नन्दिकेश्वरविरचितम् अभिनयदर्पणम् - ४

अभिनयदर्पण, आचार्य नंदिकेश्वर द्वारा रचित एक संस्कृत आहे. जो भारतीय शास्त्रीय नृत्य, विशेषकरून भरतनाट्यमच्या हस्तमुद्रा, हाव-भाव आणि शारीरिक गतींचे विस्तृत विवरण प्रस्तुत करत आहे.  हा ग्रंथ नृत्य आणि त्यातील भाव यांच्या अध्ययनासाठी एक महत्वपूर्ण स्रोत आहे.

आवाहने तर्जने च कम्पितं विनियुज्यते । परावृत्तशिरः  पराङ्मुखीकृतं शीर्षं परावृत्तमितीरितम् ॥६१॥
विनियोगः  तत् कार्यं कोपलज्जादिकृते बक्त्रापसरणे । अनादरे कचे तूण्यां परावृत्तशिरो भवेत् ॥६२॥
उत्क्षिप्तशिरः  पार्श्वोर्ध्वभागचलितमुत्क्षिप्तं कथ्यते शिरः । विनियोगः  गृहाणागच्छेत्याद्यर्थसूचने परिपोषणे ॥६३॥
अङ्गीकारे प्रयोक्तव्यमुत्क्षिप्तं नाम शीर्षकम् । परिवाहितशिरः  पार्श्वयोश्चामरमिव ततं चेत् परिवाहितम् ॥६४॥
विनियोगः  मोहे च विरहे स्तोत्रे सन्तोषे चानुमोदने । विचारे च प्रयोक्तव्यं परिवाहितशीर्षकम् ॥६५॥
दृष्टिमेदाः  सममालोकितं साची र्लोकितनिमीलिते । उल्लोकितानुवृत्ते च तथा चैवावलोकितम् ॥६६॥
इत्यष्टौ दृष्टिभेदाः स्युः कीर्तिताः पूर्वसूरिभिः । समदृष्टिः  वीक्षणं सुरनारीवत् सानन्दं समवीक्षणम् ॥६७॥
विनियोगः  नाट्यारम्भे तुलायां चाप्यन्यचिन्ताविनिश्चये । आश्चर्ये देवतारूपे समदृष्टिरुदाहृता ॥६८॥
आलोकितदृष्टिः  आलोकितं भवेदाशुभ्रमणं स्फुटवीक्षणम् । विनियोगः  कुलामचक्रभ्रमणे सर्ववस्तुप्रदर्शने ॥६९॥
याञ्चयां च प्रयोक्तव्यमालोकितनिरीक्षणम् । साचीदृष्टिः  स्वस्थाने तिर्यगाकारमपाङ्गवलनं क्रमात् ॥७०॥
साचीदृष्टिरिति ज्ञेया नाट्यशास्त्रविशारदैः । विनियोगः  इङ्गिते श्मश्रुसंस्पर्शे शरलक्ष्ये शुके स्मृतौ ॥७१॥
सूचनायां च कार्याणां नाट्ये साचीनिरीक्षणम् । प्रलोकितदृष्टिः  प्रलोकितं परिज्ञेयं चलनं पार्श्वभागयोः ॥७२॥
विनियोगः  उभयोः पार्श्वयोर्वस्तु निर्देशे च प्रसञ्जिते । चलने बुद्धिजाडेय च प्रलोकितनिरीक्षणम् ॥७३॥
मोलितदृष्टिः  दृष्टे रर्धविकाशेन मीलिता दृष्टिरीरिता । विनियोगः  आशीविषे पारवश्ये जपे ध्याने नमस्कृतौ ॥७४॥
उन्मादे सूक्ष्मदृष्टौ च मीलिता दृष्टिरीरिता । उल्लोकितदृष्टिः  उल्लोकितमिति ज्ञेयमूर्ध्वभागे विलोकनम् ॥७५॥
विनियोगः  ध्वजाग्रे गोपुरे देवमण्डले पूर्वजन्मनि । औन्नत्ये चन्द्रिकादावप्युल्लोकितनिरीक्षणम् ॥७६॥
अनुवृत्तदृष्टिः  ऊर्ध्वाधो वीक्षणं वेगादनुवृत्तमितीरितम् । विनियोगः  कोपदृष्टौ प्रियामन्त्रे अनुवृत्तनिरीक्षणम् ॥७७॥
अवलोकितदृष्टिः  अधस्ताद्दर्शनं यत्तदवलोकितमुच्यते । विनियोगः  छायालोके विचारे च चर्यायां पठनश्रमे ॥७८॥
स्वाङ्गावलोकने यानेऽप्यवेलोकितमुच्यते । ग्रीवाभेदाः  सुन्दरी च तिरश्चीना तथैव परिवर्तिता ॥७९॥
प्रकम्पिता च भावज्ञैर्ज्ञेया ग्रीवा चतुर्विधा । सुन्दरी प्रीवा  तिर्यक् चञ्चलिता ग्रीवा सुन्दरीति निगद्यते ॥८०॥

N/A

References : N/A
Last Updated : October 09, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP