संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे वस्त्रापथक्षेत्र माहात्म्यम्| अध्याय ११ प्रभासखण्डे वस्त्रापथक्षेत्र माहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ विषयानुक्रमणिका वस्त्रापथक्षेत्र माहात्म्यम् - अध्याय ११ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ११ Translation - भाषांतर ॥ईश्वर उवाच॥सारस्वतस्य विप्रस्य श्रुत्वा भोजनृपो वचः ॥विवर्णवदनो भूत्वा प्रगृह्यांघ्री वचोऽब्रवीत् ॥१॥मुने नैवं त्वया वाच्यं गंतव्यं निश्चितं मया ॥नराणां पुण्यदा यात्रा कथयस्व कथं भवेत् ॥२॥किं ग्राह्यं किं च मोक्तव्यं किं देयं किं न दीयते ॥तीर्थोपवासः स्नानं च संध्यास्नानविधिक्रमः ॥पूजा निद्रा जपो रात्रौ सर्वं संक्षेपतो वद ॥३॥ ॥सारस्वत उवाच॥सुराष्ट्रदेशे गन्तव्यं गिरौ रैवतके यदि ॥नृप यात्राविधिं वक्ष्ये त्वमेकाग्रमनाः शृणु ॥४॥बृहस्पतिबलं गृह्य सूर्यं संतर्प्य चोत्तमम् ॥वामतः पृष्ठतः सर्वं वृत्वा संशोध्य वासरम् ॥५॥चंद्रलग्नं ग्रहाज्ज्ञात्वा बलिष्ठाज्जन्मराशितः॥शकुनं च शुभं लब्ध्वा प्रस्थातव्यं नृपैर्नृप ॥६॥तीर्थे सदैव गंतव्यं सर्वे मासाश्च शोभनाः ॥तिथयश्चोत्तमाः सर्वाः स्नानदानार्चनादिषु ॥७॥अष्टम्यां च चतुर्दश्यां मासांते पूर्णिमादिने ॥संक्रांतौ ग्रहणे काला एते प्रोक्ता भवार्चने ॥८॥कैलासं पर्वतं त्यक्त्वा देवीं देवांश्च संगतान्॥वैशाखे पंचदश्यां तु भूमिं भित्त्वा भवोऽभवत् ॥९॥तस्मिन्नेव दिने देवी स्वर्णरेखा नदी तलात् ॥पंथानं वासुकिं प्राप्य सर्वपापप्रणाशनी ॥१०॥।ऐरावतपदाक्रांत उज्जयन्तो महागिरिः ॥सुस्राव तोयं बहुधा गजपादोद्भवं शुचि ॥११॥देवा ब्रह्मादयः सर्वे गंगाद्याः सरितस्तथा ॥वस्त्रापथे महाक्षेत्रे भवभावेन संगताः ॥१२॥वस्त्रापथस्य क्षेत्रस्य प्रमाणं शृणु भूपते ॥हरस्य त्यजतो भूमौ पतितं वस्त्रभूषणम् ॥१३॥तावन्मात्रं स्मृतं क्षेत्रं देवैर्वस्त्रापथं कृतम् ॥उत्तरेण नदी भद्रा पूर्वस्यां योजनद्वयम् ॥१४॥दक्षिणेन बलेः स्थानमुज्जयन्तो नदीमनु ॥अपरस्यां परं नद्यो संगमं वामनात्पुरात् ॥१५॥एतद्वस्त्रापथं क्षेत्रं भुक्तिमुक्तिप्रदायकम् ॥क्षेत्रस्य विस्तरो ज्ञेयो योजनानां चतुष्टयम् ॥१६॥वैशाखपंचदश्यां तु भवो भावेन भूपते ॥पूज्यते शिवलोके तु स्थीयते ब्रह्मवासरम् ॥१७॥अतो वसंते संप्राप्ते प्रयाणं कुरु भूपते ॥निगृह्य नियमान्भूत्वा शुचिः स्नातो जितेन्द्रियः ॥१८॥गजवाजिरथांस्त्यक्ता पदाभ्यां याति यो नरः ॥पुष्पकेण विमानेन स याति शिवमंदिरम् ॥१९॥एकभक्तेन नक्तेन तथैवायाचितेन च ॥भिक्षाहारेण तोयेन फलाहारेण वा यदि ॥२०॥उपवासेन कृच्छ्रेण शाकाहारेण याति यः ॥स याति सुन्दरीवृन्दैर्वीज्यमानो गणैर्दिवि ॥२१॥मलस्नानं विना मार्गे पादाभ्यंगविवर्जितः ॥मलधारी क्षीणतनुर्यष्टिहस्तो जितेन्द्रियः ॥२२॥शीतातपजलक्लिष्टः शिवस्मरणतत्परः ॥यदि याति नरो याति स भित्त्वा सूर्यमंडलम् ॥२३॥नरकस्थानपि पितॄन्मातृतः पितृतो नृप ॥अक्षयं सप्त सप्तैव नयेदेवं शिवालये ॥२४॥लुण्ठन्भूमौ यदा याति मृगचर्मावगुंठितः ॥दण्डप्रमाणभूमेर्वा संख्यां कुर्वन्नरो यदि ॥२५॥अरण्ये निर्जले स्थाने जलांतःपरिपीडितः ॥शरण्यं शंकरं कृत्वा मनो निश्चलमात्मनः ॥२६॥सप्तद्वीपवतीं पृथ्वीं समुद्रवसनां नृप ॥स लब्ध्वा बहुभिर्यज्ञैर्यज्ञे दत्त्वा च मेदिनीम् ॥२७॥सप्तभौमविमानस्थो दिव्यदेहो हराकृतिः ॥निरीक्ष्य मेदिनीं मंदं कृत मंगलमण्डनम् ॥२८॥मृगनेत्राभुजस्पर्शलग्नपीनपयोधरः ॥गीतवाद्यविनोदेन सत्यलोकं व्रजेन्नरः ॥२९॥विधाय भुजवेगं वा पादौ बद्ध्वा शनैः शनैः ॥मौनेन मानुषो मायां त्यक्त्वा याति शिवालये ॥३०॥ब्रह्मघ्नो वा सुरापो वा स्तेयी वा गुरुतल्पगः ॥कृतघ्नो मुच्यते पापैर्मृतो मुक्तिमवाप्नुयात् ॥३१॥मातरं पितरं देशं भ्रातरं स्वजनबांधवान् ॥ग्रामं भूमिं गृहं त्यक्त्वा कृत्वा चेंद्रियसंयमम् ॥३२॥गृहीत्वा शिवसंस्कारं नरो भ्राम्यति भूतले ॥द्रष्टुं तीर्थान्यनेकानि पुण्यान्यायतनानि च ॥३३॥कस्मिंस्तीर्थे शुभे स्थाने छित्त्वा संसारबन्धनम् ॥अभयां दक्षिणां दत्त्वा शिवशिवेति भाषकः ॥३४॥एकांते निर्जने स्थाने शिवस्मरणतत्परः ॥यदि तिष्ठति तं यान्ति नमस्कर्तुं नराधिप ॥३५॥आयांति देवताः सर्वे चिह्नं तस्य निरीक्षितुम् ॥विमानवृन्दैर्नेतव्यः कदासौ पुरुषोत्तमः ॥३६॥यदा तु पञ्चत्वमुपैति काले कलेवरं स्कन्धकृतं नरैश्च ॥निरीक्ष्यमाणः सुरसुन्दरीभिः स नीयमानो मदविह्वलाभिः ॥३७॥सुरेन्द्रसूर्याग्निधनेशरुद्रैः संपूज्यमानः शिवरूपधारी ॥सुरादिलोकान्प्रविमुच्य वेगाच्छिवालये तिष्ठति रुद्रभक्तः ॥३८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे द्वितीये वस्त्रापथक्षेत्र माहात्म्ये वस्त्रापथयात्राविधानवर्णनंनामैकादशोऽध्यायः ॥११॥ N/A References : N/A Last Updated : January 14, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP