संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे वस्त्रापथक्षेत्र माहात्म्यम्| अध्याय १६ प्रभासखण्डे वस्त्रापथक्षेत्र माहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ विषयानुक्रमणिका वस्त्रापथक्षेत्र माहात्म्यम् - अध्याय १६ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १६ Translation - भाषांतर ॥राजोवाच ॥अथासौ वामनो विप्रः प्रविष्टो गहने वने ॥एकाकी किं चकाराथ कौतुकं तद्वदस्व मे ॥१॥ ॥सारस्वत उवाच॥अथासौ वामनो विप्रो गत्वा रैवतके गिरौ ॥स्वर्णरेखानदीतोये स्नात्वाथ विधिपूर्वकम् ॥२॥सुगंधपुष्पधूपाद्यैर्देवं संपूज्य भक्तितः ॥तस्थौ तदग्रतो राजन्नेकाकी निर्जने वने ॥३॥सर्वसत्त्वसमायुक्ते सरीसृपसमाकुले॥अनेकस्वरसंघुष्टे मयूरध्वनिनादिते ॥४॥कोकिलारावरम्ये च वनकुक्कुटघोषिते ॥खद्योतद्योतिते तस्मिन्वलीमुखविधूनिते ॥५॥क्वचिद्वंशाग्निना शांते क्वचित्पुष्पितपादपे ॥गगनासक्तविटपे सूर्यतापविवर्जिते ॥६॥लुब्धकाघात संत्रस्तभ्रांतसूकरशंबरे ॥संहृष्टक्षत्रियवातस्थानदानविचक्षणे ॥७॥अनेकाश्चर्यसंपन्नं सस्मार मनसा हरिम् ॥तं भीतमिव विज्ञाय नरसिंहः समाययौ ॥८॥रक्षार्थं तस्य विप्रस्य बभाषे पुरतः स्थितः ॥न भेतव्यं त्वया विप्र वद ते किं करोम्यहम् ॥९॥ ॥विप्र उवाच॥यदि तुष्टो वरो देयो नरसिंह त्वया मम ॥सदात्र रक्षा कर्त्तव्या सर्वेषां तीर्थवासिनाम् ॥१०॥देवस्याग्रे सदा स्थेयं यावदिंद्राश्चतुर्द्दश ॥एवमस्त्विति तं प्रोच्य तथा चक्रे हरिस्तदा ॥११॥अतो दामोदरस्याग्रे नरसिंहः स पूज्यते ॥वनं सौम्यं कृतं तेन तीर्थरक्षां करोति सः ॥१२॥भूतप्रेतादिसंवासो वने तस्मिन्न जायते ॥नरसिंहप्रभावेन नष्टं सिंहादिजं भयम् ॥१३॥कार्त्तिके वासरे विष्णोर्द्वादश्यां पारणे कृते ॥दामोदरं नमस्कृत्य भवं द्रष्टुं ततो ययौ ॥१४॥चतुर्दश्यां कृतस्नानो भवं संपूज्य भावतः ॥भवभावभवं पापं भस्मीभूतं भवार्चनात् ॥१५॥स क्षीणपापनिचयो जातो देवस्य दर्शनात् ॥भवस्याग्रे स्थितं शांतं तथा वस्त्रापथस्य च ॥१६॥तं कालमेघं समभ्यर्च्य ततो वस्त्रापथं ययौ ॥देवं संपूज्य मंत्रैः स वेदोक्तैर्विधिपूर्वकम् ॥१७॥धूपदीपादिनैवेद्यैः सर्वं चक्रे स वामनः ॥प्रदक्षिणाशतं कृत्वा भवस्याग्रे व्यवस्थितः ॥१८॥यावन्निरीक्षते सर्वं तावत्पश्यति पर्वतम् ॥उज्जयंतं गिरिवरं मैनाकस्य सहोदरम् ॥१९॥सुराष्ट्रदेशे विख्यातं युगादौ प्रथमं स्थितम् ॥भूधरं भूधरैर्युक्तं शिलापादपमंडितम् ॥२०॥तं दृष्ट्वा चिंतयामास सूक्ष्मान्धर्मान्स वामनः ॥अल्पायासान्सुबहुलान्पुत्रलक्ष्मीप्रदायकान् ॥२१॥अवश्यं क्रिय माणेषु स्वधर्म उपजायते ॥दृष्ट्वा नदीं सागरगां स्नात्वा पापैः प्रमुच्यते ॥२२॥गां स्पृष्ट्वा ब्राह्मणं नत्वा संपूज्य गुरुदेवताः ॥तपस्विनं यतिं शांतं श्रोत्रियं ब्रह्मचारिणम् ॥२३॥पितरं मातरं भगिनीं तत्पतिं दुहितां पतिम् ॥भागिनेयमथ दौहित्रं मित्रसंबधिबांधवान् ॥संभोज्य पातकैः सर्वैर्मुच्यंते गृहमेधिनः ॥२४॥राजा गजाश्वनकुलं सतीवृषमहीधराः ॥आदर्शक्षीरवृक्षाश्च सततान्नप्रदास्तु ते ॥२५॥दृष्टमात्राः पुनन्त्येते ये नित्यं सत्यवादिनः ॥वेदधर्मकथां श्रुत्वा भुक्तिमुक्तिप्रदा नरान् ॥२६॥स्मृत्वा हरिहरौ गंगां कृत्वा तीरेण मार्जनम् ॥गत्वा जागरणे विष्णोर्दत्त्वा दानं च शक्तितः ॥२७॥तांबूलं कुसुमं दीपं नैवेद्यं तुलसीदलम् ॥गीतं नृत्यं च वाद्यं च विधाय सुरमंदिरे ॥२८॥एते सूक्ष्माः स्मृता धर्माः क्रियमाणा महोदयाः ॥अतो गिरीन्द्रं पश्यामि सर्वदेवालयं शुभम् ॥२९॥तेषां करतले स्वर्गः शिखरं यांति ये नराः ॥३०॥इति ज्ञात्वा समा रूढो वामनो गिरिमूर्द्धनि ॥ऐरावतपदाक्रांत्या यत्र तोयं विनिःसृतम् ॥३१॥ततः शिखरमारूढां भवानीं स्कन्दमातरम् ॥द्रष्टुं स वामनो याति शिखरे गगनाश्रिते ॥३२॥यथायथा गिरिवरे समारोहंति मानवाः ॥तथातथा विमुच्यंते पातकैः सर्वदेहिनः ॥३३॥इति कृत्वा मतिं विप्रो जगाम गिरिमूर्द्धनि ॥भवभक्तो भवानीं स ददर्श स्कन्दमातरम् ॥३४॥अंबेति भाषते स्कंदस्ततोऽन्ये सर्वदेवताः ॥पृथिव्यां मानवाः सर्वे पाताले सर्वपन्नगाः ॥३५॥अतो ह्यंबेति विख्याता पूज्यते गिरिमूर्द्धनि ॥संपूज्य विविधैर्मुख्यैः फलैर्नानाविधैर्द्विजः ॥३६॥गगनासक्तशिखरे संस्थितः कौतुकान्वितः ॥एकाकी शिखरे तस्मिन्नूर्द्ध्वबाहुर्व्यवस्थितः ॥३७॥निरीक्ष्य मेदिनीं सर्वां सपर्वतससागराम्॥आद्यं सनातनं देवं भास्करं त्रिगुणात्मकम् ॥३८॥सर्वतेजोमयं सर्वदेवं देवैर्नमस्कृतम् ॥भ्रममाणं निराधारं कालमानप्रयोजकम् ॥३९॥यावत्पश्यति तं विप्रस्तावत्पश्यति शंकरम् ॥दिगंबरं भवं देवं समंतादश्मगुंठितम् ॥४०॥बुद्धरूपाकृतिं देवं सर्वज्ञं गुणभूषितम् ॥कृशांगं जटिलं सौम्यं व्योममार्गे स्वयं स्थितम् ॥४१॥॥ ॥श्रीशिव उवाच॥शृणु वामन तुष्टोऽहं दास्ये ते विविधान्वरान् ॥त्रैलोक्यव्यापिनी वृद्धिर्भविष्यति न संशयः ॥४२॥प्रतिभास्यंति ते वेदा गीतनृत्यादिकं च यत् ॥असाध्यसाधनी शक्ति भविष्यति तव स्थिरा ॥परं वस्त्रापथे गत्वा कुरु तीर्थावलोकनम् ॥४३॥ ॥वामन उवाच॥वस्त्रापथे महादेव यानि तीर्थानि तानि मे ॥वद देव विशेषेण यद्यस्ति करुणा मयि ॥४४॥ ॥रुद्र उवाच॥वस्त्रापथस्य वायव्ये कोणे दिव्यं सरोवरम् ॥तस्य पश्चिमदिग्भागे जालिर्गहनपल्लवा ॥४५॥बिल्ववृक्षमयी मध्ये लिंगं तत्रास्ति मृन्मयम् ॥यत्रासौ लुब्धकः सिद्धो गतो मम पुरे पुरा ॥४६॥तस्य दर्शनमात्रेण ब्रह्महत्या विनश्यति ॥इंद्रो वै वृत्रहा यस्मिन्विमुक्तो ब्रह्महत्यया ॥४७॥तस्माद्रुत्तरदिग्भागे धनदेन प्रतिष्ठितम् ॥लिंगं त्रैलोक्यविख्यातं तत्र देवी त्रिशूलिनी ॥४८॥यस्या दर्शनमात्रेण पुत्रोऽस्य नलकूबर॥पाशानुषक्तहस्तोऽभूद्देवं चक्रे त्रिशूलिनम् ॥४९॥भवस्य नैर्ऋते कोणे गणो हेरंबसंज्ञितः ॥यमेन कुर्वता लिंगं प्रथमं च प्रतिष्ठितः ॥५०॥विचित्रं तस्य माहात्म्यं चित्रगुप्तोऽति विस्मितः ॥दृष्ट्वा समागतो द्रष्टुं देवं तं मृन्मयं पुरा ॥५१॥तेनापि निर्मितं लिंगं तस्मिन्क्षेत्रे द्विजोत्तम ॥चित्रगुप्तेश्वरंनाम विख्यातं भुवन त्रये ॥५२॥पश्चिमेन चकारोच्चैः प्रजापतिरुदारधीः ॥केदाराख्यं तदा लिंगं गिरौ रैवतके स्थितम् ॥प्रजापतिः स्वयं तस्थौ तत्र पर्वतसानुनि ॥५३॥ ॥रुद्र उवाच॥इंद्रेश्वरस्य माहात्म्यं कथयिष्ये शृणुष्व तत् ॥ईशानकोणे विख्यातं भवस्य विदितं मम ॥५४॥॥वामन उवाच॥कस्मादिंद्रः समायातः कथं चक्रे हरं हरिः॥कथां सविस्तरामेतां कथयस्व मम प्रभो ॥५५॥ ॥रुद्र उवाच॥लुब्धकस्तु पुरा सिद्धः शिवरात्रिप्रजागरात् ॥शिवलोके तदा प्राप्तं विमानं गणसंयुतम् ॥५६॥सर्वत्रगं सुरुचिरं दिव्यस्त्रीगीतनादितम् ॥तदारुह्य समायातो द्रष्टुं तां नगरीं हरेः ॥५७॥यस्यां युद्धं समभवद्गणानां यमकिंकरैः ॥आगच्छमानं तं ज्ञात्वा देवराजेन चिंतितम् ॥५८॥पूज्योऽयं हरवत्सर्वैश्चित्रगुप्तयमादिभिः ॥इंद्रो गजं समारुह्य महिषेण यमो यतः ॥५९॥विधाय लेखनीं कर्णे चित्रगुप्तो यमाज्ञया ॥ततो हूता गणाः सर्वे ये नीता धरणीतलात् ॥६०॥निजापराधसंतप्ता गतास्ते दक्षिणामुखम् ॥आथित्यपूजा कर्तव्या लुब्धके गृहमागते ॥६१॥अपूजिते गते ह्यस्मिन्हरो मां शपयिष्यति ॥तस्मात्पूजां करिष्यामि यथा तुष्यति शंकरः ॥६२॥देवं द्रष्टुं समायातं ददर्शादूरतः स्थितम्॥विमानस्थं हराकारं सूर्यकोटिसमप्रभम् ॥६३॥संस्तूयमानं चरितैः शिवरात्रेः शिवस्य च ॥माघे मासे चतुर्द्दश्यां कृष्णायां जागरे कृते ॥६४॥तदेवं जायते सर्वं सुरेश्वर धरातले ॥एवं देवांगना काचिदाचक्षंती पुरंदरम् ॥निवार्य हस्तमुद्यम्य गजेंद्रं चारुलोचना ॥६५॥किं दानैर्बहुभिर्दत्तैर्व्रतैः किं किं सुरार्चनैः ॥किं योगैः किं तपोभिश्च ब्रह्मचर्य्यैः सुरेश्वर ॥६६॥गयायां पिंडदानेन प्रयागमरणेन किम् ॥सोमेश्वरे सरस्वत्यां सोमपर्वणि किं गतैः ॥६७॥कुरुक्षेत्रगतैः किं स्याद्राहुग्रस्ते दिवाकरे ॥तुलासुवर्णदानेन वेदपाठेन किं भवेत् ॥६८॥सर्वपापक्षयो येन वृषोत्सर्गेण तेन किम् ॥गोदानं किं करोत्येवं जलदानं तथैव च ॥६९॥अयने विषुवे चैव संक्रांतौ कीदृशं फलम् ॥माघमासे चतुर्दश्यां यादृशं जागरे कृते ॥७०॥यमः संभाषते वाण्या महिषोपरि संस्थितः ॥पश्य रुद्रस्य माहात्म्यं चित्रगुप्त विचारय ॥७१॥अयं स लुब्धको येन हरः संपूजितः पुरा ॥सुराष्ट्रदेशे विख्यातं तीर्थं वस्त्रापथं शृणु ॥७२॥उज्जयंतो गिरिस्तत्र तथा रैवतको गिरिः ॥महती वर्त्तते जालिस्तयोर्मध्ये मया श्रुतम् ॥७३॥मृन्मयं वर्तते लिगं रात्रौ चानेन पूजितः ॥रात्रौ जागरणं कर्त्तुं येन कार्येण चागतः ॥७४॥तदस्माभिः कथं वाच्यं स्वयं जानंति ते सुराः ॥वरांगना वरं द्रष्टुं वरयंति परस्परम् ॥इंद्रावासात्समायाता नंदने वेगवत्तराः ॥७५॥विरंचिना रायणशंकरत्विषा देहेन चागच्छति कोऽपि पूरुषः ॥पुरीं सुरेशाधिपतेर्निरीक्षितुं भर्त्ता ममायं तव चास्ति किं पतिः ॥७६॥मृदंगवीणा पटहस्वरस्तुतैः प्रवोधिताभिः सुरराजमन्दिरे ॥देवो हरोऽयं न नरो हराकृतिर्दृष्टोंगनाभिस्तव किं किमावयोः ॥७७॥गायंति काश्चिद्विहसंति काश्चिन्नृत्यंति काश्चित्प्रपठंति काश्चित् ॥वदन्ति काश्चिज्जयशब्दसंयुतैर्वाक्यैरनेकैर्गुरुसन्निधाने ॥७८॥काचिच्छिवं स्तौति शिवां तथान्या पृच्छत्यथान्या किमु बिल्वपत्रात् ॥किं वोपवासेन फलं तवेदं निद्राक्षयेणाथ फलं तवैतत् ॥७९॥तासां नानाविधा वाचः श्रूयन्ते नन्दने वने ॥ब्रह्मलोकादिका वार्त्ताः कृत्वा च तदनन्तरम् ॥८०॥देवेन्द्रो लुब्धकं भूयो बभाषे कौतुकान्वितः॥कस्मिन्देशे गिरौ जालिर्लिंगं यत्रास्ति दर्शय ॥८१॥ ॥लुब्धक उवाच॥सुराष्ट्रदेशे विख्यातो यस्मिन्देशे सरस्वती ॥वाडवं शिरसा धृत्वा प्रविष्टा लवणोदधौ ॥८२॥यत्र सा गोमती याति यत्रास्ते गन्धमादनः ॥उज्जयंतो गिरिवरो यत्र रैवतको गिरिः ॥८३॥तत्र वस्त्रापथं क्षेत्रं भवस्तत्र व्यवस्थितः ॥तत्रास्ते मृन्मयं लिंगं जालिमध्ये सुरोत्तम ॥८४॥ ॥इन्द्र उवाच॥सहितैस्तत्र गंतव्यं पूजयिष्ये भवं स्वयम् ॥जालिमध्ये तथा लिंगं दर्शयस्व च लुब्धक ॥८५॥परदारादिकं पापं दैत्यानां तु विकृंतने ॥वधे वृत्रस्य संजातं तत्सर्वं क्षालयाम्यहम् ॥८६॥इत्युक्त्वा सहिताः सर्वे संप्राप्ता गिरिमूर्द्धनि॥वाहनानि च ते त्यक्त्वा प्रस्थिताः पादचारिणः ॥८७॥उज्जयन्तगिरेर्मूर्ध्नि गजराजः समागतः ॥तदाग्रचरणं तस्य ददौ मूर्धनि कारणात् ॥८८॥तेनाक्रान्तो गिरिवरस्तोयं सुस्राव निर्मलम् ॥गजपादोद्भवं वारि भविष्यति सदा स्थिरम् ॥८९॥इति प्रोक्तं सुरेन्द्रेण लोकानां हितकाम्यया ॥सर्वे समागतास्तत्र यत्र जालिर्व्यवस्थिता ॥९०॥संपूज्य विविधैः पुष्पैर्माघमासे चतुर्दशी ॥तस्यां जागरणं कृत्वा सञ्जातो निर्मलो हरिः ॥९१॥वस्त्रापथे भवं पूज्य हरिं रैवतके गिरौ ॥इन्द्रेश्वरं प्रतिष्ठाप्य संप्राप्तः स्वनिकतनम् ॥९२॥लुब्धकोऽपि विमानेन संप्राप्तो हरिमन्दिरे ॥इत्युक्त्वा स भवो देवस्तत्रैवांतरधीयत ॥९३॥वामनोपि ततश्चक्रे तत्र तीर्थावगाहनम् ॥यादृग्रूपः शिवो दृष्टः सूर्यबिंबे दिगंबरः ॥९४॥पद्मासनस्थितः सौम्यस्तथा तं तत्र संस्मरन् ॥प्रतिष्ठाप्य महामूर्त्तिं पूजयामास वासरम् ॥९५॥मनोऽभीष्टार्थसिद्ध्यर्थं ततः सिद्धिमवाप्तवान् ॥नेमिनाथशिवेत्येवं नाम चक्रे स वामनः ॥९६॥भवस्य पश्चिमे भागे प्रत्यासन्ने धरातले ॥वामनो वसतिं चक्रे तीर्थे वस्त्रापथे तदा ॥९७॥अतो यवाधिकं प्रोक्तं तीर्थं देवैः सवासवैः ॥इंद्रेण कुर्वता देवं समागत्य भवाग्रतः ॥९८॥यवाधिकं प्रभासात्तु तीर्थमेतद्भवाज्ञया ॥अन्येषां षड्गुणं तीर्थं भविष्यति शिवाज्ञया ॥९९॥इत्येतत्कथितं सर्वं किमन्यत्परिपृच्छसि ॥१००॥॥ ॥राजोवाच॥शिवरात्रिप्रभावोयमतुलः परिकीर्त्तितः ॥अजानता कृता तेन लुब्धकेन पुरा श्रुतम् ॥१०१॥इदानीं वद कर्त्तव्या कथमन्यैर्जनैर्विभो ॥किं ग्राह्यं किं नु मोक्तव्यं शिवरात्र्यां वदस्व मे ॥१०२॥ ॥सारस्वत उवाच॥संप्राप्य मानुषं जन्म ज्ञात्वा देवं महेश्वरम् ॥शिवरात्रिः सदा कार्या भुक्तिमुक्तिप्रदायिनी ॥१०३॥ईदृशं जायते पुण्यमेकया कृतया नृप ॥ये कुर्वंति सदा मर्त्त्यास्तेषां पुण्यमनंतकम् ॥१०४॥द्वादशाब्दं व्रतमिदं कर्त्तव्यं प्रतिवत्सरम्॥जीवितं चंचलं नृणां यदि कर्तुं न शक्यते ॥१०५॥तदा द्वादशभिर्मासैर्व्रत मेतत्समाप्यते ॥माघमासे चतुर्दश्यां प्रारम्भः क्रियते नृप ॥१०६॥प्रतिमासं ततः कार्यं पौषांते तु समाप्यते ॥विघ्नश्चेज्जायते मध्ये कथं चिद्दैवयोगतः ॥१०७॥न भवेद्व्रतभंगस्तु पुनः कार्यमनन्तरम् ॥द्वादशैव प्रकर्तव्याः कृत्वा संख्या विशेषतः ॥१०८॥कृतं न नश्यते लोके शुभं वा यदि वाऽशुभम् ॥कृष्णायां तु चतुर्दश्यां कृतपूर्वाह्निकक्रियः ॥१०९॥उपवासनियमो ग्राह्यो नद्यां स्नानं विधीयते ॥तदभावे तडागादौ कार्यं स्नानं स्वशक्तितः ॥११०॥तैलाभ्यंगो न कर्त्तव्यो न कार्यं गमनं क्वचित् ॥तीर्थसेवा प्रकर्त्तव्या तस्मिंश्चागमनं शुभम् ॥१११॥शिवरात्रिः सदा कार्या लिंगे स्वायंभुवे नरैः ॥तदभावे महापुण्ये लिंगे वर्षशताधिके ॥११२॥गिरौ वने समुद्रांते नद्यां यच्च शिवालये ॥तद्वै स्वायंभुवं लिंगं स्वयं तत्रैव संस्थितम् ॥११३॥वालुलिंगादिकं लिंगं पूजितं फलदं स्मृतम् ॥दिवा संपूज्य यत्नेन पुष्पधूपादिना नरः ॥११४॥वर्जयेन्मदिरां द्यूतं नारीं नखनिकृन्तनम् ॥ब्रह्मचर्यपरैः शांतैः कर्त्तव्यं समुपोषणम् ॥११५॥रात्रौ देवाग्रतो गत्वा कर्त्तव्याः सप्त पर्वताः ॥पक्वान्नफलतांबूलपुष्पधूपादिचर्चिताः ॥११६॥घृतेन दीपः कर्त्तव्यः पापनाशनहेतवे ॥यतो दीपस्य माहात्म्यं विज्ञेयं मुक्तिदायकम् ॥११७॥दीपः सदैव कर्त्तव्यो गृहे देवालये नरैः ॥दिवा निशि च संध्यायां दीपः कार्यः स्वशक्तितः ॥११८॥किञ्चिदुद्द्योतमात्रेण देवास्तुष्यंति भूतले ॥पितॄणां प्रथमं दीपः कर्त्तव्यः श्राद्धकर्मणि ॥११९॥रात्रौ जागरणं कार्यं यथा निद्रा न जा यते ॥शिवरात्रिप्रभावोऽयं श्रोतव्यः शिवसंनिधौ ॥१२०॥शिवस्य चरितं रात्रौ श्रोतव्यं बहुविस्तरम् ॥गीतं नृत्यं तथा वाद्यं कर्तव्यं शिवसंनिधौ ॥१२१॥एवं सा नीयते रात्रिर्मुख्यं जागरणं यतः ॥रात्रौ देयानि दानानि शक्त्या वै तत्र जागरे ॥१२२॥पुनः स्नात्वा प्रभाते तु कर्त्तव्यं शिवपूजनम् ॥पूजनीयाश्च यतयो भोजनाच्छादनादिभिः ॥१२३॥तपस्विनां प्रदातव्यं भोजनं गृहमेधिभिः ॥द्वादशाष्टौ च चत्वारो भोक्तव्या एक एव वा ॥१२४॥एकोऽपि ब्रह्मचारी यो ब्रह्मविच्छिवपूजकः ॥सहस्राणां समो भक्त्या गृहे संभोजितो भवेत् ॥१२५॥।अक्षारालवणं पत्रे भोक्तव्यं वाग्यतैः स्वयम् ॥पुत्रमित्रकलत्राणां दातव्यं भोजनं पुरः ॥१२६॥अनेन विधिना कार्या शिवरात्रिः शिवव्रतैः ॥द्वादशैता यदा पूर्णास्तिलपात्राणि वै तदा ॥१२७॥द्वादशैव प्रदेयानिगुरुब्राह्मणज्ञातिषु ॥व्रतांते गौः प्रदातव्या कृष्णा वत्सयुता दृढा ॥१२८॥सवस्त्राभरणा देया घंटाभरणभूषिता ॥अंगुलीयकवासांसि च्छत्रोपानत्कमण्डलु ॥१२९॥गुरवे दक्षिणा देयाब्राह्मणेभ्यः स्वशक्तितः ॥एवं कृत्वा ततो देयं तपस्विभ्योऽथ भोजनम् ॥मिष्टान्नं विविधं दत्त्वा क्षमाप्य च विसर्जयेत् ॥१३०॥एवं यः कुरुते सत्यं तस्य पापं न विद्यते ॥संतानमुत्तमं लब्ध्वा भुक्त्वा भोगाननुत्तमान् ॥१३१॥दिव्यविमानमारूढो दिव्यस्त्रीपरिवेष्टितः ॥गतिवादित्रनिर्घोषैर्नीयते शिवमन्दिरे ॥१३२॥तदेतत्कथितं पुण्यं शिवरात्रिव्रतं मया ॥कृतेन येन लोकानां सर्वपापक्षयो भवेत् ॥१३३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये शिवरात्रिमाहात्म्यवर्णनंनाम षोडशोऽध्यायः ॥१६॥ N/A References : N/A Last Updated : January 14, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP