नन्दिकेश्वरविरचितम् अभिनयदर्पणम् - ११

अभिनयदर्पण, आचार्य नंदिकेश्वर द्वारा रचित एक संस्कृत आहे. जो भारतीय शास्त्रीय नृत्य, विशेषकरून भरतनाट्यमच्या हस्तमुद्रा, हाव-भाव आणि शारीरिक गतींचे विस्तृत विवरण प्रस्तुत करत आहे.  हा ग्रंथ नृत्य आणि त्यातील भाव यांच्या अध्ययनासाठी एक महत्वपूर्ण स्रोत आहे.

नागबन्धहस्तः  सर्पशीर्षस्वस्तिकञ्च नागबन्ध इतीरितः । विनियोगः  एतस्य विनियोगस्तु नागबन्धे हि सम्मतः ॥२०१॥
खट्राहस्तः  चतुरे चतुरं न्यस्य तर्जन्यङ्गुष्ठमोक्षतः । खट्वाहस्तो भवेदेष खट्वाशिविकयोः स्मृतः ॥२०२॥
भेरुण्डहस्तः  मणिबन्धे कपित्थाभ्यां भेरुण्डकर इष्यते । विनियोगः  भेरुण्डे पक्षिदम्पत्योर्भेरुण्डो युज्यते करः ॥२०३॥
देवहस्ताः  अथात्र ब्रह्मरुद्रादिदेवताभिनयक्रमात् । मूर्तिभेदेन ये हस्तास्तेषां लक्षणमुच्यते ॥२०४॥
ब्रह्महस्तः  ब्रह्मणश्चतुरो वामे हंसास्यो दक्षिणे करः । ईश्वरहस्तः  शम्भोर्वामे मृगशीर्षस्त्रिपताकस्तु दक्षिणे ॥२०५॥
विष्णुहस्तः  हस्ताभ्यां त्रिपताकस्तु विष्णुहस्तः स कीर्तितः । सरस्वतीहस्तः  सूचीकृते दक्षिणे च वामे चांससमकृतौ ॥२०६॥
कपित्थकेऽपि भारत्याः कर स्यादिति सम्मतः । पार्वतीहस्तः  ऊर्ध्वाधः प्रसूतावर्धचन्द्राख्यौ वामदक्षिणौ ॥२०७॥
अभयो वरदश्चैव पार्वत्या कर ईरितः । लक्ष्मीहस्तः  अंसोपकण्ठे हस्ताभ्यां कपित्थस्तु श्रियः करः ॥२०८॥
विनायकहस्तः  उरोगताभ्यां हस्ताभ्यां कपित्थो विघ्नराट् करः । षण्मुखहस्तः  वामे करे त्रिशूलञ्च शिखरो दक्षिणे करे ॥२०९॥
ऊर्ध्वं गते षण्मुखस्य हस्तः स्यादिति कीर्तितः  मन्मथहस्तः  वामे करे तु शिखरो दक्षिणे कटकामुखः ॥२१०॥
मन्मथस्य करः प्रोक्तो नाट्यशास्त्रार्थकोविदैः । इन्द्रहस्तः  त्रिपताकः स्वस्तिकश्च शक्रहस्तः प्रकीर्तितः ॥२११॥
अग्निहस्तः  त्रिपताको दक्षिणे तु वामे काङ्गुलहस्तकः । अग्निहस्तः स विज्ञेयो नाट्यशास्त्रविशारदैः ॥२१२॥
यमहस्तः  वामे पाशं दक्षिणे तु सूची यमकरः स्मृतः । निरृतिहस्तः  खट्वा च शकटश्चैव कीर्तितो निरृतेः करः ॥२१३॥
वरुणहस्तः  पताको दक्षिणे वामे शिखरो वारुणः करः । युहस्तः  अरालो दक्षिणे हस्ते वामे चार्धपताकिका ॥२१४॥
धृता चेद्वायुदेवस्य कर इत्यह्धीयते । कुवेरहस्तः  वामे पद्मं दक्षिणे तु गदा यक्षपतेः करः ॥२१५॥
दशावताराहस्ताः  मत्स्यावतारहस्तः  मत्स्यहस्तं दर्शयित्वा ततः स्कन्धसमौ करौ । धृतो मत्स्यावतारस्य हस्त इत्यभिधीयते ॥२१६॥
कूर्मावतारहस्तः  कूर्महस्तं दर्शयित्वा ततः स्कन्धसमौ करौ । धृतौ कूर्मावतारस्य हस्त इत्यभिधीयते ॥२१७॥
वराहावतारहस्तः  दर्शयित्वा वराहं तु कटिपार्श्वसमौ करौ । धृता वराहावतारस्य देवस्य कर इष्यते ॥२१८॥
नृसिहावतारहस्तः  वामे सिंहमुखं धृत्वा दक्षिणे त्रिपताकिका । नरसिंहावतारस्य हस्त इत्युच्यते बुधैः ॥२१९॥
वामनावतारहस्तः  ऊर्ध्वाधो धृतमुष्टिभ्यां सव्यान्याभ्यां यदि स्थितः । स वामनावतारस्य हस्त इत्यभिधीयते ॥२२०॥

N/A

References : N/A
Last Updated : October 09, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP