संस्कृत सूची|शास्त्रः|अभिनयदर्पणम्| १६ अभिनयदर्पणम् १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ नन्दिकेश्वरविरचितम् अभिनयदर्पणम् - १६ अभिनयदर्पण, आचार्य नंदिकेश्वर द्वारा रचित एक संस्कृत आहे. जो भारतीय शास्त्रीय नृत्य, विशेषकरून भरतनाट्यमच्या हस्तमुद्रा, हाव-भाव आणि शारीरिक गतींचे विस्तृत विवरण प्रस्तुत करत आहे. हा ग्रंथ नृत्य आणि त्यातील भाव यांच्या अध्ययनासाठी एक महत्वपूर्ण स्रोत आहे. Tags : abhinaydarpandancenandikeshwarअभिनयदर्पणनंदिकेश्वरनृत्यa नन्दिकेश्वरविरचितम् अभिनयदर्पणम् - १६ Translation - भाषांतर वीरागतिः वामे तु शिखरं धृत्वा दक्षिणेन पताकिका । दूरादागमनं यत्तु वीरा गतिरुदीरिता ॥३२०॥ मानवीगतिः मण्डलाकारवद् भ्रान्त्या समागत्य मुहुर्मुहुः । वामं करं न्यस्य कटौ दक्षिणे कटकामुखम् ॥३२१॥ मानवी गतिरित्येषा प्रसिद्धा पूर्वसूरिभिः । मण्डलानि प्रयुक्तानि तवैवोत्प्लवनानि च ॥३२२॥ भ्रमर्यश्चैव चार्यश्च गतयश्च परस्परम् । एकैकभेदसम्बन्धादनन्तानि भवन्ति हि ॥३२६॥ एताश्च नर्तनविधौ शास्त्रतः सम्प्रदायतः । सतामनुग्रहेणैव विज्ञ यौ नान्यथा भुवि ॥३२४॥ उपरिष्टादुद्धृतांशः केवलं एम-आख्यात- पुस्तके मण्डलभेदेभ्यः प्रागधिको दृश्यते । अर्थ अष्टरसाः शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः । बीभत्सरीद्रो च रसा शृङ्गारः शुचिरुज्ज्वलः ॥ अवस्थाभेदाः श्रुत्यक्षिप्रीतिहृत्सङ्गाः सङ्कल्पो जागरस्तथा । तनुता चापि विषयनिवृत्तिश्चात्रपा तथा ॥ मोहो मूर्छा च मरणमित्यवस्थाः प्रपश्चताः । चक्षुःप्रीतिश्च चिन्ता च सङ्कल्पो गुणकीर्तनम् ॥ क्रियाद्वेषश्च तापश्च लज्जात्यागस्ततः परम् । उन्मादमूर्छामृतय इत्यवस्था स्मृताः परैः ॥ नयनैर्जनयेद् भावं भावात् स्पर्शं समाचरेत् । स्पर्शन द्रवमुत्पाद्य रतिं पश्चात् समाचरेत् ॥ चिन्ता किं करिष्यति किं ध्यायेत् क्वास्ते किं वक्वि भामिनी । इतीव मानसोत्कण्ठा सा चिन्ता परिकीर्तिता ॥ सङ्कल्पः यामि तामरविन्दार्क्षी पिवाम्यधरपल्लवम् । रमामि नितरां सार्धं तयेति सुट्टढं पुनः ॥ तां विना न हि जीवामि सैव मे परमं धनम् । इतः परं सा शरणमिति सङ्कल्प ईरितः ॥ गुणकीतनं एषा मौलिविभूषणं मृगदृशामेषा परं जीवनं तां त्यक्त्वा न हि किञ्चिदस्ति शरणं यूनां रसोल्लासिनी । सा भूषा भुवनस्य किम्पुनरियं वाचा पर जीवन- मित्येवं प्रतिभाति या गुणनुतिः स्त्रीपुम्प्रभेदेऽपि सा ॥ क्रियाद्वेषः गच्छ गच्छसि चेतां तो नाहं कान्ता न मे पतिः । त्वं चेति कथनं यत्र कथनं द्वेष उच्यते ॥ तापः किं करोति सुमास्त्रो मां पञ्चभिबाणसञ्चयैः । तपत्यनन्तरं गात्रं तापोऽसौ परिकीर्तितः ॥ लज्जात्यागः दोर्भ्यां समाश्लिष्य पयोधरौ तौ प्रचुम्ब्य बिम्बाधरमायताक्ष्याः । सुखेन सुप्तः शयने निशायामुद्बोधितोऽहं चरणायुधेन ॥ उन्मादः चित्रे लिखितमालोक्य नायकं कञ्चनाङ्गना । परिरम्य दृढं दोर्भ्यां चुचुम्बे गण्डयोरमुम् ॥ मूर्छा यत्राङ्गनाया वैकल्यं पञ्चप्राणनिरोधनम् । असङ्गा याममात्रं सा मूर्छा वान्या मृतिर्न हि ॥ इति श्रीनन्दिकेश्वरविरचितं अभिनयदर्पणं समाप्तम् । N/A References : N/A Last Updated : October 09, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP