वस्त्रापथक्षेत्र माहात्म्यम् - अध्याय १९
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥राजोवाच॥
गृहीत्वा दक्षिणां दैत्यान्महाविष्णुर्जनार्दनः ॥।
चकार किं ममाचक्ष्व परं कौतूहलं हि मे ॥१॥
॥सारस्वत उवाच॥
एवं स्तुतः सुरैर्देवो गृहीत्वा मेदिनीं हरिः ॥
बलिं निर्वासयामास संपूर्णे यज्ञकर्मणि ॥
यज्ञांते दक्षिणां लब्ध्वा संपूर्णोऽभूदथाध्वरः ॥२॥
भगवानप्यसंपूर्णे तृतीये तु क्रमे विभुः ॥
समभ्येत्य बलिं प्राह ईषत्प्रस्फुरिताधरः ॥३॥
ऋणे भवति दैत्येन्द्र बंधनं घोरदर्शनम् ॥
त्वं पूरय पदं तन्मे नोचेद्बन्धं प्रतीच्छ भोः ॥४॥
तन्मुरारिवचः श्रुत्वा पुरो भूत्वा बलेः सुतः ॥
बाणो वामनमाचष्टे तदा तं विश्वरूपिणम् ॥५॥
कृत्वा महीमल्पतरां वपुः कृत्वा तु वामनम्॥
पदत्रयं याचयित्वा विश्वरूपमगाः कथम् ॥६॥
यदि तृतीयं क्रमणं याचसे जगदीश्वर ॥
पुनर्वामनतां याहि बलिर्दास्यति तत्पदम् ॥७॥
यादृग्विधाय बलिना वामनायोदकं कृतम्॥
तत्तादृशाय दातव्यमथ किं विश्वरूपिणे ॥८॥
भवत्कृतमिदं विश्वं विश्वस्मिन्वर्तते बलिः ॥
छद्मना नैव गृह्णन्ति साधवो ये महेश्वर ॥९॥
जगदेतज्जगन्नाथ तावकं यदि मन्यसे ॥
ज्ञात्वा बलिममर्यादं भवद्भक्तिपराङ्मुखम् ॥१०॥
कंठपाशेन निष्कास्य केन वै वार्यते भवान्॥
गोपालमन्यं कुरुते रक्षणाय च गोपतिः ॥
सुतृणं चारयन्पूर्वो गोपः किं कुरुते तदा ॥११॥
इत्येवमुक्ते तेनाथ वचने बलिसूनुना ॥
प्रोवाच भगवान्वाक्यमादिकर्ता जनार्दनः ॥१२॥
यान्युक्तानि वचांसीत्थं त्वया बालेन सांप्रतम्॥
तेषां त्वं हेतुसंयुक्तं शृणु प्रत्युत्तरं मम ॥१३॥
पूर्वमुक्तस्तव पिता मया बाण पदत्रयम् ॥
देहि मह्यं प्रमाणेन तदेतत्समनुष्ठितम् ॥१४॥
किं न वेत्ति प्रमाणं मे बलिस्तव पिता सुत ॥
बलेरपि हितार्थाय कृतमेतत्पदत्रयम् ॥१५॥
तस्माद्यन्मम बालेय त्वत्पित्रांऽबु करे महत् ॥
दत्तं तेनास्य सुतले कल्पं यावद्वसिष्यति ॥१६॥
गते मन्वन्तरे बाण श्राद्धदेवस्य साम्प्रतम् ॥
सावर्णिके त्वागते च बलिरिन्द्रो भविष्यति ॥१७॥
इति प्रोक्त्वा बलिसुतं बाणं देवस्त्रिविक्रमः ॥
प्रोवाच बलिमभ्येत्य वचनं मधुराक्षरम् ॥१८॥
॥श्रीभगवानुवाच॥
अपूर्णदक्षिणे यागे गच्छ राजन्महातलम् ॥
सुतलंनाम पातालं वस तत्र निरामयः ॥१९॥
॥बलिरुवाच॥
सुतलस्थस्य मे नाथ कथं चरणयोस्तव ॥
दर्शनं पूजनं भोगो निवसामि यथासुखम् ॥२०
॥श्रीभगवानुवाच॥
दैत्येन्द्र हदये नित्यं तावके निवसाम्यहम् ॥
अतस्ते दर्शनं प्राप्तः पुनः स्थास्ये तवान्तिकम् ॥२१॥
तथान्यमुत्सवं पुण्यं वृत्ते शक्रमहोत्सवे ॥
दीपप्रतिपन्नामाऽसौ तत्र भावी महोत्सवः ॥२२॥
तत्र त्वां नरशार्दूला हृष्टाः पुष्टाः स्वलंकृताः ॥
पुष्पदीपप्रदानेन अर्चयिष्यंति यत्नतः ॥ ॥२३॥
तत्रोत्सवः पुण्यतमो भविष्यति धरातले ॥
तव नामांकितो दैत्य तेन त्वं वत्सरं सुखी ॥२४॥
भविष्यसि नरा ये तु दृढभक्तिसहा न्विताः ॥
त्वामर्चयन्ति विधिवत्तेऽपि स्युः सुखभागिनः ॥२५॥
यथैव राज्यं भवतस्तु सांप्रतं तथैव सा भाव्यथ कौमुदीति ॥
इत्येवमुक्त्वा मधुमदितीश्वरं निवासयित्वा सुतलं सभार्यकम् ॥२६॥
उर्वी समादाय जगाम तूर्णं स शक्रसद्मामरसंघजुष्टम् ॥
दत्त्वा मघोने मधुजित्त्रिविष्टपं कृत्वा तु देवान्मखभागभोगिनः ॥२७॥
अन्तर्दधे विश्वपतिर्महेशः संपश्यतां वै वसुधाधिपानाम् ॥२८॥
गृहीत्वेति बले राज्यं मनुपुत्रे नियोजितम् ॥
द्वीपांतरे च ते दैत्याः प्रेषिताश्चाज्ञया स्वयम् ॥२९॥
पातालनिलया ये तु ते तत्रैव निवेशिताः ॥
देवानां परमो हर्षः संजातो बलिनिग्रहे ॥२३०॥
निवासाय पुनश्चक्रे वामनो वामनो मनः ॥
तत्र क्षेत्रे स्वनगरे वामनः स न्युवास ह ॥३१॥
॥सारस्वत उवाच॥
प्रादुर्भावस्ते कथितो नरेन्द्र पुण्यः शुचिर्वामनस्याघहारी ॥
स्मृते यस्मिन्संश्रुते कीर्तिते च पापं यायात्संक्षयं पुण्यमेति ॥३२॥
॥ईश्वर उवाच॥
इति सारस्वतवचः श्रुत्वा भोजः स भूपतिः ॥
नमस्कृत्य मुनिश्रेष्ठं पूजयामास भक्तितः ॥३३॥
ततो यथोक्तविधिना स भोजो नृपसत्तमः ॥
वस्त्रापथक्षेत्र यात्रां परिवारजनैः सह ॥
कृत्वा कृतार्थतां प्राप्तो जगामान्ते परं पदम् ॥३४॥
एतन्मया पुण्यतमं प्रभासक्षेत्रे च वस्रापथमीरितं ते ॥
श्रुत्वा पठित्वा परया समेतो भक्त्या तु विष्णोः पदमभ्युपैति ॥३५॥
यथा पापानि धूयंते गंगावारिविगाहनात् ॥
तथा पुराणश्रवणाद्दुरितानां विना शनम् ॥३६॥
इदं रहस्यं परमं तवोक्तं न वाच्यमेतद्धरिभक्तिवर्जिते ॥
द्विजस्य निन्दानिरतेऽतिपापे गुरावभक्ते कृतपापबुद्धौ ॥३७॥
इदं पठेद्यो नियतं मनुष्यः कृतभावनः ॥
तस्य भक्तिः शिवे कृष्णे निश्चला जायते धुवम् ॥३८॥
तद्भक्त्या सकलानर्थान्प्राप्नोति पुरुषोत्तमः ॥।
पुराणवाचिने दद्याद्गोभूस्वर्णविभूषणम् ॥३९॥
वित्तशाठ्यं न कर्तव्यं कुर्वन्दारिद्र्यमाप्नुयात् ॥
त्रिःकृत्वा प्रपठञ्छृण्वंन्सर्वान्कामानवाप्नुयात् ॥२४०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये बलये वामनकृतवरप्रदानवृत्तान्तवर्णन पूर्वकं वस्त्रापथक्षेत्रयात्रामाहात्म्य सारस्वतभोजसंवादसमाप्तिपुरःसर वस्त्रापथक्षेत्रमाहात्म्यसमाप्तिवर्णनं नामैकोनविंशतितमोऽध्यायः ॥१९॥॥
N/A
References : N/A
Last Updated : January 14, 2025

TOP