संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे वस्त्रापथक्षेत्र माहात्म्यम्| अध्याय १४ प्रभासखण्डे वस्त्रापथक्षेत्र माहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ विषयानुक्रमणिका वस्त्रापथक्षेत्र माहात्म्यम् - अध्याय १४ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १४ Translation - भाषांतर ॥सारस्वत उवाच॥वस्त्रापथे महाक्षेत्रे नगरे वामने पुरा ॥पुत्रशोकाभिसंतप्तो वसिष्ठो भगवानृषिः ॥१॥आजगाम तपस्तप्तुं स्वर्णरेखानदीतटे ॥ईशानकोणे नगरात्स्वर्णरेखानदीजले ॥२॥स्नात्वा ध्यात्वा शिवं देवं मनसाऽचिन्तयद्यदा ॥तदा रुद्रः समायातस्त्रिनेत्रो वृषभध्वजः ॥महर्षे तव तुष्टोऽहं किं करोमि वदस्व तत् ॥३॥ ॥वसिष्ठ उवाच॥यदि तुष्टो महादेव वरो देयो ममाधुना ॥तदाऽत्र भवता स्थेयं यावदाचंद्रतारकम् ॥४॥अत्र स्नानं करिष्यंति ये नराः पापकर्मिणः ॥तेषां पापक्षयो देव कर्तव्यो भवता सदा ॥५॥नरा ये पापकर्माणः पूजयंति त्रिलोचनम् ॥तान्नरान्नय देवेश विमानैः शिवमंदिरम् ॥६॥ ॥सारस्वत उवाच॥तथेत्युक्ता हरो देवस्तत्रैवांतर धीयत ॥हिरण्यकशिपुं हत्वा नरसिंहो महाबलः ॥त्रैलोक्यमिंद्राय ददौ कालरुद्रं स्वयं ययौ ॥७॥तदन्वये बलिर्जातः स चातीव बला धिकः ॥एकातपत्रां पृथिवीं बलिश्चक्रे बलाधिकः ॥अकृष्टपच्या सुजला धरित्री सस्यशालिनी ॥८॥गन्धवंति च पुष्पाणि रसवंति फलानि च ॥आस्कन्धफलिनो वृक्षाः पुटके पुटके मधु ॥९॥चतुर्वेदा द्विजाः सर्वे क्षत्रिया युद्धकोविदाः ॥गोषु सेवापरा वैश्याः शूद्राः शुश्रूषणे रताः ॥१०॥सदाचारा जनपदा ईतिव्याधिविवर्जिताः ॥हृष्टपुष्टजनाः सर्वे सदानंदाः सदोद्यताः ॥११॥कुंकुमागुरुलिप्तांगाः सुवेषाः साधुमंडिताः ॥दारिद्र्यदुःखमरणैर्विमुक्ताश्चिरजीविनः ॥१२॥दीपोद्द्योतितभूभागा रात्रावपि यथा दिने ॥विचरंति तथा मर्त्या देवा देवालये यथा ॥ ॥१३॥पृथिव्यां स्वर्गरूपायां राज्यं चक्रेऽसुरो बलिः ॥नित्यं विवाहवादित्रैर्नादितं भूपमंदिरम् ॥१४॥धरित्रीं बुभुजे दैत्यो देवराजो यथा दिवि ॥देवेन्द्रो बलिना नित्यं यज्ञैः संतोषितस्तदा ॥१५॥देवानां दानवानां च नास्ति युद्धं परस्परम् ॥एक एव महीपालो युद्धं नास्ति धरातले ॥१६॥सपत्नककलिर्नाम नास्ति युद्धं हरेर्गजैः ॥न सर्प्पनकुलैर्नित्यं न बिडालैश्च मूषकैः ॥१७॥मैत्रीभावं गतं सर्वं जगत्स्थावर जंगमम् ॥त्रैलोक्यभ्रमणं कृत्वा नारदो नंदने वने ॥१८॥गतो न पश्यते युद्धं त्रैलोक्ये सचराचरे ॥तावत्तस्योदरे पीडा महती समजायत ॥१९॥न मे स्नानादिना कार्यं तर्प्पणैः किं प्रयोजनम् ॥जपहोमादिना सर्वमन्यथा मम चेष्टितम् ॥२०॥तत्स्नानं यत्र युध्यन्ते गजा दंतविघट्टनैः ॥सा संध्या यत्र निहतैः कबन्धैर्भूर्विभूषिता ॥२१॥कुंतघातविनिर्भिन्नगजकुम्भोद्भवासृजा ॥तृप्यंति यत्र क्रव्यादास्तर्पणं तन्मम प्रियम् ॥२२॥गजशीर्षैरगम्यास्ते निहताः क्षत्रिया रणे ॥स होमो यत्र हूयंते गजाश्च नरपुंगवाः ॥२३॥शब्दाग्नौ नारदस्यायं होमस्त्रै लोक्यविश्रुतः ॥छिन्नपादशिरोहस्तैरंतरांत्रविलबितैः ॥२४॥यदर्च्यते भूमितलं तन्मे नित्यं सुरार्चनम् ॥किं देवैर्दिवि मे कार्यं किं मनुष्यैर्धरातले ॥२५॥पन्नगैः किं तु पाताले न युध्यन्ते परस्परम् ॥तथा करिष्ये देवेन्द्रादुपेन्द्राच्च धरातले ॥२६॥रसातलं बलिर्यातु सत्यमस्तु वचो मम ॥जीवितेनापि राज्येन यदा दामोदरं हरिम् ॥२७॥तोषयिष्यति यत्नेन तदेन्द्रोऽसौ भविष्यति ॥देवेन्द्रो वृत्रहा भूत्वा भ्रष्टराज्यो भविष्यति ॥२८॥यदा वस्त्रापथे गत्वा भवं भावेन पूजयेत् ॥सुराधिपस्तदा भूयो ब्रह्महत्याविवर्जितः ॥२९॥अनेन मन्त्रजाप्येन स शांतोदरवे दनः ॥नारदो देवराजस्य समीपं सहसा ययौ ॥३०॥सिंहासनं समारुह्य नन्दने संस्थितो हरिः ॥आस्ते परिवृतो देवेर्देवराजो महाबलः ॥३१॥निरीक्षमाणो नृत्यन्तीं रंभां तां सुरसुन्दरीम्॥आयांतं ददृशे देवो नारदं विस्मयान्वितः ॥३२॥अहो विरुद्धो भगवान्नारदो मयि दृश्यते ॥नृत्यते किं न वा नृत्ये गीयते किं न गीयते ॥३३॥वाद्यतां तालमानैः किं यावच्चिंतापरो हरिः ॥ऋषिः समागतस्तावज्जलाभ्युक्षणत त्परः ॥३४॥सिंहासनं परित्यज्य समुत्थायाग्रतः स्थितः ॥स्वागतेनाभिवाद्याथ बभाषे नारदं हरिः ॥३२॥महर्षे स्वागतं तेऽद्य कुतो वाऽऽग म्यते त्वया ॥स्नाने संध्यार्चने होमे कुशलं तव विद्यते ॥३६॥इति प्रोक्तो विहस्याथ बभाषे नारदो हरिम् ॥यद्येतज्जायते मह्यं किमन्येन प्रयोजनम् ॥३७॥प्रेक्षणीकस्य ते स्थानं नाहं पश्यामि स्वर्पते ॥यावद्राज्यं बलेस्तावत्त्वया मे न प्रयोजनम् ॥३८॥आदित्याद्या ग्रहाः सर्वे काल मानेन योजिताः ॥आहुत्या प्लाविता मेघा वर्षंति हृषिता भुवि ॥३९॥रोगादिमरणं नास्ति यमो धर्मेण पीडितः ॥२४०॥एकातपत्रां पृथिवीं बुभुजे स नराधिपः ॥त्रैलोक्यनाथेति महानृपेति संग्रामविद्याकुशलेति नित्यम् ॥त्रैलोक्यलक्ष्मीकुचकामुकेति संस्तूयते चारणबंदिवृन्दैः ।४१॥ब्रह्मेति कृष्णेति हरेति भूमाविंद्रेति सूर्येति धनाधिपेति ॥देवारिनाथेति सुराधिपेति जेगीयते चारणबंदिवृन्दैः ॥४२॥युद्धं विना दैत्यगणा हसंति मत्ताः प्रमत्ताः करिणो नदंति ॥रथाधिरूढाः पुरुषा भ्रमंति सेनाधिपा स्त्रीषु गृहे रमंति॥४३॥यज्ञाग्निधूमेन नभो विराजते सुवर्णरूपा पृथिवी विराजते॥शून्यं तु वेदैर्भुवनं च शोभते धिष्ण्यं बलेर्दैर्त्यैगणैश्च शोभते ॥४४॥बलिर्न जानाति सुराधिपं त्वां सुराश्च सर्वे बलियज्ञभोजिनः ॥त्वमेव तेऽरिं हृदि चिंतय स्वयं युक्तं तवेदं कथितं मयेति ॥४५॥रंभा न राजते रंगे मेनका त्वां न मन्यते ॥तिलोत्तमापि मनुते बलिराजं सुरेश्वरम् ॥४६॥उर्वशी चैव तं याति सुकेशा सह भाषते ॥मञ्जुघोषा मुखं वक्त्रं कृत्वा त्वां न निरीक्षते ॥४७॥पुलोमा पुलकोद्भेदं न करोति बलिं विना ॥पौलोमी पुरतो गत्वा बलिं स्तौति च मंथरा ॥४८॥नारदः पर्वतश्चैव हाहा हूहूश्च तुंबुरुः ॥बलिराज्यं प्रशंसंति रुद्रस्याग्रे मया श्रुतम् ॥४९॥आज्याहुतीभिः सन्तुष्टा ऋषयो ब्रह्मसद्मनि ॥ब्रह्मणोऽग्रे प्रशंसंति तदेवं कथितं मया ॥५०॥ बृहस्पतिर्यदाचष्टे न तद्वाच्यं मया तव ॥इंद्राणी बलिनं मत्वा बलिं चित्रेषु पश्यति ॥५१॥अनेन वाक्येन सुराधिपस्तु चचाल कोपावरितस्तदानीम् ॥गजेति वज्रेति जगाद सूतं समानयासिं कवचं रथं च ॥५२॥रथेन सूर्यो मरुतो गजेन वृषेण रुद्रो महिषेण सौरिः ॥वाद्यंतु वाद्यानि रणाय मेऽद्य चण्डी गणेशास्त्वरिताः प्रयातु ॥५३॥दृष्ट्वा सुरेन्द्रं संक्रुद्धं बृहस्पतिरुदारधीः ॥ऋषिमध्ये गतो विद्वान्बभाषे समयोचितम् ॥५४॥सामाद्या नीतयः प्रोक्ताश्चतस्रो मनुना पुरा ॥सामसाध्येषु कार्येषु दण्डस्तेन न पात्यताम् ॥५५॥अतो ह्युपेन्द्र्माहूय मंत्रयन्तु सुरोत्तमाः ॥तदधीनं जगत्सर्वं त्रैलोक्यं सचराचरम् ॥५६॥विनष्टेषु च कार्येषु तस्य वाच्यं शुभाशुभम् ॥स एव प्रथमं गच्छेत्पृथिव्यां स्वार्थसिद्धये ॥५७॥तथेति देवैर्विज्ञप्तस्तथा चक्रे सुरेश्वरः ॥मन्दरेऽथ गिरौ विष्णुः सत्यलोकात्समागतः ॥५८॥ऋषयस्तत्र ते यांतु समानेतुं जनार्द्दनम् ॥इत्युक्तो नारदः स्वर्गात्स्नातुं प्राप्तः स मन्दरे ॥५९॥गौतमोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ कश्यपः ॥जमदग्निर्वसिष्ठश्च संप्राप्ता हरिमन्दिरे ॥६०॥गिरौ गंगा जले स्नानं संध्यां चक्रे स नारदः ॥यावदास्ते तदा हृष्टा वालखिल्या महर्षयः ॥६१॥विनयेनाभिवाद्याथ कथयामास नारदः ॥ऋषयो मन्दरे प्राप्ता विष्णुं नेतुं सुरालये ॥६२॥ऋषयो दर्शनं कर्त्तुं भवतामपि युज्यते ॥तदेतद्वचनं श्रुत्वा हर्षितास्ते महर्षयः ॥६३॥अंगुष्ठपर्वमात्रांस्तान्वामनान्हरिमन्दिरे॥गतान्गंगाजले स्नातुं वालखिल्यान्पुरो हरिः ॥६४॥जहास वामनान्सर्वान्भाविकार्यबलात्ततः॥ब्रह्मपुत्रा वालखिल्याः सर्वे ते शंसितव्रताः ॥६५॥लज्जान्विताः क्रोधपरा उच्चैरूचुः परस्परम् ॥केनापि देवकार्येण वामनोऽयं भविष्यति ॥६६॥ऋषिभिर्वि ष्णुना सर्वे प्रतिबोध्य प्रसादिताः ॥भाग्यमोक्षः कदा विष्णोर्भविष्यति तदुच्यताम् ॥६७॥प्रभासादधिकं क्षेत्रं यदा वस्त्रापथं भवेत् ॥भविष्यति तदा वृद्धिर्ध्रुवमण्डलव्यापिनी ॥तथा वस्त्रापथं क्षेत्रं भविष्यति यवाधिकम् ॥६८॥दृष्ट्वा सोमेश्वरं देवं दोषमुक्तो भविष्यति ॥असाध्यसाधनी शक्तिर्भविष्यति स्थिरा तव ॥६९॥वस्त्रापथे सोमनाथं यः पश्यति स पश्यति ॥इन्द्रोपेन्द्रौ समालिंग्याथासीनौ तौ वरासने ॥७०॥॥ ॥विष्णुरुवाच॥किं ते कार्यं देवराज तदवश्यं करोम्यहम् ॥७१॥ ॥इन्द्र उवाच॥हिरण्यकशिपोर्वंशे बलिर्दैत्यो महा बलः ॥तेनेदं सकलं व्याप्तं देवा यज्ञभुजः कृताः ॥७२॥देवलोके भूमिलोको गतः सर्वोऽपि केशव ॥यावन्नो विकृतिं याति पूर्ववैरमनुस्मरन् ॥भ्रष्टराज्यो बलिस्तावत्पातालमधितिष्ठतु ॥७३॥सूर्यसोमान्वये कश्चिद्राजा भवतु भूतले ॥७४॥ ॥सारस्वत उवाच॥इत्येतद्वचनं श्रुत्वा स्वयं संचिन्त्य चेतसा ॥तथा करिष्ये तं प्रोच्य मुनीन्प्राह जनार्दनः ॥७५॥ऋषयस्तत्र गच्छंतु कारयन्तु महामखम् ॥अहं तत्रागमिष्यामि साधयिष्यामि तं बलिम् ॥७६॥इत्युक्ता मुनयः सर्वे गतास्ते यज्ञमण्डपे ॥द्वादशाहो महायज्ञः प्रारब्धः सर्वदक्षिणः ॥७७॥सुराष्ट्रदेशं विख्यातं क्षेत्रं वस्त्रापथं नृप ॥तस्य दक्षिणदिग्भागे बलेः सिद्धं महापुरम् ॥७८॥क्षेत्राद्बहिः समारब्धो यज्ञः सर्वस्वदक्षिणः ॥शुक्रेणामन्त्रिताः सर्वे मुनयो यज्ञकर्मणि ॥अतिहृष्टो बलिर्यज्ञे ददौ दानान्यनेकधा ॥७९॥स्वर्णपात्रेषु सर्वेषु दीयते भोजनं बहु ॥अतिथिर्ब्राह्मणो विद्वान्सर्वस्वेनापि पूज्यते ॥दानाद्यज्ञो भवेत्पूर्णो दानहीनो वृथा भवेत् ॥८०॥एतस्मिन्नेव काले तु विष्णुर्वामनतां गतः ॥मध्यदेशे चतुर्वेदो ब्राह्मणस्तीर्थयात्रिकः ॥महोदरो ह्रस्वभुजः खञ्जपादो महाशिराः ॥८१॥महाहनुः स्थूलजंघः स्थूलग्रीवोऽतिलंपटः ॥श्वेतवस्त्रो बद्धशिखश्छत्रोपानत्कमण्डलून् ॥८२॥द्रष्टुं तीर्थान्यनेकानि बभ्राम स महीतले ॥सुराष्ट्रदेशे संप्राप्तः क्षेत्रे वस्त्रापथे द्विजः ॥८३॥स्वर्णरेखा नदीतीरे चिंतयामास वामनः ॥प्रथमं किं भवं दृष्ट्वा यामि सोमेश्वरं शिवम् ॥८४॥अथ सोमेश्वरं पूज्य पश्चाद्यास्यामि मन्दरम् ॥इति चिन्तापरो भूत्वा कृत्यं सञ्चिन्त्य चेतसा ॥अत्र स्थितः सोमनाथं पूजयिष्यामि निश्चितम् ॥८५॥वस्त्रापथे महाक्षेत्रे भवं सोमेश्वरं वृथा ॥पूजयंति जना नित्यं तथा कार्यं मया धुवम् ॥८६॥देशानामुत्तमो देशो गिरीणामुत्तमो गिरिः ॥क्षेत्राणामुत्तमं क्षेत्रं नदीनामुत्तमा सरित् ॥८७॥दिव्यं वनं वनानां तु देवानामुत्तमो भवः ॥यदा सोमेश्वरो देवो भूमिं भित्त्वा भविष्यति ॥८८॥तदाम्रमण्डले दिव्यं क्षेत्रमेतद्यवाधिकम् ॥चैत्र शुक्लचतुर्दश्यामग्निसाधनतत्परः ॥८९॥ऊर्ध्वबाहुः सूर्यकाले भवं तावत्स पश्यति ॥मध्यंदिनं परं याते दिननाथे विलंबिते ॥९०॥अग्नि तापांगसंतप्तस्तावत्पश्यति शंकरम् ॥सोमनाथं शिवं शांतं सर्वदेवनमस्कृतम् ॥अर्घ्येण पुष्पमिश्रेण जलमिश्रेण भामिनि ॥९१॥॥ ॥सारस्वत उवाच॥भूमिं भित्त्वाथ देवेशः स्वयं सोमेश्वरः स्थितः ॥लिंगरूपो महादेवो यावदाब्रह्मवासरम् ॥९२॥ ॥सोमेश्वर उवाच॥सिद्धस्त्वं मत्प्रसादेन कार्यं सिद्धं भविष्यति ॥इत्युक्तो वामनो देवं प्रत्युवाच महेश्वरम् ॥९३॥ ॥वामन उवाच॥यदि तुष्टो महादेव यदि देयो वरो मम ॥तदाऽत्र लिंगे स्थातव्यमस्तु दिव्यं पुरो मम ॥९४॥यस्तु स्वायंभुवं लिंगं वामने नगरे मम ॥पूजयिष्यति ब्रह्मघ्नो गोघ्नो वा बालघातकः ॥९५॥गुरुद्रोही स्वर्णचोरो मुच्यते सर्वपातकैः ॥निर्दोषः पूजयेद्यस्तु सकृत्सोमेश्वरं हरम् ॥९६॥मृतो विमानमारुह्य दिव्यस्त्रीपरिवेष्टितः ॥संस्तूयमानो दिक्पालैर्यातु स्वर्गे शिवालये ॥९७॥ब्रह्मलोकमतिक्रम्य रुद्रलोके स गच्छतु ॥तथेत्युक्त्वा सोमनाथस्तत्रैवान्तरधीयत ॥९८॥प्रकाश्य वामनो लिगं सोमनाथं स्वयंभुवम् ॥प्राप्तज्ञानो लब्धवृद्धिर्ययौ द्रष्टुं भवं हरम् ॥९९॥गंगाद्याः सरितः सर्वाः स्वर्णरेखाजले स्थिताः ॥एतां सोमेश्वरोत्पत्तिं ये शृण्वंति नराः स्त्रियः ॥सर्वपापक्षयस्तेषां जायते नात्र संशयः ॥२१००॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये सोमेश्वरोत्पत्तिवर्णनंनाम चतुर्दशोऽध्यायः ॥१४॥ N/A References : N/A Last Updated : January 14, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP