नन्दिकेश्वरविरचितम् अभिनयदर्पणम् - १२
अभिनयदर्पण, आचार्य नंदिकेश्वर द्वारा रचित एक संस्कृत आहे. जो भारतीय शास्त्रीय नृत्य, विशेषकरून भरतनाट्यमच्या हस्तमुद्रा, हाव-भाव आणि शारीरिक गतींचे विस्तृत विवरण प्रस्तुत करत आहे. हा ग्रंथ नृत्य आणि त्यातील भाव यांच्या अध्ययनासाठी एक महत्वपूर्ण स्रोत आहे.
अरशुरामावतारहस्तः वामं कटितटे न्यस्य दक्षिणेऽर्धपताधिका । धृता परशुरामस्य हस्त इत्यभिधीयते ॥२२१॥
रामचन्द्रावतारहस्तः कपित्थो दक्षिणे हस्ते वामे तु शिखरः करः । ऊर्ध्वं धृतो रामचन्द्रहस्त इत्युच्यते बुधैः ॥२२२॥
अलरामावतारहस्तः पताको दक्षिणे हस्ते मुष्टिर्वामकरे तथा । बलरामावतारस्य हस्त इत्युच्यते बुधैः ॥२२३॥
कृष्णावतारहस्तः मृगशीर्षे तु हस्ताभ्यामन्योन्याभिमुखे कृते । आस्योपकण्ठे कृष्णस्य हस्त इत्युच्यते बुधैः ॥२२४॥
कल्क्यवतारहस्तः पताको दक्षिणे वामे त्रिपताकः करो धृतः । कल्क्याख्यस्यावतारस्य हस्त इत्यभिधीयते ॥२२५॥
अथ तत्तज्जातीयहस्ताः राक्षसहस्तः मुखे कराभ्यां शकटौ राक्षसानां करः स्मृतः । ब्राह्मणहस्तः कराभ्यां शिखरं धृत्वा यज्ञसूत्रस्य सूचने ॥२२६॥
दक्षिणेन कृते तिर्यग् ब्राह्मणानां करः स्मृतः । क्षत्रियहस्तः वामेन शिखरं तिर्यग् धृत्वान्येन पताकिका ॥२२७॥
धृता यदि क्षत्रियाणां हस्त इत्यभिधीयते । वैश्यहस्तः करे वामे तु हंसास्यो दक्षिणे कटकामुखः ॥२२८॥
वश्यहस्तोऽयमाख्यातो मुनिभिर्भरतादिभिः । शूद्रहस्तः वामे तु शिखरं धृत्वा दक्षिणे मृगशीर्षकः ॥२२९॥
शूद्रहस्तः स विज्ञेयो मुनिभिर्भरतादिभिः । यदष्टादशजातीनां कर्म तेन कराः स्मृताः ॥२३०॥
तत्तद्देशजानामपि एवमुह्यं बुधोत्तमैः । बान्धवहस्ताः दम्पतिहस्तः वामे तु शिखरं धृत्वा दक्षिणे मृगशीर्षकः ॥२३१॥
धृतः स्त्रीपुंसयोर्हस्तः ख्यातो भरतकोविदैः । मातृहस्तः वामे हस्तेऽर्धचन्द्रश्च सन्दंशो दक्षिणे करे ॥२३२॥
आवर्तयित्वा जठरे वामहस्तं ततः परम् । स्त्रियाः करो धृतो मातृहस्त इत्युच्यते बुधैः ॥२३३॥
विनियोगः जनन्यां च कुमार्यां च मातृहस्तो नियुज्यते । पितृहस्तः एतस्मिन् मातृहस्ते तु शिखरे दक्षिणेन तु ॥२३४॥
धृते सति पितृहस्त इत्याख्यातो मनीषिभिः । विनियोगः अयं हस्तस्तु जनके जामातरि च युज्यते ॥२३५॥
श्वश्रूहस्तः विन्यस्य कण्ठे हंसास्यं सन्दंशं दक्षिणे करे । उदरे च परामृश्य वामहस्तं ततः परम् ॥२३६॥
स्त्रियाः करो धृतः श्वश्रुहस्तस्तस्यां नियुज्यते । श्वशुरहस्तः एतस्यान्ते तु हस्तस्य शिखरो दक्षिणे यदि ॥२३७॥
धृतश्च श्वशुरस्यायं हस्त इत्युच्यते बुधैः । भर्तृभ्रातृहस्तः वामे तु शिखरं धृत्वा पार्श्वयोः कर्तरीमुखः ॥२३८॥
धृतो दक्षिणहस्तेन भर्तृभ्रातृकरः स्मृतः । ननान्दृहस्तः अन्ते त्वेतस्य हस्तस्य स्त्रीहस्तो दक्षिणे करे ॥२३९॥
धृतो ननान्दृहस्तः स्यादिति नाट्यविदां मतम् । ज्येष्ठकनिष्ठभ्रातृहस्तः मयूरहस्तः पुरतः पार्श्वभागे च दर्शितः ॥२४०॥
N/A
References : N/A
Last Updated : October 09, 2025

TOP