अस्मिन्सरसि सलीलं करयन्त्रविनिर्यदम्बुधाराभिः ।दयितेन ताडिताहं मयाप्यसावाहतो मृणालिकया ॥६८५॥पुनरन्तर्जलमग्नो मामुपगम्याविभावितः सहसा ।उच्चिक्षेप सहासं हासितसंनिहितपरिवारः ॥६८६॥संसक्तार्द्रावरणं जघनं नः पश्यतस्तदा तस्य ।प्रथमाकाङ्क्षाकूतं भेजे सम्भोगशृङ्गारः ॥६८७॥कालप्रदेशवेशव्यापारस्थितिविशेषघटनाभिः ।चिररूढोऽपि हि यूनां नवत्वमुपनीयते रागः ॥६८८॥सादरमर्पयतोऽब्जं गोत्रस्खलनापराधिनस्तस्य ।सख्यः स्मरामि सहसा विलक्षतां क्लिष्टहसितस्य ॥६८९॥प्रत्यग्रनखव्रणिते स्तनान्तरे क्षिपति लोचने स्पृहया ।प्रेयसि ह्रीताच्छादनमकरवमहमब्जिनीपत्रम् ॥६९०॥क्षिप्त्वातर्कितमम्भो गर्भितनलिनीपलाशपुटमारात् ।आहतया यद्विकृतं स्वस्थधिया तन्न शक्यते कर्तुम् ॥६९१॥सुश्लिष्टो हावविधिर्मदनालसगात्रजृम्भितं ललितम् ।गूढस्थानप्रकटनमङ्गुलिविस्फोटनं स्मितं सुभगम् ॥६९२॥नीविविमोचनबन्धौ मुहुर्मुहुः केशपाशविश्लेषः ।स्वाधरदशनग्रहणं बालकपरिचुम्बनं रतोत्सुकता ॥६९३॥साकाङ्क्षितं क्षिपन्त्यास्तरलायतलोचने मुहुः काम्ये ।उद्दिश्य तद्वयस्यकमिति शोकग्रस्तवर्णगिरः ॥६९४॥एकीभावं गतयोर्जलपयसोर्मित्रचेतसोश्च तथा ।व्यतिरेककृतौ शक्तिर्हंसानां दुर्जनानां च ॥६९५॥अतिपेलवमतिपरिमितवर्णं लघुतरमुदाहरति शण्ठः ।परमार्थतः स हृदयं वहति पुनः कालकूटघटितमिव ॥६९६॥येन तदा मामूचे परिजनमुत्सार्य विवृतनटमन्युः ।दर्शितहितस्वरूपः परपीडाकरणपण्डितः प्रखलः ॥६९७॥अविदितगुणान्तराणां को दोषः प्रान्तदेशवासानाम् ।स्वाधीनकुङ्कुमा अपि यद्विदधति बहुमतिं नीले ॥६९८॥क्व महीतलरम्भा त्वं न्यक्कृतचन्द्रप्रभा स्वदेहरुचा ।Cइत्रलता क्व वराकी नीचैरुपसेविता वोटा ॥६९९॥यस्यार्थे न विगणिताः प्रह्वात्मानो महाधनाः कुलजाः ।सोऽद्य हृदयेन तस्यां त्वयि तिष्ठति बाह्यवृत्तेन ॥७००॥तामेव समाचरणां सदसद्भावप्रवर्तितां निपुणैः ।विन्दन्ति तत्र कुशलाः स्नेहविरूक्षप्रभेदेन ॥७०१॥तव तु विरूढप्रेम्णस्तत्कर्मविवेचनं मनोवृत्तिः ।नारुहतीति मयैवं निवेदितं पारिचित्येन ॥७०२॥इति दुर्जनाहिनिःसृतवाग्विषदूषितसमस्तवपुषो मे ।ईर्ष्यारुजः प्रवृद्धाश्चिररूढप्रणयखण्डनप्रभवाः ॥७०३॥लघुहृदयतया यस्माद्दुर्भाषितवज्रपातविहतानाम् ।वक्तृविशेषवितर्को न स्पृशति प्रायशो मनः स्त्रीणाम् ॥७०४॥प्रियमपि वदन्दुरात्मा क्षिपति विपत्सागरे दुरुत्तरे ।आसाद्य प्राणभृतो मृतये परिलेढि जिह्वया खड्गः ॥७०५॥हितमधुराक्षरवाणीव्यवहारमनुप्रविश्य तल्लीनम् ।सरला दुराशयानामुपघातं फलत एव विन्दन्ति ॥७०६॥परसंतापविनोदो यत्राहनि न प्रयाति निष्पत्तिम् ।अन्तर्मना असाधुर्न गणयति तदायुषो मध्ये ॥७०७॥दिवसान्तानभिनन्दति बहु मनुते तेषु जन्मनो लाभम् ।ये यान्ति दुष्टबुद्धेः परोपतापाभियोगेन ॥७०८॥विकसितवदनः प्रखलः प्रोत्फुल्लविलोचनो यथा भ्रमति ।मन्ये तथा न जातः सदहितकरणश्रमो वन्ध्यः ॥७०९॥शठमृगयुः कुसृतिशरैरज्ञातप्रतिविधानसाधुमृगान् ।अभ्यस्तलक्षवेधो निघ्नन्न परिश्रमं व्रजति ॥७१०॥अनुकूलवरपुरन्ध्रिषु पुरुषाणां बद्धमूलरागाणाम् ।नयति मनो दुःशीलः कुसुमास्त्रो हीनपात्रेषु ॥७११॥सावरणं व्रजतोऽन्यां कौतुकदृष्ट्या प्रसङ्गतो दयितान् ।बुद्ध्वापि विदग्धधियो वर्तन्ते नाट्यधर्मेण ॥७१२॥सत्यं प्रेमणि वृद्धे व्यथयति हृदयं मनागपि स्खलितम् ।अवधृतनिजमाहात्म्यास्तदपि न धीरा विमुह्यन्ति ॥७१३॥स्वच्छन्दं पिबतु रसं भ्रान्त्वा भ्रान्त्वा वनानि कुसुमेषु ।अनुभूतगुणविशेषः पुनरेष्यति मालतीं मधुपः ॥७१४॥मालत्या गुणवत्तां सम्यग्नो वेत्ति मधुकरस्तावत् ।अनुभवमेति न यावत्सुमनोन्तरसंगमास्वादे ॥७१५॥कोमलमानकदर्थां भजमानो भजति दीप्ततामधिकाम् ।संचाल्यमानदारुः पावक इव सुप्रभः स्नेहः ॥७१६॥यः पुनरतिकोपानलसंतापवशेन दूरमाकृष्टः ।काचमणिः स खलु यथा परिणामे खण्डखण्डमुपयाति ॥७१७॥वेतनलोभाद्बहवः सेव्यन्ते सौष्ठवेन पञ्चजनाः ।विश्राम्यति यत्र मनः स तु दुष्प्रापः सहस्रेषु ॥७१८॥मन्वादिमुनिवरैरपि कालत्रयवेदिभिः सुदुर्ज्ञेयम् ।तत्सुकृतं यस्य फलं रभसागतवल्लभाश्लेषः ॥७१९॥यातेऽपि नयनमार्गं प्रेयसि यस्याः स्मृतिर्व्यलीकेषु ।मन्ये तां प्रति नियतं कुण्ठितशरपञ्चकः मदनः ॥७२०॥जीव्यत एव कथं चिद्धिग्वृत्तिमिमां महद्भिरवगीताम् ।विजहाति यन्न गणिका तद्वाञ्छितरमणलाभलोभेन ॥७२१॥कण्टकिनः कटुकरसान्करीरखदिरादिविटपतरुगुल्मान् ।उपभुञ्जाना करभी दैवादाप्नोति मधुरमधुजालम् ॥७२२॥का श्रीरप्रणयिवशा का विलसितयो मनोभवविहीनाः ।को धर्मो निरुपशमः किं सौख्यं वल्लभेन रहितानाम् ॥७२३॥स्वाच्छन्द्यफलं बाल्यं तारुण्यं रुचितसुरतभोगफलम् ।स्थविरत्वमुपशमफलं परहितसम्पादनं च जन्मफलम् ॥७२४॥अभिदधतीमिदमालीमवकर्ण्य गृहीतयेव भूतेन ।यौवनसुखेन सार्धं मयैव यूयं परिच्छिन्नाः ॥७२५॥अधुनानुतापपावकमध्यगता पच्यमानसर्वाङ्गी ।निष्फलजन्मप्राप्तिर्जीवाम्युच्छ्वासमात्रेण ॥७२६॥स्थानेषु येषु युष्मत्संगतया क्रीडितं चिरं धृत्या ।तानि खलु वीक्षमाणा भवामि कण्ठस्थितप्राणा ॥७२७॥अन्यवशेन विसंज्ञा कृतभूषा यन्त्रसूत्रसंचारा ।दारुमयीव प्रतिमा विदधामि विडम्बना बह्वीः ॥७२८॥यदि नामोदरभरणप्राप्त्यै कुरुतेऽन्यपुष्पसंश्लेषम् ।तदपि न पुष्टिर्भृङ्ग्या अपिबन्त्या आरविन्दमकरन्दम् ॥७२९॥आस्तामपरो लोकः क्रीडापेक्षी परापदि प्रीतः ।व्यसनार्णवे पतन्ती न वारिता परिजनेनास्मि ॥७३०॥किं वा बहुभिः कथितैः सम्प्रति नियमे तु नियमिता बुद्धिः ।स्थास्यामि संनियुक्ता भवद्गृहे प्रेष्यकार्येषु ॥७३१॥इति नेत्रादिविकारैर्वशमुपनीतं प्रलीनधैर्याङ्गम् ।मारग्रहाभिभूतं परिमृष्टप्राङ्निराकृतिस्मरणम् ॥७३२॥प्रादुर्भूतरिरंसं क्षणे क्षणे जत्रुदेशगतदृष्टिम् ।पक्वाम्रमिव विमोक्ष्यसि पूर्ववदाचूष्य सुभ्रु निःशेषम् ॥७३३॥स्वशरीरामिषदिग्धं वक्रस्मितदृष्टिपातवाग्बडिशम् ।प्रक्षिप्याकृश्य जडं स्फुरणेन विवर्जितं सुपरिपुष्टम् ॥७३४॥हस्तद्वयान्तरागतमुपचारपरिव्ययेन संस्कृत्य ।भुक्त्वा यावन्मांसं त्यक्ष्यसि चर्मास्थिशेषितं मत्स्यम् ॥७३५॥शृणु सुश्रोणि यथास्मिन्कलशेश्वरपादमूलमञ्जर्या ।प्रवराचार्यदुहित्रा राजसुतश्चर्वितश्च मुक्तश्च ॥७३६॥आसीच्छ्रीसिंहभटो नाम्ना नृपतिर्महीयसां प्रष्ठः ।तस्यात्मजोऽधितस्थौ निवेशनं देवराष्ट्रसंबद्धम् ॥७३७॥स कदा चिद्वृषभध्वजदिदृक्षया परिमिताप्तपरिवारः ।अनुवर्तमान आगात्तारुण्योदीर्णवेशचरितानि ॥७३८॥मूर्धत्रिभागसंस्थितबृहदम्बरचीरकेशसंयमनः ।अल्पाच्छगात्ररागो घनकुङ्कुमलिप्तकर्णकेशाग्रः ॥७३९॥सिद्धार्थबीजदन्तुरललाटतिलकोपयुक्तताम्बूलः ।श्रवणनिवेशितकुण्डलटीटिभकप्रायकन्धराभरणः ॥७४०॥केयूरस्थानगतस्वर्णावृतमन्त्रगर्भजतुगुडकः ।मणिबन्धनविन्यस्तप्रचलाङ्कुरजातरूपमणिमालः ॥७४१॥धृतवेत्रदण्ड ऊर्णकपरिवेष्टितसासिधेनुकनितम्बः ।मृदुतरपटिकावरणः शब्दोल्बणचुर्चुराङ्कचरणत्रः ॥७४२॥ङम्भीरेश्वरदास्यां लग्नः किल तव वयस्यको वीरः ।प्राप्स्यति सापि दुराशावर्षत्रितयेन यन्मया प्राप्तम् ॥७४३॥दर्शयति दिशः फलिता अमृतगभस्तिं करेऽवतारयति ।षुरदेवि अन्द्रवर्मा निर्वस्तुकवाक्प्रपञ्चेन ॥७४४॥त्वामनुयान्तं सम्प्रति पश्यामि कुरङ्गि वसुषेणम् ।सुनिरूपिता भविष्यसि विषमा गुडजिह्विका तस्य ॥७४५॥चर्वयति जलं योऽसौ हरिणि हरो धूर्तताभिमानेन ।लिखति शतं दशवृद्ध्या स निमग्नस्तरलिकावर्ते ॥७४६॥गृह्णासि यत्पटान्ते मम पश्यत एव नन्द मदिराख्याम् ।अत आवयोरवश्यं मा वक्ष्यसि नोक्तमन्तरं भवति ॥७४७॥योऽयं गृहीतबृसिकः कुशकर्णो विधृतदण्डकाषायः ।लोकस्पर्शाशङ्की कृतापसारो विलोकयन्पार्श्वौ ॥७४८॥कुर्वाणो मौनव्रतमुत्पादितसकलवैष्णवश्रद्धः ।हरिशासनं प्रपन्नस्त्रिपुरान्तकदर्शनापदेशेन ॥७४९॥स्त्रैणं पश्यति युक्त्या साकाङ्क्षं वर्जितान्यजनदृष्टिः ।कुमुदिनि मम हृदयगतं भवितव्यं व्याजलिङ्गिनानेन ॥७५०॥पश्यत्यदृश्यमानो निरीक्षितो वीक्षते परां ककुभम् ।ब्रूते किं चित्सस्पृहमभियुक्तो भवति कीलितध्वानः ॥७५१॥न जहाति समासन्नं नोत्सहते स्पर्शगोचरे स्थातुम् ।एष मनुष्यो मन्ये निष्प्रतिभः साभिलाषश्च ॥७५२॥तेऽतीताः खलु दिवसाः क्रियते नर्म त्वया समं येषु ।अधुनाचार्यानी त्वं भाशुद्धाचार्यसम्बन्धात् ॥७५३॥भ्रमसि यथेष्टं तावत्कुर्वाणो युवतिपल्लवग्रहणम् ।ऌओलिकदास न यावन्नरदेवीपाशिकां विशसि ॥७५४॥एवंप्रकारवाक्यप्रसक्तविटचेटिकासमाकीर्णम् ।सेवाचतुरपुरःसरविजनीकृतवर्त्म देवकुलम् ॥७५५॥सम्पादितहरपूजो निष्ठुरयाष्टीकनियमिते लोके ।त्वरितनियोगिस्थापितमासनमध्यास्त समरभटः ॥७५६॥अग्रोपविष्टनर्तकवांशिकगातृप्रकाशयुवतिगणः ।श्रेष्ठिप्रमुखवणिग्जनढौकितताम्बूलकुसुमपटवासः ॥७५७॥विविधविलेपनखरटितचक्रकधरखड्गधारिणाशून्यः ।पृष्ठत आत्तकृपाणैः शिरोभिरक्षैश्च विश्वस्तैः ॥७५८॥ताम्बूलकरङ्कभृता सन्दंशगृहीतवीटिकाग्रहणे ।ईषत्स्पृष्टं कुर्वन्मन्दं खटकामुखेन वामेन ॥७५९॥पार्श्वावस्थितनर्मप्रियसचिवन्यस्तपूर्वतनुभागः ।पप्रच्छ कुशलवार्तां स वणिग्जननर्तकप्रभृतीन् ॥७६०॥अथ वैतालिक उच्चैरुपसंहृतलोककलकले धीरः ।अभितुष्टाव तमित्थं प्रसन्नगम्बीरया वाचा ॥७६१॥जय देव परबलान्तक गुरुचरणाराधनैककृतचित्त ।परवनिताजघनासन दारिद्र्यतमःप्रचण्डकरजाल ॥७६२॥रणधीरवंशभूषण गुरुवसुधादेवपूजनप्रह्व ।शरणागताभयप्रद हितबान्धवबन्धुजीवमध्याह्न ॥७६३॥ईदृक्प्रतापदहनो भावत्को व्याप्तगगनदिक्चक्रः ।दृष्टो जलायमानो रिपुवनितातिलकशोभासु ॥७६४॥एष विशेषः स्पष्टो वह्नेश्च त्वत्प्रतापवह्नेश्च ।अङ्कुरति तेन दग्धं दग्धस्यानेन नोद्भवो भूयः ॥७६५॥श्रीफलभुक्पत्रवृतो विग्रहरसिको विमुक्तसत्त्ररतिः ।राज्यस्थितिं न मुञ्चति हृतलक्ष्मीकोऽपि तव विपक्षगणः ॥७६६॥ददतो वाञ्छितमर्थं सदानुरक्तस्य तव गृहं त्यक्त्वा ।स्त्रीचापलेन कीर्तिर्नग्नासक्ता गता ककुभः ॥७६७॥भवतः भवतो धैर्यं तेन हि भिन्नोऽन्धकः प्रणतः ।मुक्तास्त्वया तु बहवो रिपवोऽपि प्रेक्षकाः समरे ॥७६८॥अटता जगतीमखिलामिदमाश्चर्यं मया दृष्टम् ।धनदोऽपि नयननन्दन परिहरसि यदुग्रसम्पर्कम् ॥७६९॥इदमपरमद्भुततमं युवतिसहस्रैर्विलुप्यमानस्य ।वृद्धिर्भवति न हानिर्यत्तव सौभाग्यकोशस्य ॥७७०॥अपरं विस्मयजननं धवलत्वं नापयाति यद्भवतः ।ललनालोचनकुवलयदलत्विषा शबलितस्यापि ॥७७१॥हृदयेषु कामिनीनामेकोऽनेकेषु वससि येन त्वम् ।जनक कुसुमास्त्रपाणेः पुरुषोत्तम तेन विश्वरूपोऽसि ॥७७२॥किं वहसि वृथा गर्वं प्रियोऽहमिति योषितां नराधीश ।काङ्क्षन्ति स्म मुरारिं षोडशगोपीसहस्राणि ॥७७३॥ब्राह्मण्येन ययाचे मखसमये यः Bअलिं हृषीकेशः ।न स भवति समो भवता दानैकनिषण्णहृदयेन ॥७७४॥भूमिभृतामुपरिस्थित उन्नत्या सकलजीवलोकस्य ।तृष्णासंतापहरो मेघ इव कदा न दक्षस्त्वम् ॥७७५॥बहुमार्गो भङ्गयुतः कुसृतिपरो गोत्रभेदकरणपटुः ।ङङ्गाजलप्रवाहः पुण्यदिशा केवलं तव समानः ॥७७६॥दुर्व्यवहारोत्पत्तिर्मौर्ख्यप्रसवोऽविवेकितावसतिः ।एकस्त्वं दोषज्ञः कृतीकृतो येन कलिकालः ॥७७७॥सुगतोऽपि नाजिविमुखो वृषध्वजोऽपि न विषादितायुक्तः ।उद्यतशस्त्रोऽपि रिपौ कथमसि सन्नासिको जातः ॥७७८॥सन्मणिरनेकभोगो गुरुभारसहः स्थिरात्मतास्थानम् ।नरदेव चित्रमेतद्यदशेषगुणैस्त्वमाश्लिष्टः ॥७७९॥प्रकृतिलघोर्येन कृता जघन्यवर्णस्य गौरवापत्तिः ।जघनचपला तथार्या स पिङ्गलस्ते कथं तुल्यः ॥७८०॥यस्य न जातिर्नात्मा नार्थज्ञानं न मानसे प्रशमः ।भवसि भवसार न त्वं तेनाद्वयवादिनासदृशः ॥७८१॥तत्रापि वृद्धियोगस्तस्मिन्नपि पुरुषगुणगणख्यातिः ।परिभाषा तत्रापि व्याकरणान्नातिरिच्यसे तेन ॥७८२॥निर्व्याजस्तवनोऽपि त्यक्ताक्षेपोऽपि निरुपमानोऽपि ।सद्रूपकजातिगुणैर्नाथ त्वं गामलङ्कुरुषे ॥७८३॥अन्यैव वर्णनैषा भवत्सु लोकोत्तरा स्थिता कापि ।वामो यथैव शत्रुषु मित्रेषु तथैव वामोऽसि ॥७८४॥पूजयसि येन गुरुजनमभिनन्दसि येन साधुचरितानि ।प्रीणयसि येन विप्रान्नृपनन्दन तेन वृषलस्त्वम् ॥७८५॥दैन्यमिदं यच्छ्लाघा क्रियते तव रक्षसापि न समस्य ।न स हठमकरोद्योषिति भवांस्तु भुङ्क्ते प्रसह्य रिपुलक्ष्मीम् ॥७८६॥रामणिकाचाटुपदस्तवनं यल्लाभहेतुरस्माकम् ।तत्पतति ते स्वरूपे यामि नमः सन्तु सौख्यानि ॥७८७॥श्रुत्वानन्तरमवदद्बन्दिनमभिनन्द्य साधुवादेन ।आस्स्व किमाकुलता ते यास्यसि तुष्टो मया प्रहितः ॥७८८॥पुनरपि पठ तद्युगलं गीतिकयोर्यत्त्वया पुरा पठितम् ।कक्षान्तरितेन मम स्थितस्य कुलपुत्रिकावासे ॥७८९॥त्वयि वदति साधुवादं वागियमुन्मुद्रिता बुधसमाजे ।अभिधायेति पपाठ त्रिस्थानविशुद्धनादेन ॥७९०॥एका खण्डनकुपिता विरसान्या प्रणयभङ्गवैलक्ष्यात् ।का चिन्निकटतरासनमप्राप्य बिभर्ति हृदयनिर्वेदम् ॥७९१॥अन्या कलहान्तरिता नवपरिणयलज्जयापरा विहता ।रमणीगणमध्यगतः स्मरातुरः किं करोतु बहुजानिः ॥७९२॥अभ्युपगमावबोधकमस्तकचलनं विधाय विकृतभ्रूः ।नृत्ताचार्यमवादीदेतस्मिन्किं सुसंगीतम् ॥७९३॥स उवाच ततो वणिजो नेतारो यत्र यत्र पात्राणि ।शाठ्यायतनं दास्यस्तत्र कुतः सौष्ठवं नाट्ये ॥७९४॥का चिद्बलिनाक्रान्ता का चिन्न जहाति कामिनं रुचिरम् ।अन्या पानकगोष्ठ्यां नयति दिनं प्रीतकैः सार्धम् ॥७९५॥नोत्सृजति सततमेका पुरुषागमनाशया गृहद्वारम् ।शूलापालः कथयति लब्धोत्कोचो रजस्वलामपराम् ॥७९६॥रङ्गगतापि क्षुद्रा शृणोति यदि परिचितं गृहायातम् ।उद्दिश्य वारिकार्यं व्रजति ततः प्रकृतमुत्सृज्य ॥७९७॥आ तारुण्योद्भेदात्कान्ते दृष्टिर्ययाभ्यस्ता ।सामाजिकमध्यस्था सा कथमन्यासु याति परभागम् ॥७९८॥चेतोवशिता सत्त्वं सत्त्वे सति चारुता प्रयोगस्य ।न भवति सा वेश्यानां मद्यामिषपुरुषनिहितहृदयानाम् ॥७९९॥वयमपि देवनिकेतनमनङ्गहर्षे गते त्रिदशलोकम् ।आश्रितवन्तोऽगत्या तीर्थस्थानोपरोधेन ॥८००॥इह तु कदा चित्किं चिद्वृत्तिनिरोधाभिशङ्कया निरुत्साहाः ।रत्नावल्यामेता विदधति करपादविक्षेपम् ॥८०१॥वत्सेशभूमिकास्या इयमनुकुरुते नरेश्वरवयस्यम् ।वासवदत्ताचरितप्रयोगमेषा विडम्बयति ॥८०२॥उद्यमसाहित्यवशाच्छोभातिशयेन मदनुबन्धेन ।अनया प्रसिद्धिराप्ता सिंहलराजात्मजानुकृतौ ॥८०३॥विविधस्थानकरचनां परिक्रमं गात्रवलनलालित्यम् ।काकुविभक्तार्थगिरो रसपुष्टिं वासनास्थैर्यम् ॥८०४॥सात्त्विकभावोन्मीलनमभिनयमनुरूपवर्तनाभरणम् ।मिश्रामिश्रे वाद्ये लयाच्युतिं वर्णयन्ति मञ्जर्याः ॥८०५॥एषाभिधानकीर्तननाशितसशरीरकुसुमशरबोधा ।सहसोद्भिन्नमनोभवभावदृशा सिन्दुवारविवरेण ॥८०६॥पश्यन्ती वत्सेश्वरमनुकार्यानुकरणभेदपरिमोषम् ।साधुध्वनिमुखराननसामाजिकजनमनःसु विदधाति ॥८०७॥वत्सपतिमालिखन्ती कामावस्थां क्रमेण भजमाना ।वेपथुपुलकस्वेदैरावहति विसंष्ठुलं हस्तम् ॥८०८॥सदृशेऽप्यनुभावगणे करुणरसं विप्रलम्भतो भिन्नम् ।दर्शयति निरभिकाङ्क्षितमुद्बन्धनगोचरापन्ना ॥८०९॥तस्मिन्निर्दिशतीत्थं मञ्जरिकां साभिलाषमवलोक्य ।पस्पर्श राजपुत्रः किमसाविति वेत्रदण्डेन ॥८१०॥बुद्ध्वाथ तस्य भावं प्रसारयन्युवतिसंकथाकेलिम् ।न्यक्कुर्वन्वारवधूः सचिवः प्रशशंस बन्धकीगमनम् ॥८११॥दाररतिः संततये व्याधिप्रशमाय चेटिकाश्लेषः ।तत्खलु सुरतं सुरतं कृच्छ्रप्राप्यं यदन्यनारीषु ॥८१२॥स्वव्यापारैकमतेः परचिन्ता नास्ति मे कदा चिदपि ।पश्यन्त्यास्त्वामीदृशमद्य तु मे मानसं व्यथितम् ॥८१३॥यदि वेद्मि तस्य वसतिं सामर्थ्यं यदि भवेत्ततोऽभ्यधिकम् ।तद्गत्वा दग्धविधिं लगुडैः संचूर्णयिष्यामि ॥८१४॥वपुरिदमनुपममीदृग्यदि विहितं तव कृशाङ्गि हतधात्रा ।अनुरूपरमणविरहात्किमिति कृतं वन्ध्यजन्मफलम् ॥८१५॥शैशवमस्तु जरा वा व्याधिर्वा क्षेत्रियः प्रणाशो वा ।स्वाकारं तारुण्यं न तु कुपतिकदर्थनाग्रस्तम् ॥८१६॥केलिः प्रदहति मज्जां शृङ्गारोऽस्थीनि चाटवः कटुकाः ।न करोति मनस्तुष्टिं दानमभव्यस्य गृहभर्तुः ॥८१७॥कुत आगतासि कस्मिन्वेलामियतीं स्थिता किमर्थमिति ।पृच्छन्नस्वस्थमना जनयति गेही शिरःशूलम् ॥८१८॥यदि भवति दैवयोगाच्चक्षुर्विषये समुज्ज्वलस्तरुणः ।तत्रात्मानं क्षपयति जायां च रटन्गृहस्वामी ॥८१९॥सविवादे परलोके जनापवादेऽपि जगति बहुचित्रे ।दैवाधीने प्रलये न विदग्धा हारयन्ति तारुण्यम् ॥८२०॥दुर्भर्तृकरास्फालनमलिनीक्रियमाणशोभमनुदिवसम् ।तुङ्गमपि पतितकल्पं स्तनशालिनि तव पयोधरद्वन्द्वम् ॥८२१॥पर्यङ्कः स्वास्तरणः पतिरनुकूलो मनोहरं सदनम् ।तुलयन्ति न लक्षांशं त्वरितक्षणचौर्यसुरतस्य ॥८२२॥सहसा संकटवर्त्मन्यवितर्कितसम्मुखागतेन विशा ।अभिलषितेनोद्घृष्टकमनल्पशुभकर्मणा लभ्यम् ॥८२३॥प्रीतिः किल निरतिशया स्वर्गः परलोकचिन्तकैर्गदितः ।तस्यास्तु जन्मलाभो हृदयेप्सितपुरुषसंभोगात् ॥८२४॥अतटस्थस्वादुफलग्रहणव्यवसायनिश्चयो येषाम् ।ते शोकक्लेशरुजां केवलमुपयान्ति पात्रतां मन्दाः ॥८२५॥किं प्रतिकूला ग्रहगतिरुत परिणतमन्यजन्मदुश्चरितम् ।स्वानुष्ठानाभ्यसनं किं वा तस्यात्मयोनिहतकस्य ॥८२६॥येन तपस्वी स युवा स्तौति समीरं त्वदङ्गसंस्पृष्टम् ।त्वत्पादाक्रान्तभुवे स्पृहयति ककुभं त्वदाश्रितां नमति ॥८२७॥ध्यायति युष्मद्रूपं त्वन्नामकवर्णमालिकां जपति ।एकाग्रीकृतचेतास्त्वत्संगतसौख्यसिद्धिमभिकाङ्क्षन् ॥८२८॥उत्सृष्टसकलकार्यस्तिर्यग्ग्रीवं विलोकयन्भवतीम् ।कुरुते गृहाग्ररथ्यां यातायातैः शतावर्ताम् ॥८२९॥दृष्टोऽसि तया सुचिरं गेहाभ्याशे परिभ्रमन्स्पृहया ।संदेश एष दत्तः प्राभृतमेतत्तव प्रहितम् ॥८३०॥शुष्यति सालभमाना भवत्कृते वेश्मनिर्गमावसरम् ।इति चतुरशठस्त्रीभिर्विलुप्यते त्वदपदेशेन ॥८३१॥किं वा कथितैरधिकैरस्थानाविष्टचेतसस्तस्य ।अनुतिष्ठ यथायुक्तं त्वत्तो नाशश्च जीवरक्षा च ॥८३२॥कुलपतनं जनगर्हां नरकगतिं प्राणितव्यसंदेहम् ।अङ्गीकरोति तत्क्षणमबला परपुरुषमभियान्ती ॥८३३॥स तु लिखति दासपत्रं त्यजति कुटुम्बं ददाति सर्वस्वम् ।यावन्न भवति पुरतः परयुवतिः प्रोज्झितावरणा ॥८३४॥दृष्टं यद्द्रष्टव्यं व्यपयातं कौतुकं विदितमन्तः ।इति याति मनसि कृत्वा विहितविधेयस्ततस्तूर्णम् ॥८३५॥सापि च्छिन्ना च्छोटनगृहीतमुक्ता विलोकयन्त्याशाः ।विशति गृहं संत्रस्ता सर्वत आशङ्किता सवैलक्ष्या ॥८३६॥नवचारित्रभ्रंशात्सुरचितकुलटोत्तरेषु नो निपुणा ।पृष्टा क्व गतासि त्वं न क्व चिदिति सम्भ्रमाद्ब्रूते ॥८३७॥एते दोषा बहवः पुरुषा अपि चपलकौतुकाः प्रायः ।त्वं च ग्रहेण लग्ना कार्यविमूढात्र तिष्ठामि ॥८३८॥इति दोलागतहृदया स्थिरीकृताभ्यस्तकर्मणा दूत्या ।दृष्टेति शङ्कमाना पदे पदे चलति पर्णेऽपि ॥८३९॥सर्वत्र विक्षिपन्ती मुहुर्मुहुश्चकिततरलिते नेत्रे ।प्राप्ता संकेतभुवं शतगुणितमनोरथाकृष्टा ॥८४०॥भयशृङ्गारव्रीडामिश्रीभूतानुभावसन्दोहम् ।जनयन्ती लोलांशुकदृष्टादृष्टांसकुचनाभिः ॥८४१॥नीवीश्लथनारम्भं निरुन्धती न न न यामि यामीति ।निभृतास्फुटाभिधानैः पल्लवयन्ती स्मरस्य कर्तव्यम् ॥८४२॥नयतीवान्तर्विलयं ग्रसमाना सर्वगात्राणि ।यं श्लिष्यतेऽन्ययोषा तिक्तं तस्यामृतं पुरतः ॥८४३॥न कृतं तव रहसि पुरो बाष्पावृतकण्ठकुण्ठया वाचा ।गेहस्वामितिरस्कृतिनिष्पादितदुःखवेगनिर्वहणम् ॥८४४॥उपधानीकृत्य भुजावन्योन्यं निर्विशङ्कमावाभ्याम् ।संवलितोरु न सुप्तं शिथिलाङ्गं रतिविमर्दखिन्नाभ्याम् ॥८४५॥आत्मगृहादानीतं प्रच्छाद्य स्वादु भोजनं विजने ।स्वकरेण मया दत्तं निर्वृतहृदयेन नाशितं भवता ॥८४६॥न कृता चरित्ररक्षा न च भुक्तं त्वच्छरीरमपयन्त्रम् ।दृष्टादृष्टभ्रष्टा क्व यामि किं वा करोमि दुर्जाता ॥८४७॥अवगुण्ठनविनयरतिं स्वैरालपनं सुमन्दसंचारम् ।सम्प्रति मम पापायाः करपिहितमुखा हसन्ति भूमिज्ञाः ॥८४८॥यासामासीत्सख्यं मया समं समवयःकुलस्त्रीणाम् ।ता वारयन्ति मत्तः कुसङ्ग इति तन्नियन्तारः ॥८४९॥धिग्वादान्परिजनतः सहमाना मन्युरोधनतवदना ।तिष्ठामि निरभिमाना स्वविनिर्मितदोषदौर्बल्यात् ॥८५०॥सद्भिर्विधीयमानं प्रसङ्गपतितं पतिव्रतास्तवनम् ।हृदयेन दूयमाना मूढा सीदामि शृण्वन्ती ॥८५१॥आसन्न उपविशन्तीं मन्दाक्षान्मां निषेद्धुमसमर्थाः ।अन्योन्यमीक्षमाणा ज्ञातिजनाः संकुचन्ति भुञ्जानाः ॥८५२॥प्रकटीकृता त्वयैव क्षणमात्रममुञ्चता गृहोपान्तम् ।अस्मासु दृशं मग्नां प्रेमस्निग्धामनुद्धरता ॥८५३॥परगृहविनाशपिशुनाः सुभगंमन्याभिरूप्यकृतदर्पाः ।कृकलासतुल्यरागा भवन्ति युष्मद्विधा एव ॥८५४॥अनभीष्टव्यवहारप्रभवशुचा पीडिताक्षरा इत्थम् ।सोपालम्भा विजने धन्याः शृण्वन्ति बन्धकीवाचः ॥८५५॥परतरुणीसद्भावस्नेहार्पितनयनभागदृष्टस्य ।वेश्यारचितविलासाः कथिताः पुरतः पुराणतृणतुल्याः ॥८५६॥उपनमति रतिमहोत्सव आराधितदेवताविशेषाणाम् ।वचनमपि प्रेमार्द्रं स्वैरिण्याः श्रवणमेति पुण्यवताम् ॥८५७॥का गणना विषयरते पुंसि वराके पराङ्गना स्पृहया ।व्याजेन वीक्षमाणा ध्यानधियां स्पृशति मज्जानम् ॥८५८॥शिरसा रचिताञ्जलयो दधति निदेशं त्रिविष्टपे गणिकाः ।परदाररसाकृष्टस्तथापि भेजे शचीपतिरहल्याम् ॥८५९॥अप्सरसः किं न वशा वैदग्ध्यवतां च किं न धौरेयः ।येन चकारासक्तिं गोविन्दो गोपदारेषु ॥८६०॥त्रैलोक्यगता वेश्याः स्वाधीना यातुधाननाथस्य ।तदपि जहार कलत्रं दशरथतनयस्य रामस्य ॥८६१॥अथ मञ्जर्या जननी निजपक्षसमर्थने कृतोत्साहा ।आक्षेप्तुमाचचक्षे नृपसुतसचिवाश्रितं वाक्यम् ॥८६२॥घटयुवतिषु प्रगल्भो नागरिकादर्शनेन हृतपुंस्त्वः ।ग्रामोषितोऽविदग्धो निन्दति गणिकां भवद्विधोऽवश्यम् ॥८६३॥नार्द्रयति मनः पुंसामवगाहितमीनकेतुशास्त्राणाम् ।नखदशनक्षतिहीनं जीवत्पतिबन्धकीसुरतम् ॥८६४॥स्थापय घटकं तावत्कुरु भूमितले तृणैः समास्तरणम् ।सुरतोपक्रम ईदृक्प्रायो ग्रामीणतरुणमिथुनानाम् ॥८६५॥बहलोशीरविलिप्तस्थितजूटककाणमल्लिकामाल्यः ।पामरनार्या दृष्टः स्मरोऽहमिति मन्यते विटो ग्राम्यः ॥८६६॥गृहकर्मकृतायासप्रस्विन्नां सलिलकार्यनिर्याताम् ।उपपतिरुपैति हर्षं निशागमे पामरीं प्राप्य ॥८६७॥कूपावतारितघटाया नार्याः काष्ठनिहितचरणायाः ।वलितग्रीवं वीक्षितमुन्नमयति मानसं यूनः ॥८६८॥लग्नोऽसि यत्र गात्रे कथमपि दैवेन देवयात्रायाम् ।अद्यापि तन्न मुञ्चति पुलकोद्गमकण्टकं तस्याः ॥८६९॥उच्चेतुं कर्पासं प्रविष्टया गहनवाटिकां शून्याम् ।खङ्कारितेन संज्ञा कृता तया त्वं तु वेत्सि नो मूर्खः ॥८७०॥आलिङ्गितमुसलायास्त्वय्येव निविष्टचक्षुषस्तस्याः ।आवृत्त्या भ्रमति पुरो जातः खलु शालिखण्डने विघ्नः ॥८७१॥त्वां विल्वकं क्षिपन्तं पार्श्वस्थैः स्तूयमानसामर्थ्यम् ।गृहकर्तव्यं त्यक्त्वा सापश्यद्द्वाररन्ध्रेण ॥८७२॥त्वयि मार्गनिकटवर्तिन्यविवेचितखेदया तया सुभग ।प्रत्यासन्नगृहेष्वपि कृतः प्रसह्य स्मरातुरो लोकः ॥८७३॥इति चतुरदूतिकोदितवर्धितसौभाग्यगर्वपूर्णस्य ।ऊर्मिसहस्रोल्ललितं भवति मनो ग्रामषिङ्गस्य ॥८७४॥विनिवार्य तं प्रवर्तितवाक्यविकासं नतोत्तमाङ्गेन ।श्रीसिंहभटस्य सुतं समुवाच वचोऽथ नर्तकाचार्यः ॥८७५॥नायकभूमौ भरतः कुशीलवाः कोहलादयो मुनयः ।अप्सरसः स्त्रीनाट्ये गान्धर्वः कमलजन्मनस्तनयः ॥८७६॥सुषिरस्वरप्रयोगप्रतिपादनपण्डितः मतङ्गमुनिः ।यदि रञ्जयन्ति हृदयं भवतो भूमिस्पृशां कुतः शक्तिः ॥८७७॥अभ्यधिकं धृष्टत्वं प्रायेण हि शिल्पजीविनां भवति ।आश्रितनर्तकवृत्तेर्विशेषतो विजितरङ्गस्य ॥८७८॥विज्ञापयाम्यतस्त्वां निर्मितनाट्ये प्रजासृजा सदृशम् ।अवलोकयाङ्कमेकं मा भवतु मम श्रमो वन्ध्यः ॥८७९॥इति कथयन्नरभर्तुः पुत्रेण स चोदितो भ्रुवोन्नतया ।रचिते सकलातोद्ये नियोजयामास सूत्रधृतम् ॥८८०॥वांशिकदत्तस्थानक उद्ग्राहितभिन्नपञ्चमे सम्यक् ।प्रावेशिक्या ध्रुवया द्विपदीग्रहणान्तरेऽविशत्सूत्री ॥८८१॥उत्साहभावयुक्तः सामाजिकहृदयरञ्जनं कुर्वन् ।कविनैपुणवत्सेश्वरचरितस्वविधेयदाक्ष्यसामग्र्या ॥८८२॥अष्टकलापरिमाणां ध्रुवां परिक्रम्य ताललययुक्ताम् ।आहूय नटीं कृत्वा तया समं स्वगृहकार्यसंलापम् ॥८८३॥सूचितपात्रागमनः किं चिद्दत्त्वा पदानि ललितानि ।निश्चक्राम गृहिण्या सार्धं निःसरणगीतेन ॥८८४॥आश्रित्य कथोद्घातं प्रविवेश ततः सविस्मयोऽमात्यः ।दुर्घटसंघटनेन क्षितिनाथस्योदयेन मुदितश्च ॥८८५॥प्रासादमारुहन्तं कुसुमायुधपर्वचर्चरीं द्रष्टुम् ।निर्दिश्य वत्सनाथं समनन्तरकार्यसिद्धये निरगात् ॥८८६॥अथ विशति स्म नरेन्द्रः प्रासादगतः समं वयस्येन ।अवलोकयन्प्रमोदं प्रमुदितचेताः स्वसौख्यसम्पत्त्या ॥८८७॥विस्मयभावाकृष्टः प्रोत्फुल्लविलोचने ततो विसृजन् ।नृत्यति पौरजनौघे प्रोवाच वयस्य पश्य पश्येति ॥८८८॥तुल्यशिशुतरुणवृद्धं समगुप्तागुप्तयुवतिपरिचेष्टम् ।अगणितवाच्यावाच्यं क्रीडति जनता प्रवृद्धहर्षरसा ॥८८९॥पिष्टातकपिञ्जरितं रचितोल्बणविविधकुसुमनिर्यूहम् ।गात्रायाससमुत्थितबहुनिःश्वासप्रकीर्णपदगीतम् ॥८९०॥तूर्यरवव्यामिश्रितकरतालैरुद्भुजं प्रनृत्यन्तम् ।मुहुरपि जातस्खलनं संदर्शितदार्ढ्यसौष्ठवं स्थविरम् ॥८९१॥अस्तु वसन्तः सततं स्वाधीनाभीष्टजनसमाश्लेषः ।इति गायन्ती रभसादालिङ्गति मदवशात्तरुणी ॥८९२॥क्रीडन्त्याशयरहितं शृङ्गकसलिलेन ताडितस्तरुणः ।सीमन्तिन्या गणयति दुष्टात्मा सुभगमात्मानम् ॥८९३॥भग्ने लज्जासेतौ पर्वावसरेण कुलवधूवदनात् ।अश्लीलोक्तिजलौघे निर्याते केन वार्यते प्रसरः ॥८९४॥तुल्यव्यापारगिरां ललनानां देवनप्रसक्तानाम् ।आर्यानार्यावगमं वदनावृतिजालिका कुरुते ॥८९५॥अथ सहचरनिर्दिष्टे मदस्खलच्चरणविघटिताभिनयम् ।वासवदत्ताप्रहिते नृत्यन्त्यौ विविशतुश्चेट्यौ ॥८९६॥दर्शितसरोजवर्तनमात्राभिनये शरेऽभिनेतव्ये ।विदधाने वीरदृशावायुधमात्रं समाश्रित्य ॥८९७॥तद्वलितनयनवृत्तिः कौतुकहृतमानसो नराधिपतिः ।निजगाद निर्भरमहो क्रीडितमनयोर्विलासिन्योः ॥८९८॥करपीडनोपमर्दव्यतिकरसमये कदर्थ्यमानोऽपि ।स्तनमण्डले स्थितोऽहं त्वं पुनराकृष्य कुत्र चित्क्षिप्तः ॥८९९॥अधुनान्तरयसि मामिति कोपादिव वारवाणमभिरामम् ।बहुचित्रपदन्यासैर्वल्गन्त्या हन्ति हार उच्छलितः ॥९००॥चूतलता धम्मिल्लस्थानच्युतशेखरं दधौ श्लाघ्यम् ।अधृत पतन्निर्यूहां न त्वेषा मदनिका वेणीम् ॥९०१॥स्तनभारावनतस्य प्रतनोर्मध्यस्य नास्ति तेऽपेक्षा ।इत्थमिव पादलग्नौ क्रीडन्त्या नूपुरौ रसतः ॥९०२॥वहति स्म यं नितम्बं कथमपि कृच्छ्रेण मन्दसंचारा ।कलयति तं तूललघुं जयति मनोजन्मनो महिमा ॥९०३॥ऊदयनसमनुज्ञातो नर्नर्ति वसन्तकोऽपि मुदितात्मा ।हास्यत्रपाभिरामं चर्चरितालेन तन्मध्ये ॥९०४॥धीरोद्धतललितपदैः क्रीडित्वा ते चिराय नरनाथम् ।प्रद्योतस्य सुतायाः संदेशकमूचतुः समुपगम्य ॥९०५॥आदिशति देव देवीत्यर्धोक्ते ते सलज्जमन्योन्यम् ।अवलोक्य मुखं न हि न हि विज्ञापयति प्रणम्य विनयेन ॥९०६॥मकरध्वजस्य पूजां त्वत्पादसरोजसंनिधौ कर्तुम् ।पृथिवीमण्डलमण्डन समीहते मे मनोवृत्तिः ॥९०७॥प्रियरतिभोगो मदनो दयितवसन्तो जनस्य मनसि वसन् ।भावेन भवान्पूज्यो लोकस्थित्या तु कुसुमशरपाणिः ॥९०८॥इति दत्त्वा संदेशं प्रकृतिवयःकालसमुचितं भ्रान्त्वा ।ते मदमदनाविष्टे बभूवतुर्जवनिकान्तरिते ॥९०९॥अपनीततिरस्करिणी ततोऽभवन्नृपसुता समं चेट्या ।अविदितरत्नावल्या पूजोचितवस्तुहस्तयानुगता ॥९१०॥अथ दृष्ट्वा सागरिकां प्रमादितां परिजनस्य निन्दित्वा ।काञ्चनमालामवदन्नृपमहिषी जातसंक्षोभा ॥९११॥प्रेषय कन्यामेनामवरोधं त्वं गृहाण कुसुमादि ।यावन्न भवति विषये वीक्षणयोर्भूमिनाथस्य ॥९१२॥उपगम्य ततश्चेटी तामवदत्त्वं किमर्थमायाता ।मेधाविनीं विमुच्य व्रज तस्मिन्मा विलम्बस्व ॥९१३॥विहिते देव्यादेशे मनसीदं सन्निधाय सा तस्थौ ।विहगी सुसङ्गताया हस्ते निहिता मनोभवसपर्याम् ॥९१४॥अवलोकयामि तावत्तिरोहिता सिन्दुवारविटपेन ।तातान्तःपुरिकाभिर्यथार्च्यते किं तथेह नो वेति ॥९१५॥पिण्डीकृतमिव रागं हृच्छयमिव लब्धविग्रहोत्कर्षम् ।समुपेत्य वत्सराजं जगाद सा जयतु देव इति ॥९१६॥परिभुक्तमपि नवत्वं शृङ्गारं मदनपर्वणा नीतम् ।भजमानो भजमानां स्वागतवचसाभिनन्द्य तामूचे ॥९१७॥शर्वविलोचनपावकदाहाभ्यधिकां मनोभवो मन्ये ।प्राप्स्यति तव करसङ्गतिसुखविरहसमुत्थितां पीडाम् ॥९१८॥अथ मन्मथमभ्यर्च्य क्षितिनाथं तदनु समधिकं तस्याम् ।परमां मुदं वहन्त्यां विग्रहवन्मदनमनसि कन्यायाम् ॥९१९॥शृङ्गाररससमुद्रं सोत्कलिकं निपतिते तथा नृपतौ ।तारमधुरस्फुटार्थं नग्नाचार्यः पपाठ नेपथ्ये ॥९२०॥नयनानन्दमखण्डितमण्डलमभिरामममृतरश्मिमिव ।सायन्तन आस्थाने क्षितिपतयस्तस्थुरुदयनं द्रष्टुम् ॥९२१॥उच्चारितेऽथ नाम्नि त्रिदशमतौ तत्क्षणं व्यपेतायाम् ।उत्पन्नविस्मयरतिर्निदधे नरभर्तुरात्मजा हृदये ॥९२२॥अयमुदयनः स राजा तातः सत्कृत्य मां ददौ यस्मै ।हन्त परप्रेषणमपि न निष्फलं साम्प्रतं जातम् ॥९२३॥यावन्न वेत्ति कश्चित्तावदितस्त्वरितमेव निर्यामि ।इति कथमपि नायकतः कृष्ट्वा दृशमुत्ससर्ज रङ्गभुवम् ॥९२४॥कन्दर्पमहमहोत्सवहृतहृदयैर्नावधारितोऽस्माभिः ।संध्यातिक्रमकालः पश्य त्वं प्रियवयस्यक तथा हि ॥९२५॥उदयतटान्तरितमियं प्राची सूचयति दिङ्निशानाथम् ।परिपाण्डुना मुखेन प्रियमिव हृदयस्थितं रमणी ॥९२६॥देवि त्वन्मुखपद्मः पद्मान्विदधाति पश्य विच्छायान् ।अलयोऽपि लज्जिता इव शनैः शनैस्तदुदरेषु लीयन्ते ॥९२७॥एवमभिधाय चित्रैश्चरणन्यासैः परिक्रमं कृत्वा ।नैष्क्रामिक्या ध्रुवया विनिर्ययौ नायकोऽपि सह सर्वैः ॥९२८॥अङ्के जातसमाप्तौ गीतातोद्यध्वनौ च विश्रान्ते ।प्रेक्षणकगुणग्रहणं नृपसूनुः प्रववृते कर्तुम् ॥९२९॥नाट्यप्रयोगतत्त्वं मतयो न विशन्ति मादृशां प्रायः ।वाहनयजनपदातिग्रामादिककार्यदत्तहृदयानाम् ॥९३०॥आस्ते लिखितो ग्रामो गृहाण तं सत्प्रदेशबहुभूमिम् ।वासय तत्रावासं भवसि ततः ठक्कुरो दिवसैः ॥९३१॥कृतजीवनसंस्थोऽपि त्वमपि किमर्थं करोषि विज्ञप्तिम् ।अर्पय वा यदि नेच्छसि कुरु स्थितिं हस्तदानेन ॥९३२॥न च पत्तयो न सप्तिर्न च पोष्यजनस्तथाप्यसंतुष्टः ।लभमानोऽपि स दायं चिरन्तनत्वाभिमानेन ॥९३३॥विज्ञप्तिकोन्मुखत्वं दूरत एवावधारितं भवतः ।तूष्णीं क्रियतामस्माच्छ्रोष्यसि कार्यं प्रतीहारात् ॥९३४॥यूयं कुटुम्बमध्ये क्व गम्यते गोत्रपुत्रसामान्यम् ।आदाय संविभागं स्वगृह इव स्थीयतां यथासौख्यम् ॥९३५॥अभ्यन्तरव्ययार्थं न विलब्धो यो मया महोद्रङ्गः ।तत्रापि तेऽनुबन्धो नो जाने किं करोमीति ॥९३६॥प्रथमतरमेव कल्पितमनल्पफलजीवनं प्रदेशस्थम् ।अद्यापि ते न जातं नियोगिनां पश्य मन्थरताम् ॥९३७॥एवंप्रायैरनुदिनलाभोदयमोहकारिभिर्वचनैः ।फलशून्यैरनुजीवी प्रतारितः कः कियत्कालम् ॥९३८॥एतद्विषये नैपुणमत्र तु भूमिज्ञतां समाश्रित्य ।मुखरतया कथयामो जडमतिसामाजिकोचितं किं चित् ॥९३९॥सप्ताश्रयः षडात्मा शारीरस्त्रिप्रमाणपरिमाणः ।सत्त्वाधिक्याज्ज्येष्ठो व्यस्तसमस्तैस्त्रिभिर्विनिष्पाद्यः ॥९४०॥सुकुमाराविद्धक्रिय उपरञ्जकरञ्जितो विविधवृत्तिः ।आदेयहेयमध्यैर्भावैः संपादितः प्रयोगोऽयम् ॥९४१॥गम्भीरमधुरशब्दं परिरक्षितगीतविविधभङ्गयुतम् ।दर्शयतो वैचित्र्यं न भ्रष्टो वादकस्य लयकालः ॥९४२॥अपरित्यक्तस्थानकरसकाकुव्यञ्जितस्फुटार्थपदम् ।अभिरामाविश्रान्तं पठितं निरवद्यमखिलभाषासु ॥९४३॥नियमितदीपनगमनं द्रुतमध्यविलम्बितालसंयुक्तम् ।रसवत्स्वरोपपन्नं कृतसाम्यं साधु गातृभिर्गीतम् ॥९४४॥प्रकृतिविशेषावस्थाप्रतिपादकवेषरचनसामग्र्या ।अनुकरणमभ्यतीतं सिद्धिद्वयसम्पदाधारम् ॥९४५॥भरतसुतैरुपदिष्टं क्षितिपतिनघुषावरोधनारीणाम् ।मन्ये ता अपि नाट्ये शोभासंदोहमीदृशं नापुः ॥९४६॥सुश्लिष्टसन्धिबन्धं सत्पात्रसुवर्णयोजितं सुतराम् ।निपुणपरीक्षकदृष्टं राजति रत्नावलीरत्नम् ॥९४७॥एवंविधगुणकथनप्रसङ्गिनि विभावितात्मनृपतनये ।पठति स्मार्यामन्यः स्मृतिविषयमुपागतां प्रसङ्गेन ॥९४८॥संग्रामादनपसृतिः प्रेक्षाभिज्ञा सुभाषिताभिरतिः ।आच्छोदनाभियोगः कुलविद्या राजपुत्राणाम् ॥९४९॥एतद्वस्तुनि याते श्रुतिमार्गं नृपतिनन्दनो रसतः ।आरब्धकथाच्छेदकमाखेटकवर्णनं चक्रे ॥९५०॥चललक्ष्यवेधकौशलमश्वप्रजवे स्थिरासनाभ्यसनम् ।भूमिविभागज्ञानं भवन्ति मृगयाभियोगेन ॥९५१॥वहति जवेन तुरङ्गे निबिडस्थितपादकटकपादाग्रः ।तिर्यक्प्रणिहितकायो निम्नोन्नतमग्रतो भुवः पश्यन् ॥९५२॥यावत्प्राणं धावत्याकुलिते विश्वकद्रुभिर्भीत्या ।गोचरपतिते जीवे लघुक्रियः क्षिपति मार्गणं धन्यः ॥९५३॥मूले स्थितस्य निभृतं मृगयुभिरुच्चाट्य ढौकितं निकटे ।पातयतो मृगमुत्प्लुतमव्यपदेश्यं सुखं किमपि ॥९५४॥गीतश्रवणोत्कर्णं निश्चलतृणकवलगर्भमुखहरिणम् ।उपवेशितमस्पन्दं स्पृहणीया एव गृह्णन्ति ॥९५५॥दावानलसंतापान्निर्यान्तं गहनवीरुधोऽभिमुखम् ।यो निरुणद्धि स वन्द्यः सूकरमेकप्रहारेण ॥९५६॥घनकक्षोदरसुप्तं समुपेत्य स्वैरमकृतपदशब्दम् ।व्याधवर एव कुरुते निर्जीवं हेलया शशकम् ॥९५७॥इति विदधति सैंहभटावाखेटकशक्तिलाघवश्लाघाम् ।हृदयागतामगायत्प्रसङ्गतो गीतिकामपरः ॥९५८॥आस्तां व्यापाररसः प्रवर्तिता संकथापि मृगयायां ।अन्तरयति तन्मनसामाहारादिक्रियोचितं कालम् ॥९५९॥अवधार्य गीतिकार्थं दानं प्रति धननियुक्तमभिधाय ।उत्तस्थौ समरभटः मञ्जरिकां समवलोकयन्प्रेम्णा ॥९६०॥गत्वाथ स्वावसथं निर्वर्तितभोजनादिकर्तव्यः ।मञ्जरिकाकृष्टमना अभिदध्यौ सचिवसंनिधावेवम् ॥९६१॥भ्रूभङ्गस्मितवीक्षितमृदुवक्रवचोङ्गहारगमनेषु ।कुसुमप्रहरण एको युगपद्विहिताश्रयः कथं तस्याः ॥९६२॥षुन्दोपसुन्दनाशः फलमात्मभुवस्तिलोत्तमासृष्टेः ।जनमृतये तां सृजता किं दृष्टं सुरहितं तेन ॥९६३॥सुमनोभिः परिकरिता मृगशावकतरलचक्षुषस्तस्याः ।कामोचितफलहेतुर्देहभृतां दीर्घिका वेणी ॥९६४॥कमलमिव वदनकमलं पिबन्ति तस्यास्त्रिपिष्टपभ्रष्टाः ।सदलिकमपेतदोषं सविभ्रमं मधुमदाताम्रम् ॥९६५॥यः शैलेन्द्रनितम्बं सुरताप्त्यै सेवते तपोनिरतः ।स्पृहयति सोऽपि नितम्बं सुरताप्त्यै समवलोक्य तन्वङ्ग्याः ॥९६६॥त्रिकरो मध्यविभागो बाह्वोर्युगलं करद्वयोपेतम् ।जनयति तदपि मृगाक्षी सहस्रकरतोऽधिकं तापम् ॥९६७॥सा स्रग्धरा सुवदना प्रहर्षिणी सैव सैव तनुमध्या ।न करोति कस्य विस्मयमिति रुचिरा मञ्जुभाषिणी सैव ॥९६८॥अनुकुर्वत्या कन्यां तथा तथा नायकस्तया दृष्टः ।यटनी धनुषः स्पृष्टा दशार्धबाणेन ॥९६९॥रूपं यौवनचित्रितमनङ्गविकृतानि नाट्यदीप्तानि ।शमिनामपि शमगर्वं मुष्णन्त्यविकल्पितं तस्याः ॥९७०॥दग्धेऽपि वपुषि भीतिं न विमुञ्चति नीललोहितसमुत्थाम् ।तत्क्षेत्रे वसति यतः प्रमदारूपेण शम्बरध्वंसी ॥९७१॥यदि वः परलोकमतिः शृणुत श्रेयस्तपोधना मत्तः ।उत्सृज्य यात तूर्णं वारवधूदूषितं स्थानम् ॥९७२॥चिरमपि विकल्प्य निश्चितिरियमेव स्थाप्यते न गतिरन्या ।तन्निर्माणे जाता लावण्यमयाः कणा विधेरणवः ॥९७३॥आसाद्य समुच्छ्रायं तस्याः स्तनयुगलमविहतप्रसरम् ।क्षपयति यज्जनमेवं कः स्प्रक्ष्यति तद्विवेकवान्पतितम् ॥९७४॥स कथं न स्पृहणीयो विषयरतैस्तन्नितम्बविन्यासः ।शान्तात्मनापि विहितं विश्वसृजा गौरवं यस्य ॥९७५॥स्मरणाद्यस्योत्पत्तिः सुमनस इषवोऽबलाश्रया शक्तिः ।सोऽपि व्यङ्गः प्रहरति धातुरहो चित्रमाचरितम् ॥९७६॥तिष्ठन्त्वन्ये दृष्ट्वा सारं जगतां तदङ्गनारत्नम् ।नष्टपठनावधानो भवति ब्रह्मा सनिर्वेदः ॥९७७॥यदि पश्यति तां शर्वस्तदपररामासमागमाद्विमुखः ।निन्दति मूर्धनि सोमं स्मराग्निसंधुक्षणं शरीरं च ॥९७८॥केशव इह संनिहितः सापि मनोहारिरूपसम्पन्ना ।तद्वक्षश्च्यवनभुवं कथमुज्झति सैन्धवीशङ्काम् ॥९७९॥उदयति न पण्डितानां कथमात्मनि कौतुकं गजेन्द्रगतिः ।यन्नववयसां पुंसां विना क्रियायोगमुपसर्गः ॥९८०॥श्रुतिकुवलयमीक्षणतां कुवलयतां वा विलोचनं यायात् ।हरिणदृशो यदि न स्यात्कनकोज्ज्वलकेसरं मध्ये ॥९८१॥ललनास्तदतुल्यतया पुरुषा अपि तदुपभोगविरहेण ।गच्छन्ति शोषमनिशं प्रकृतिद्वयवर्जिताः स्वस्थाः ॥९८२॥दुर्वृत्तयोर्न वृत्तं श्लाघास्पदमेति तत्पयोधरयोः ।यौ दत्त्वामलमूर्तिं मध्ये हारं जनक्षयं कुरुतः ॥९८३॥भूमण्डलेऽत्र सकले नातः परमपरमद्भुतं किं चित् ।नो जाता यदपार्था कृशोदरी धार्तराष्ट्रयातापि ॥९८४॥कृश एष मध्यदेशस्तन्व्या नाहार्यमण्डनं वोढुम् ।शक्त इति कृतं विधिना रोमावलिभूषणं सहजम् ॥९८५॥साकम्पोऽधर ईक्षणयुगलस्याधीरता भ्रुवोर्भङ्गः ।तन्वङ्ग्या बलमीदृग्जयति जगत्तदपि निःशेषम् ॥९८६॥वहतु नितम्बः स्थूलो रशनां हारं च कुचयुगं पीनम् ।तद्बाहुमृणालिकयोः सापायं कटकयोजनमयुक्तम् ॥९८७॥बहलोपायाभिज्ञा गुणविषये सततमाहितप्रीतिः ।बलिनः स्थापयति वशे करभोरुर्विग्रहेण मृदुनैव ॥९८८॥इति तत्स्तुतिमुखरमुखे राजसुते मकरकेतनाकुलिते ।समुपागता प्रगल्भा मञ्जरिकाचोदिता दूती ॥९८९॥सा सप्रणतिः पुरतः सुमनस्ताम्बूलपटलकं निदधे ।व्यज्ञापयच्च तदनु स्वावसरे सहचरीकार्यम् ॥९९०॥मुररिपुनाभिसरोरुहमवतंसीकर्तुमीहते मूढा ।नक्षत्रराजमण्डलमिच्छति वियतः समादातुम् ॥९९१॥निश्चेतनाभिकाङ्क्षति पीयूषं त्रिदिवसद्मनामशनम् ।अभिलषति शयनमुष्णे नवचन्दनपल्लवास्तरणे ॥९९२॥विदधाति पारिजातकसुमनोनिर्यूहधारणश्रद्धाम् ।दुर्व्यवसिता जिघृक्षति नारायणवक्षसो रत्नम् ॥९९३॥अनियतपुरुषस्पृश्याः पापा वयमन्यथा क्व हीनकुलाः ।क्व च यूयमिन्द्रकल्पा अनल्पमनसो गुणाभरणाः ॥९९४॥दुष्प्रकृतेः प्रकृतिरियं तस्य तु दग्धात्मजन्मनः कापि ।अगणितयुक्तायुक्तो लगयति चेतो यदस्थाने ॥९९५॥या हसति सरोजवतीं रसान्विता सहजरागरक्तेति ।ध्यानधिय आत्मवृत्तिं निन्दत्येकत्र पुरुष आसक्ताम् ॥९९६॥स्निग्धेति नाभिनन्दति जन्मशतेनापि सर्पिषो धाराम् ।पञ्चाक्षद्यूतगतिं नानर्थकरमणसंगतां स्तौति ॥९९७॥न स्तौति चन्दनलतां भुजङ्गपरिवेष्टितां रसार्द्रेति ।न शृणोति कीर्त्यमानां स्वप्नेष्वपि मदनमूर्छितां मत्सीम् ॥९९८॥विद्वेष्टि करणमध्ये रसनां ताम्बूलरागयुक्तेति ।शंसति मतिं मुमुक्षोरविशिष्टां शशवृषाश्वपुरुषेषु ॥९९९॥नो बहु मनुते रम्भां नलकूबरमभिसृतेति कामार्ता ।गर्हति च देवगणिकामनुरक्तामुर्वशीं पुरूरवसि ॥१०००॥हरति मनो नो ह्रियते रञ्जयति न रज्यते कदा चिदपि ।गृह्णाति चित्रचरितैरुपकृतिभिर्गृह्यते न बह्वीभिः ॥१००१॥प्रेममयीवाभाति प्रेम तु नाम्नैव केवलं वेत्ति ।कण्टकिता भवति रते रतभोगसुखं शृणोति लोकात्तु ॥१००२॥कुरुते विविक्तचाटूञ्शिल्पविशेषेण न तु रसावेशात् ।अनभिज्ञा मदनरुजामाकल्पकवेदनां समावहति ॥१००३॥बालैवार्जवरहिता स्फुरतीश्वरमेत्य चन्द्रलेखेव ।हृतधनपतिमाहात्म्या प्रवृत्तिरिव रक्षसां पत्युः ॥१००४॥नरनाथ किं ब्रवीमि त्रिपुरान्तकनयनदाहदग्धोऽपि ।दुःसाध्यसाधनग्रहमुत्सृजति न पापकुसुमास्त्रः ॥१००५॥त्वद्दर्शनावकाशं सम्प्राप्य यतो दुरात्मना तेन ।चिरसम्भृतकोपेन प्रारब्धा सापि हन्तुमिषुधारैः ॥१००६॥अवहेलयैव भवता संस्पृष्टा येन वेत्रदण्डेन ।जातः स एव तस्या आनन्यभवमार्गणः प्रथमः ॥१००७॥विज्ञानार्जितदर्पो निभृतं हसितः समानशिल्पाभिः ।त्वयि सक्तदृशः सख्या विसंष्ठुले नाट्यनिर्माणे ॥१००८॥अवधीर्याचार्यरुषं भरतोदितदोषकरणसंभूताम् ।विस्तारितः प्रयोगस्त्वदवस्थितिवाञ्छया तन्व्या ॥१००९॥भग्नेऽपि प्रेक्षणके तदनन्तरभूमिकाश्रयावस्थाः ।गृह एव निरवसानं वितनोति न नाट्यधर्मेण ॥१०१०॥ध्यायत एकं पुरुषं परमात्मविदः शशंस या न पुरा ।ताननुकुरुते सैव ध्यायन्ती त्वां महापुरुषम् ॥१०११॥गतमेवमेवमासितमालोकितमेवमेवमालपितम् ।इति विस्मृतान्यकार्या स्मरति कृशाङ्गी त्वदीयलीलानाम् ॥१०१२॥नलकूबरो वराको रतिरमणो रमण एव किं तेन ।आनिरुद्धोऽपि न बुद्धो विदग्धविहितासु सुरतगोष्ठीषु ॥१०१३॥न ञयन्तोऽनन्तगुणो न कुमारः मारकर्मणोऽबाह्यः ।केन समतां नयामस्तमिति सखी वहति मानसं क्लेशम् ॥१०१४॥आगतमागच्छन्तं पुरतः पार्श्वे प्रसन्नमथ कुपितम् ।पश्यति भवन्तमेकं संकल्पनिवेशितं बाला ॥१०१५॥रुच्यः कान्तो हृद्यः सुभगः सुखदो मनोहरो रमणः ।इष्टः स्वामी दयितः प्राणेशः केलिकरणनिपुण इति ॥१०१६॥मुक्तान्यसमारम्भा वरतनुरनुपप्लुतेन चित्तेन ।जपति समीहितसिद्ध्यै त्वद्द्वादशनामकं महास्तोत्रम् ॥१०१७॥तामेव गच्छ यस्यामासज्य विलम्बितोऽसि गतलज्ज ।वेलामियतीमलमलमेतैरधुना शठानुनयैः ॥१०१८॥वक्ष्यामि सापराधं क्रोधस्फुरदधरमञ्चितभ्रूकम् ।इति विदधाति सुमध्या हृदयेन मनोरथावृत्तिम् ॥१०१९॥उत्सहते न द्रष्टुं प्रतिबिम्बितमाननं कुतः शशिनम् ।का संकथा मृणाले क्षिपति भुजौ सर्वतो व्यथिता ॥१०२०॥दूरे कदलीदण्डा ऊर्वोरपि न सहते समाश्लेषम् ।करसम्पर्काद्विमुखी विश्राम्यति पल्लवेष्विति विरुद्धम् ॥१०२१॥अयि मञ्जरि सैव त्वं विदग्धजनमण्डिता पुरी सैव ।कुसुमायुधः स एव व्यसनं कुत एतदायातम् ॥१०२२॥यस्याः कामः कृपणो रागाकृष्टिस्तृणोलपप्रख्या ।सापि गता भूमिमिमां जीवन्त्या नेक्ष्यते किमिह ॥१०२३॥अभियोगशिक्षितानामशिक्षितानां च मदनचेष्टानाम् ।सुतनु विशेषग्रहणे सामर्थ्यं तद्विदामेव ॥१०२४॥व्यथयन्नपि सच्छायः परिजनचिन्ताकरोऽपि रमणीयः ।आधत्ते त्वयि लक्ष्मीमभिनवरागाश्रयो रागः ॥१०२५॥एकः स एव जातो भुवनेऽस्मिन्नसमसायकस्पर्धी ।तेन शशिबिम्बफलके सुजन्मना लेखितं निजं नाम ॥१०२६॥पादस्तेन सलीलं विन्यस्तः सुभगमानिनां मूर्ध्नि ।सौभाग्ययशःकुसुमं धनपतिसूनोः कदर्थितं तेन ॥१०२७॥नरवञ्चनपटुबुद्धिः संपादितकपटचाटुसंघटना ।त्वमपि विलासिनि नीता गतिमियतीं येन सुभगेन ॥१०२८॥तद्वद तस्य स्थानं यतामहे कार्यसाधनायालम् ।कुर्वत एव हि यत्नं भिषग्जनाः कृच्छ्रसाध्यरोगेऽपि ॥१०२९॥इति गदिते सख्या सा तदभिमुखं चक्षुषी समुन्मील्य ।वितरति कृच्छ्रेण चिराद्विभावितं क्लिष्टहुङ्कारम् ॥१०३०॥का पुरुषार्थसमीहा द्योतयतः शर्वरीं शशाङ्कस्य ।तर्पयतां भुवमखिलां सलिलमुचां कोऽभिकाङ्क्षितो लाभः ॥१०३१॥मण्डयितुं वियदुदयति पुरुहूतधनुर्विनैव फलवाञ्छाम् ।अनपेक्षितात्मकार्यः परहितकरणग्रहः सतां सहजः ॥१०३२॥प्रायेण यन्निदानं तदसेवनमुपशमाय रोगाणाम् ।स्मरमान्द्यं तु यदुत्थं तदेव खलु भेषजं यतस्तस्य ॥१०३३॥तेन स्पृहयति सुतनुस्त्वत्पादयुगाब्जरेणुसंगतये ।आशीर्विषयोपेते सम्भोगसुखोदये तु नाकाङ्क्षा ॥१०३४॥प्रमदमुपैति मयूरी परमं शब्देन वारिवाहस्य ।अनिमिषविलोकितेन प्राप्नोति झषी कृतार्थतामेव ॥१०३५॥न वृथास्तुतिमुखरतया न च युष्मल्लोभनाभियोगेन ।विदधामि तद्गुणाख्यां स्वरूपमात्रप्रसङ्गेन ॥१०३६॥सद्भावबद्धमूले स्मितदृष्टिभ्रूविकारपल्लविते ।सेवन्ते हृद्यरसां रागतरौ मञ्जरीं धन्याः ॥१०३७॥तिष्ठतु तदङ्गसङ्गो विलोकिता येन झगिति वरगात्री ।तस्यान्यो युवतिजनः प्रतिभाति मनुष्यरूपेण ॥१०३८॥सकृदपि यैरनुभूतस्तत्तनुपरिरम्भसुखरसास्वादः ।विद्धि नराधिप तेषां दूरीभूतं प्रजाकार्यम् ॥१०३९॥आस्था का खलु तस्या विषयग्रहदुर्बलेषु पुरुषेषु ।यस्या विलासजालकपतितः शकुनायते कपिलः ॥१०४०॥दग्ध्वापि पुनर्दग्धो नूनमनङ्गः हरेण तां तन्वीम् ।दृष्ट्वापि येन तिष्ठसि निराकुलः स्वस्थवृत्तेन ॥१०४१॥अथ विरतोक्तौ तस्यामुल्लासितमानसे च नृपसूनौ ।कश्चिदगायद्गीतिं स्मृतिसंगतिमागतां प्रसङ्गेन ॥१०४२॥अन्योन्यगाढरागप्रबलीकृतचित्तजन्मनोर्यूनोः ।कालात्ययो मनागपि समागमानन्दविघ्नकरः ॥१०४३॥श्रुत्वा सिंहभटसुतः प्रियाप्रियां प्रीतिमान्स्मितप्रथमम् ।निजगाद चारुभाषिणि गीतिकया समयसम्मतं कथितम् ॥१०४४॥अभिनन्द्य सा तथेति प्रययौ प्रमदावती निजं भवनम् ।अकरोच्च विदितकार्यां युक्तेऽवसरे मनोरमां गणिकाम् ॥१०४५॥अथ सा कृतसंकल्पा सत्वरमादाय रुचिरविच्छित्तिम् ।आसाद्य नृपनिशान्तं विवेश संचारिकासहिता ॥१०४६॥विहितनमस्कृतिरासनमधितष्ठौ नायकेन निर्दिष्टम् ।पृष्टे च देहकुशले विनयान्वितमभ्यधाद्दूती ॥१०४७॥श्रीमन्नद्य श्रेयःसम्पन्ना गुरुजनाशिषोऽशेषाः ।अद्य मदनः प्रसन्नो भाग्यचयैरद्य परिणतं फलतः ॥१०४८॥अद्य जननी प्रसूता सौभाग्यगुणोदयोऽद्य निष्णातः ।त्वयि वितरति सस्नेहं निरामयप्रश्नभारतीं तस्याः ॥१०४९॥उत्कलिकाकुलमनसामुद्रिक्तरिरंसयाभिभूतानाम् ।औदासीन्यं भजतां समागता भवति नालिका यूनाम् ॥१०५०॥धृतसुमनःशरधनुषा सहायवांस्तिष्ठ दयितया सार्धम् ।यामो वयं न राजति विजनस्थितमिथुनसंनिधावपरः ॥१०५१॥एषा नृत्यश्रान्ता मदनेनायासितातिसुकुमारा ।त्वमपि रतिसमरशूरः स्वर्गभुवः सन्तु कुशलाय ॥१०५२॥यावद्यावदशक्तिं प्रथयति ललना हि मोहनाक्रान्ता ।तावत्तावत्पुंसामुत्साहः पल्लवान्समुत्सृजति ॥१०५३॥इति शून्यीकृतवेश्मनि हरति शनैः सहजमंशुकं तस्मिन् ।दर्शितसाध्वसलज्जा जगाद सा किं करोषीति ॥१०५४॥अयि मुग्धे तत्क्रियते पुरुषार्थचतुष्टयस्य यत्सारम् ।इति निगदितसस्मेरः स्मरविधुरित आततान रतिकलहम् ॥१०५५॥नानासुरतविशेषैराराध्य चकार भुक्तसर्वस्वम् ।गणिकासौ राजसुतं त्वगस्थिशेषं मुमोच नातिचिरात् ॥१०५६॥तद्यन्मयोपदिष्टं कामिजनार्थाप्तिकारणं तेन ।महतीं समृद्धिमेष्यसि कामुकलोकाहृतेन वित्तेन ॥१०५७॥इत्युपदेशश्रवणप्रबोधतुष्टा जगाम धाम स्वम् ।मालत्यपगतमोहा विकरालापादवन्दनां कृत्वा ॥१०५८॥काव्यमिदं यः शृणुते सम्यक्काव्यार्थपालनेनासौ ।नो वञ्च्यते कदा चिद्विटवेश्याधूर्तकुट्टनीभिरिति ॥१०५९॥ N/A References : N/A Last Updated : May 25, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP