संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे वस्त्रापथक्षेत्र माहात्म्यम्| अध्याय ७ प्रभासखण्डे वस्त्रापथक्षेत्र माहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ विषयानुक्रमणिका वस्त्रापथक्षेत्र माहात्म्यम् - अध्याय ७ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ७ Translation - भाषांतर ॥राजोवाच॥कथं त्वं हरिणीरूपे जाता मानुषरूपिणी ॥केन संवर्धिता बाल्ये कथं ते रूपमीदृशम् ॥१॥ ॥मृग्युवाच॥शृणु देव प्रवक्ष्यामि यद्वृत्तं कन्यके वने ॥ऋषिरुद्दालकोनाम गंगाकूले महातपाः ॥२॥प्रभाते मूत्रमुत्सृष्टुं गतो देव वनांतरे ॥मूत्रांते पतितो भूमौ वीर्यबिंदुर्द्विजन्मनः ॥३॥यावत्स चलितो विप्रः शौचं कृत्वा प्रयत्नतः ॥तावन्मृगी समायाता दृष्ट्वा पुष्पवनांतरात् ॥४॥चापल्याद्भक्षितं वीर्यं दृष्टं ब्रह्मर्षिणा स्वयम् ॥यस्मादश्नाति मे वीर्यं तस्माद्गर्भो भविष्यति ॥५॥ममरूपा तववक्त्रा नारी गर्भे भविष्यति ॥वर्द्धयिष्यति देव्यस्तां रसैर्दिव्यैः सुतां तव ॥६॥केनापि दैवयोगेन ज्ञानं तस्या भविष्यति ॥एवमुद्दालकादेव संजाताहं मृगानना ॥प्रविश्याग्नौ मृता पूर्वं त्वया सार्द्धं नराधिप ॥७॥तस्माज्जातं सतीत्वं मे सप्तजन्मनि वै प्रभो ॥यत्त्वया कुर्वता राज्यं पापं वै समुपार्जितम् ॥८॥क्षत्त्रधर्मं परित्यज्य पलायनपरो मृतः ॥तदेनो हि मया दग्धं चिताग्नौ नृपसत्तम ॥९॥पतिं गृहीत्वा या नारी मृतमग्नौ विशेद्यदि ॥सा तारयति भर्तारमात्मानं च कुलद्वयम् ॥१०॥गोग्रहे देशभंगे च संग्रामे सम्मुखे मृतः ॥स सूर्यमण्डलं भित्त्वा ब्रह्मलोके महीयते ॥११॥अनाशकं यो विदधाति मर्त्त्यो दिनेदिने यज्ञसहस्रपुण्यम् ॥स याति यानेन गणान्वितेन विधूय पापानि सुरैः स पूज्यते ॥१२॥गंगाजले प्रयागे वा केदारे पुष्करे च ये ॥वस्त्रापथे प्रभासे च मृतास्ते स्वर्गगामिनः ॥१३॥द्वारावत्यां कुरुक्षेत्रे योगाभ्यासेन ये मृताः ॥हरिरित्यक्षरं मृत्यौ येषां ते स्वर्गगामिनः ॥१४॥पूजयित्वा हरिं ये तु भूमौ दर्भतिलैः सह ॥तिलांश्च पञ्चलोहं च दत्त्वा ये तु पयस्विनीम् ॥१५॥ये मृता राजशार्दूल ते नराः स्वर्ग गामिनः ॥उत्पाद्य पुत्रान्संस्थाप्य पितृपैतामहे पदे ॥१६॥निर्मला निष्कलंका ये ते मृताः स्वर्गगामिनः ॥व्रतोपवासनिरताः सत्याचारपरायणाः ॥अहिंसानिरताः शांतास्ते नराः स्वर्गगामिनः ॥१७॥सापवादो रणं त्यक्त्वा मृतो यस्मान्नराधिप ॥सप्तयोनिषु ते जन्म तस्माज्जातं मया सह ॥१८॥त्वां विना मे पतिर्मा भून्मरणे याचितं मया ॥तदांतरिक्षे राजेन्द्र वागुवाचाशरीरिणी ॥आदौ पापफलं भुक्त्वा पश्चा त्स्वर्गं गमिष्यसि ॥१९॥यदि वस्त्रापथे गत्वा शिरः कश्चिद्विमुंचति ॥स्वर्णरेखाजले राजन्मानुषं स्यान्मुखं मम ॥२०॥अहं मानुषवक्त्राऽस्मि पापच्छायाऽऽवृतं मुखम् ॥दृश्यते मृगवक्त्राभं तस्माच्छीघ्रं विमुंचय ॥२१॥इति श्रुत्वा वचो राजा सारस्वतमुदैक्षत ॥जनो विहस्य सानन्दं सर्वं सत्यं मृगीवचः ॥२२॥इत्युक्त्वाऽऽह द्विजेन्द्रः स एवं कुरु नृपोत्तम ॥एवं राज्ञा समादिष्टः प्रतीहारो ययौ वनम् ॥२३॥वस्त्रापथे महातीर्थे भवं द्रष्टुं त्वरान्वितः ॥त्वक्सारजालिर्महती स्वर्णरेखाजलोपरि ॥२४॥वर्त्तते तच्छिरो यत्र वंशप्रोतं महावने ॥सारस्वतस्य शिष्येण कुशलेन निवेदितम् ॥२५॥तीर्थं वस्त्रापथं गत्वा भवस्याग्रे महानदी ॥जाले तत्र शिरो दृष्टं तच्च तोये विमोचितम् ॥२६॥स्नात्वा संपूज्य तीर्थेशं प्रतीहारः समभ्यगात् ॥शिष्येण सहितो वेगाद्रथेनादित्यवर्चसा ॥२७॥यदागतः प्रतीहारस्तदा सारस्वतेन सा ॥वृता चान्द्रायणेनैव मासमेकं निरन्तरम् ॥२८॥संपूर्णे तु व्रते तस्या दिव्यं वक्त्रं सुलोचनम् ॥सुशोभनं दीर्घकेशं दीर्घकर्णं शुभद्विजम् ॥२९॥कम्बुग्रीवं पद्मगंधं सर्वलक्षणसंयुतम्॥व्रतांते मूर्च्छिता बाला गतज्ञाना वभूव सा ॥३०॥न देवी न च गंधर्वी नासुरी न च किंनरी ॥यादृशी सा तदा जाता तीर्थभावेन सुन्दरी ॥३१॥परिणीता तु सा तेन भोजराजेन सुन्दरी ॥मृगीमुखीति विख्याता देवी सा भुवनेश्वरी ॥३२॥न जानाति पुनः किंचिद्यद्वृत्तं राजमन्दिरे ॥कृता सा पट्टमहिषी भोजराजेन धीमता ॥३३॥ ॥ईश्वर उवाच॥देशानां प्रवरो देशो गिरीणां प्रवरो गिरिः ॥क्षेत्राणामुत्तमं क्षेत्रं वनानामुत्तमं वनम् ॥३४॥गंगा सरस्वती तापी स्वर्णरेखाजले स्थिता ॥ब्रह्मा विष्णुश्च सूर्यश्च सर्व इन्द्रादयः सुराः ॥३५॥नागा यक्षाश्च गन्धर्वा अस्मिन्क्षेत्रे व्यवस्थिताः ॥ब्रह्मांडं निर्मितं येन त्रैलोक्यं सचराचरम् ॥३६॥देवा ब्रह्मादयो जाताः स भवोऽत्र व्यवस्थितः ॥शिवो भवेति विख्यातः स्वयं देवस्त्रिलोचनः ॥३७॥वेवेति स्कन्दरचनाद्भवानी चात्र संस्थिता ॥अतो यन्नाधिकं प्रोक्तं तीर्थं देवि मया तव ॥३८॥तस्मिञ्जले स्नानपरो नरो यदि संध्यां विधायानु करोति तर्पणम् ॥श्राद्धं पितॄणां च ददाति दक्षिणां भवोद्भवं पश्यति मुच्यते भवात् ॥३९॥अथ यदि भवपूजां दिव्यपुष्पैः करोति तदनु शिवशिवेति स्तोत्रपाठं च गीतम् ॥सुरवर गणवृन्दैः स्तूयमानो विमानैः सुरवरशिवरूपो मानवो याति नाकम् ॥४०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये स्वर्णरेखायां मृगाननायाः पूर्वजन्ममृगमुखप्रक्षेपणेन दिव्यमुखत्वप्राप्त्युत्तरं भोजनृपतिपरिणय वृत्तान्तपूर्वकं स्वर्णरेखामाहात्म्यवर्णनंनाम सप्तमोऽध्यायः ॥७॥ N/A References : N/A Last Updated : January 14, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP