संस्कृत सूची|शास्त्रः|अभिनयदर्पणम्| ६ अभिनयदर्पणम् १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ नन्दिकेश्वरविरचितम् अभिनयदर्पणम् - ६ अभिनयदर्पण, आचार्य नंदिकेश्वर द्वारा रचित एक संस्कृत आहे. जो भारतीय शास्त्रीय नृत्य, विशेषकरून भरतनाट्यमच्या हस्तमुद्रा, हाव-भाव आणि शारीरिक गतींचे विस्तृत विवरण प्रस्तुत करत आहे. हा ग्रंथ नृत्य आणि त्यातील भाव यांच्या अध्ययनासाठी एक महत्वपूर्ण स्रोत आहे. Tags : abhinaydarpandancenandikeshwarअभिनयदर्पणनंदिकेश्वरनृत्यa नन्दिकेश्वरविरचितम् अभिनयदर्पणम् - ६ Translation - भाषांतर विनियोगः मकुटे वृक्षभावेषु वज्रे तद्धरवासवे । केतकीकुसुमे दीपे वह्निज्वाला विजृम्भने ॥१०१॥ कपोते पत्रलेखायां बाणार्थे परिवर्तने । युज्यते त्रिपताकोऽयं कथितो भरतोत्तमैः ॥१०२॥ अर्धपताकहस्तः त्रिपताके कनिष्टा चेद् वक्रिताऽर्धपताकिका । विनियोगः पल्लवे फलके तीरे उभयोरिति वाचके ॥१०३॥ क्रकचे छुरिकायां च ध्वजे गोपुरशृङ्गयोः । युज्यतेऽर्धपताकोऽयं तत्तत्कर्मप्रयोगके ॥१०४॥ कत्तरीमुखहस्तः अस्यैव चापि हस्तस्य तर्जनी च कनिष्ठिका । बहिः प्रसारिते द्वे च स करः कर्तरीमुखः ॥१०५॥ विनियोगः स्त्रीपुंसयोस्तु विश्लेषे विपर्यासपदेऽपि वा । लुण्ठने नयनान्ते च मरणे भेदभावने ॥१०६॥ विद्युदर्थेऽप्येकशय्याविरहे पतने तथा । लतायां युज्यते यस्तु स करः कर्तरीमुखः ॥१०७॥ मयूरहस्तः अस्मिन्नामिकाङ्गुष्ठौ श्लिष्टौ चान्याः प्रसारिताः । मयूरहस्तः कथितः करटीकाविचक्षणैः ॥१०८॥ विनियोगः मयूरास्ये लतायां च शकुने वमने तथा । अलकस्यापनयने ललाटतिलकेषु च ॥१०९॥ नद्युदकस्य निक्षेपे शास्त्रवादे प्रसिद्धके । एवमर्थेषु युज्यन्ते मयूरकरभावनाः ॥११०॥ अर्धचन्द्रहस्तः अर्धचन्द्रकरः सोऽयं पताकेऽङ्गुष्ठसारणात् । विनियोगः चन्द्रे कृष्णाष्टमीभाजि गलहस्तार्थकेऽपि च ॥१११॥ भल्लायुधे देवतानामभिषेचनकर्मणि । भुक्पात्रे चोद्भवे कट्यां चिन्तायामात्मवाचके ॥११२॥ ध्याने च प्रार्थने चापि अङ्गानां स्पर्शने तथा । प्राकृतानां नमस्कारे अर्धचन्द्रो नियुज्यते ॥११३॥ अरालहस्तः पताके तर्जनी वक्रा नाम्ना सोऽयमरालकः । विनियोगः विषाद्यमृतपानेषु प्रचण्डपवनेऽपि च ॥११४॥ शुकतुण्डहस्तः अस्मिन्ननामिका वक्रा शुकतुण्डकरो भवेत् । विनियोगः बाणप्रयोगे कुन्तार्थे वाऽऽलयस्य स्मृतिक्रमे ॥११५॥ मर्मोत्यामुग्रभावेषु शुकतुण्डो नियुज्यते । मुष्टिहस्तः मेलनादङ्गुलीनाञ्च कुञ्चितानां तलान्तरे ॥११६॥ अङ्गुष्ठश्चोपरियुतो मुष्टिहस्तोऽयमीर्यते । विनियोगः स्थिरे कचग्रहे दार्ढ्ये वस्त्वादीनां च धारणे ॥११७॥ मल्लानां युद्धभावेऽपि मुष्टिहस्तोऽयमिष्यते । शिखरहस्तः चेन्मुष्टिरुन्नताङ्गुष्ठः स एव शिखरः करः ॥११८॥ विनियोगः मदने कार्मुक स्तम्भे निश्चये पितृकर्मणि । ओष्ठेप्रविष्टरूपे च रदने प्रश्नभावने ॥११९॥ लिङ्गे नास्तीति वचने स्मरणेऽभिनयान्तिके । कटिबन्धाकर्षणे च परिरम्भविधिक्रमे ॥१२०॥ N/A References : N/A Last Updated : October 09, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP