नन्दिकेश्वरविरचितम् अभिनयदर्पणम् - १३

अभिनयदर्पण, आचार्य नंदिकेश्वर द्वारा रचित एक संस्कृत आहे. जो भारतीय शास्त्रीय नृत्य, विशेषकरून भरतनाट्यमच्या हस्तमुद्रा, हाव-भाव आणि शारीरिक गतींचे विस्तृत विवरण प्रस्तुत करत आहे.  हा ग्रंथ नृत्य आणि त्यातील भाव यांच्या अध्ययनासाठी एक महत्वपूर्ण स्रोत आहे.

ज्येष्ठभ्रातुः कनिष्ठस्याप्ययं हस्त इति स्मृतः । पुत्रहस्तः  सन्दंशमुदरे न्यस्य भ्रामयित्वा ततः परम् ॥२४१॥
धृतो वामेन शिखरं पुत्रहस्तः प्रकीर्तितः । न्षाहस्तः  एतदन्ते दक्षिणेन स्त्रीहस्तश्च धृतो यदि ॥२४२॥
स्नुषाहस्त इति ख्यातो भरतागमकोविदैः । सपत्नीहस्तः  दर्शयित्वा पाशहस्तं कराभ्यां स्त्रीकरावुभौ ॥२४३॥
धृतौ सपत्नीहस्तः स्यादिति भावविदो विदुः । नृत्तहस्तानां गतयः  भवन्ति नृत्तहस्तानां गतयः पञ्चधा भुवि ॥२४४॥
ऊर्ध्वाऽधरोत्तरा प्राची दक्षिणा चेति विश्रुता । यथा स्यात् पादविन्यास्तथैव करयोरपि ॥२४५॥
वामाङ्गभागे वामस्य दक्षिणे दक्षिणस्य च । कुर्यात् प्रचलनं ह्येतन्नृत्तसिद्धान्तलक्षणम् ॥२४६॥
यतो हस्तस्ततो दृष्टिर्यतो दृष्टिस्ततो मनः । यतो मनस्ततो भावो यतो भावस्ततो रसः ॥२४७॥
नृत्तहस्तः  पताकास्वस्तिकाख्यश्च डोलाहस्तस्तथाञ्जलिः । कटकावर्धनश्चैव शकटः पाशकीलकौ ॥२४८॥
कपित्थः शिखरः कूर्मो हंसास्यश्चालपद्मकः । त्रयोदशैते हस्ताः स्युर्नृत्तस्याप्युपयोगिनः ॥२४९॥
नवग्रहहस्ताः  सूर्यहस्तः  अंसोपकण्ठे हस्ताभ्यामलपद्मकपित्थकः । धृतो यदि करो ह्येष दिवाकरकरः स्मृतः ॥२५०॥
चन्द्रहस्तः  अलपद्मो वामहस्ते दक्षिणे च पतातिका । निशाकरकरः प्रोक्तो भरतागमदर्शिभिः ॥२५१॥
कुजहस्तः  वामे करे तु सूची स्यान्मुष्टिहस्तस्तु दक्षिणे । धृतश्चेन्नाट्यशास्त्रज्ञैरङ्गारककरः स्मृतः ॥२५२॥
बुधहस्तः  तिर्यग्वामे च मुष्टिः स्याद्दक्षिणे च पताकिका । बुधग्रहकरः प्रोक्तो भरतागमवेदिभिः ॥२५३॥
गुरुहस्तः  हस्ताभ्यां शिखरं धृत्वा यज्ञसूत्रस्य दर्शनम् । ऋषिब्राह्मणहस्तोऽयं गुरोश्चापि प्रकीर्तितः ॥२५४॥
शुक्रहस्तः  वामोच्चभागे मुष्टिः स्यादधस्ताद्दक्षिणे तथा । शुक्रग्रहकरः प्रोक्तो भरतागमवेदिभिः ॥२५५॥
शनिहस्तः  वामे करे तु शिखरस्त्रिशूलो दक्षिणे करे । शनैश्चरकरः प्रोक्तो भरतागमकोविदैः ॥२५६॥
राहुहस्तः  सर्पशीर्षो वामकरे सूची स्याद्दक्षिणे करे । राहुग्रहकरः प्रोक्तो नाट्यविद्याधिपैर्जनैः ॥२५७॥
केतुहस्तः  वामे करे तु सूची स्याद्दक्षिणे तु पताकिका । केतुग्रहकरः प्रोक्तो भरतागमदर्शिभिः ॥२५८॥
पादभेदाः  वक्ष्यते पादभेदानां लक्षणं पूर्वसम्मतम् । मण्डलोत्प्लवने चैव भ्रमरी पादचारिका ॥२५९॥
चतुर्धा पादभेदाः स्युस्तेषां लक्षणमुच्यते । मण्डलभेदाः  स्थानकं चायतालीढं प्रेङ्खणप्ररितानि च ॥२६०॥

N/A

References : N/A
Last Updated : October 09, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP