संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे वस्त्रापथक्षेत्र माहात्म्यम्| अध्याय १ प्रभासखण्डे वस्त्रापथक्षेत्र माहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ विषयानुक्रमणिका वस्त्रापथक्षेत्र माहात्म्यम् - अध्याय १ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १ Translation - भाषांतर ॥अथ श्रीस्कादे महापुराणे सप्तमे प्रभासखण्डे द्वितीयं श्रीवस्त्रापथक्षेत्रमाहात्म्यं प्रारभ्यते॥ ॥ईश्वर उवाच॥अथ ते संप्रवक्ष्यामि क्षेत्रगर्भं महोदयम् ॥तद्वस्त्रापथमाहात्म्यं यत्र रैवतको गिरिः ॥१॥दामोदरं रैवतके भवं वस्त्रापथे तथा ॥एतद्रैवतकं क्षेत्रं वस्त्रापथमिति स्मृतम् ॥२॥सुवर्णरेवा यत्रस्था नदी पातकनाशनी ॥यत्र साक्षात्स्थितः कृष्णो दामोदर इति स्मृतः ॥३॥यत्र स्थितं मृगीकुण्डं महापातकनाशनम् ॥सकृच्छ्राद्धे कृते यत्र कल्पकोटिसहस्रकम् ॥पितॄणां जायते तृप्तिरपुनर्भवकांक्षिणी ॥४॥ ॥देव्युवाच॥भगवन्विस्तराद्ब्रूहि दामोदरमहोदयम् ॥क्षेत्रगर्भस्य माहात्म्यं कर्णिकारूपसंस्थितम् ॥५॥ ॥ईश्वर उवाच॥शृणु देवि प्रवक्ष्यामि दामोदरहरिं प्रति ॥इतिहासं पुराख्यातमृषिभिः कल्पवासिभिः ॥६॥गंगातीरे शुभे रम्ये पुण्ये जनपदाकुले ॥ऋषिभिः सेविते नित्यं स्वर्गमार्गप्रदे ध्रुवम् ॥७॥तत्र ज्ञानविदो विप्रा यजंति विविधैर्मखैः ॥ऋषयः सांख्ययोगेन दानेनैवेतरे जनाः ॥८॥ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा स्वर्गमभीप्सवः ॥सेवंते तज्जलं दिव्यं देवानामपि दुर्लभम् ॥९॥तत्र राजा गजोनाम बली सर्वजनाधिपः ॥गंगाजलाभिषेकार्थं त्यक्वा राज्यं जगाम ह ॥१०॥भार्या तस्य सती साध्वी पुत्रिणी रूपसंयुता ॥साऽप्ययात्सह तेनैव भर्त्रा वै भर्तृवत्सला ॥११॥संगता नाम नाम्ना च दक्षा दाक्षायणी यथा ॥एवं निवसतोस्तत्र वर्षाणामयुतं गतम् ॥१२॥आजगाम ऋषिस्तत्र भद्रोनाम महायशाः ॥सहितो बहुभिर्विप्रैर्जपहोमपरायणैः ॥१३॥त्यक्त्वा संसारमार्गं तु स्वर्गमार्गजिगीषवः ॥गंगानिषेवणं कृत्वा स्फोटयित्वाऽऽत्मजं मलम् ॥१४॥जलं दत्त्वा तु भूतेभ्यः पूजयित्वा जनार्द्दनम्॥यावद्यांति नदीतीर ऋषयो भद्रकादयः ॥तावत्पश्यंति राजानं गजं वरगजोपमम् ॥१५॥तेनैव दृष्टा मुनयो राज्ञा निहतकल्मषाः ॥सप्तर्षयो यथा स्वर्गे सुरराजेन धीमता ॥१६॥तमृषिं स च संप्रेक्ष्य पदानि दश पंच च ॥आगच्छन्त्वत्र पूजार्हा भवतो मम मन्दिरम् ॥१७॥पश्यंतु संगतां सर्वे मम भार्यां यशस्विनीम् ॥तस्याः पूजां समादाय यो मार्गो मनसि स्थितः ॥१८॥तं गच्छध्वं महाभागाः पुण्याः पुण्यमभीप्सवः ॥एवमुक्तास्तु ते राज्ञा ऋषयः कौतुकान्विताः ॥आजग्मुर्मंदिरं शुभ्रं पुरंदरपुरोपमम् ॥१९॥आसनानि विचित्राणि दत्त्वा तेषां मनस्विनी ॥संगता राजराजेन सार्द्धमग्रे व्यवस्थिता ॥२२०॥कृत्वा करपुटं राजा ऋषीणां पुण्यकर्मणाम् ॥बभाषे वचनं राजा भद्रो भद्रं सुसंगतम् ॥२१॥वसुधा वसुसंपूर्णा मंडिता नगरी पुरी ॥पर्वतैश्च समुद्रैश्च सरिद्भिश्च सरोवरैः ॥२२॥ग्रामैश्चतुष्पथैर्घोरैर्गोकुलैराकुलीकृता ॥नररत्नैरश्वरत्नैर्गजरत्नैस्तु संकुला ॥२३॥दुस्त्यजा भोगभोक्तृणां परं ज्ञानमजानताम् ॥संसारेऽत्र महाघोरे पुनरावृत्तिकारिणि ॥२४॥पतंति पुरुषा भद्र पत्राणीव पुनःपुनः ॥कृतेन येन विप्रेंद्र स्वर्गं प्राप्नोति निर्मलम् ॥दानेन तपसा चैव तत्त्वमा चक्ष्व सुव्रत ॥२५॥ ॥भद्र उवाच॥तीर्थानि तोयपूर्णानि देवाः पाषाणमृन्मयाः ॥आत्मस्थं ये न पश्यंति ते न पश्यंति तत्परम् ॥२६॥संति तीर्थान्यनेकानि पुण्यान्यायतनानि च ॥पुण्यतोया पवित्रश्च सरितः सागरास्तथा ॥बहुपुण्यप्रदा पृथ्वी स्थानेस्थाने पदेपदे ॥२७॥यद्यस्ति तव राजेंद्र ज्ञानं ज्ञानवतां वर ॥विष्णुं जिष्णुं हृषीकेशं शंखिनं गदिनं तथा ॥२८॥चतुर्भुजं महाबाहुं प्रभासे दैत्यसूदनम् ॥वाराहं वामनं चैव नारसिंहं बलार्जुनम् ॥२९॥रामं रामं च रामं च पुरुषोत्तममेव च ॥पुंडरीकेक्षणं चैव गदापाणिं तथैव च ॥३०॥राघवं शक्रदमनं गोविंदं बहुपुण्यदम् ॥जयं च भूधरं चैव देवदेवं जनार्द्दनम् ॥३१॥सुरोत्तमं श्रीधरं च हरिं योगीश्वरं तथा ॥कपिलेशं भूतनाथं श्वेतद्वीपपतिं हरिम् ॥३२॥बदर्याश्रमवासौ च नरनारायणौ तथा ॥पद्मनाभं सुनाभं च हयग्रीवं विशां पते ॥३३॥द्विजनाथं धरानाथं खड्गपाणिं तथैव च ॥दामोदरं जलावासं सर्वपापहरं हरिम् ॥३४॥एतान्येव हि स्थानानि देवदेवस्य चक्रिणः ॥गच्छते यत्र तत्रैव मुच्यते सर्वपातकैः ॥३५॥गंगा च यमुना चैव तथा देवी सरस्वती ॥दृषद्वती गोमती च तापी कावेरिणी तथा ॥३६॥॥नर्मदा शर्मदा चैव नदी गोदावरी तथा ॥शतद्रुश्च तथा विंध्या पयोष्णी वरदा तथा ॥३७॥चर्मण्वती च सरयूर्गंडकी चंडपापहा ॥चंद्रभागा विपाशा च शोणश्चैव पुनःपुनः ॥३८॥एताश्चान्याश्च बहवो हिमवत्प्रभवाः शुभाः ॥तासु स्नातो नरः स्वर्गं याति पातकवर्जितः ॥३९॥वनानि नंदनादीनि पर्वता मंदरादयः ॥नामोच्चारेण येषां हि पापं याति रसातले ॥२४०॥ ॥गज उवाच॥भद्रं हि भाषितं भद्र आख्यानममृतोपमम् ॥पृच्छामि सर्वधर्मज्ञ त्वामहं किंचिदेव हि ॥४१॥यस्मिन्मासे दिने यस्मिंस्तीर्थे यस्मिन्क्रमान्नरैः ॥अक्षयं सेव्यते स्वर्गस्तन्ममाचक्ष्व सुव्रत ॥४२॥स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् ॥अक्षयो येन वै स्वर्गस्तन्मे गदितुमर्हसि ॥४३॥ ॥भद्र उवाच॥श्रूयतां राजशार्दूल कथां कथयतो मम ॥यां श्रुत्वा मुच्यते पापान्नरो नरवरोत्तम ॥४४॥ऋषीणां कथितं पूर्वं नारदेन महात्मना ॥४५॥एवं पृष्टश्च तैः सर्वैर्नारदो मुनिसत्तमः ॥कथयामास संहृष्टो मेघदुदुभिनिस्वनैः ॥४६॥रम्ये हिमवतः पृष्ठे समवाये मया श्रुतम्॥तदहं तव वक्ष्यामि श्रोतुकामं नरर्षभ ॥४७॥तीर्थान्येव हि सर्वाणि पुनरावर्त्तकानि तु ॥अक्षयाँल्लभते लोकांस्तत्तीर्थं कथयामि ते ॥४८॥मार्गशीर्षे कान्यकुब्ज उषित्वा राजसत्तम ॥न शोचति नरो नारी स्वर्गं याति परावरम् ॥४९॥पौषस्य पौर्णमासी या यदि सा क्रियतेऽर्बुदे ॥वर्षाणामर्बुदं स्वर्गे मोदते पितृभिः सह ॥२५०॥माघ्यां यदि गयाश्राद्धं पितॄणां यच्छते नरः ॥त्रयाणामपि देवानां चतुर्थः स प्रजायते ॥५१॥फाल्गुन्यां हिमवत्पृष्ठे वसन्नेकां निशां नरः ॥स याति परमं स्थानं यत्र देवो जनार्द्दनः ॥५२॥चैत्र्यां श्राद्धं प्रभासे तु ये कुर्वंति मनीषिणः ॥न ते मर्त्त्या भवन्तीह कुलजैः सह सत्तमाः ॥५३॥चतुर्भुजे तु वैशाख्यां ये कुर्वंति जलप्रिये ॥तथावंत्यां नरः कश्चित्स याति परमां गतिम् ॥५४॥ज्यैष्ठ्यां ज्येष्ठर्क्षयुक्तायां श्राद्धं च त्रितकूपके ॥कुर्युर्युगानि ते त्रीणि वसंति नाकसद्मनि ॥५५॥यो व्रजेशवने नद्यां दिनानि नव पंच च ॥तिष्ठते च नरः स्वर्गं वैकुण्ठमभिगच्छति ॥५६॥श्रावणस्य तु मासस्य पूर्णायां पूर्वसागरे ॥स्नानं दानं जपं श्राद्धं नरः कुर्वन्न शोचति ॥५७॥तथा भाद्रपदे क्षेत्रे प्रभासे शशिभूषणम् ॥पूजयित्वा नरो लिंगं देवलिंगी भवेत्ततः ॥५८॥आश्विने चंद्रभागायां श्राद्धं स्नानं करोति यः ॥स्थानं युगसहस्राणां कृतं तेन त्रिविष्टपे ॥५९॥अष्टाक्षरैश्चतुर्बाहुं ध्यायंति मुनिसत्तमाः ॥बहुनाऽत्र किमुक्तेन गजाहं प्रवदामि ते ॥६०॥दामोदरकुण्डःदामोदरसमं तीर्थं न भूतं न भविष्यति ॥मासानां कार्त्तिकः श्रेष्ठः कार्त्तिके भीष्मपंचकम् ॥६१॥तत्रापि द्वादशी श्रेष्ठा राजन्दामोदरे जले ॥किमन्यैर्बहुभिस्तीर्थेः कि क्षेत्रैः कि महावनैः ॥दामोदरे नरः स्नात्वा सर्वपापैः प्रमुच्यते ॥६२॥ ॥गज उवाच॥भद्र भद्रं त्वया प्रोक्तं रसायनमिवापरम् ॥भूयोऽहं श्रोतुमिच्छामि तीर्थस्यास्य महाफलम् ॥६३॥के देशाः किं प्रमाणं तु का नदी केः च पर्वताः ॥जना वसंति के तत्र ऋषयः के तपस्विनः ॥६४॥ ॥भद्र उवाच॥पृथिवी वसुसंपूर्णा सागरेण तु वेष्टिता ॥मंडिता नगरैर्ग्रामैः सुरैः परपुरंजय ॥६५॥वाराणसी प्रभासं च संगमं सितकृष्णयोः ॥एवं साराणि तीर्थानि यस्मान्मृत्युहराणि च ॥६६॥दामोदरेति ये नूनं स्मरंतो यत्र तत्र हि॥ते वसंति हरेर्गेहं न सरंति कदाचन ॥६७॥सोमनाथस्य सान्निध्य उदयन्तो गिरिर्महान् ॥तस्य पश्चिमभागे तु रैवतक इति स्मृतः ॥६८॥वाहिनी वहते तत्र नदी कांचनशेखरात् ॥धातवस्तत्र ते रक्ताः श्वेता नीलास्तथाऽसिताः ॥६९॥पाषाणाः कुञ्जराकाराश्चान्ये सैरिभसन्निभाः ॥चणकाकृतयश्चान्ये अन्ये गोक्षुरकप्रभाः ॥७०॥वृक्षा वल्ल्यश्च गुल्माश्च संतानाः संत्यनेकशः ॥सर्वं तत्कांचनमयं मूलं पुष्पं फलं दलम् ॥७१॥न हि पश्यति पापात्मा मुक्तः पापेन पश्यति ॥सेव्यते स गिरिर्नित्यं धातुवादपरैर्नरैः ॥७२॥ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैः शूद्रानुगैर्बहिः ॥पक्षिणस्तत्र बहवः शिवाशिवगिरस्तदा ॥७३॥हंससारसचक्राह्वाः शुककोकिलबर्हिणः ॥मृगाश्च वानरेन्द्राश्च हंसा व्याघ्रास्तथैव च ॥७४॥तत्तीर्थस्य प्रभावेन न दुष्टान्याचरंति ते ॥कालेन मृत्युमायांति पशुपक्षिसरीसृपाः ॥७८५॥सर्वे विमानमारूढा गच्छन्ति हरिमन्दिरम्॥वायुना पातितं यत्र पत्रपुष्पफलादिकम् ॥७६॥तस्या नद्या जलं स्पृष्ट्वा सर्वं वै मुक्तिमाप्नुते ॥सा नदी पृथिवीं भित्त्वा पातालादागता नृप ॥७७॥पूर्वं पन्नगराजस्तु तेन मार्गेण चागतः ॥स्नातुं दामोदरे तीर्थे यममृत्युप्रघातिनि ॥७८॥स्वर्गादागत्य चन्द्रोऽपि यष्टुं यज्ञं सुपुष्कलम् ॥यक्ष्मरोगाद्विनिर्मुक्तो गतः स्वर्गं निरामयः ॥७९॥बलिना चैव दानानि दत्तान्यागत्य कार्तिके ॥हरिश्चन्द्रेण विधिना नलेन नहुषेण च ॥८०॥नाभागेनांबरीषाद्यैः कृतं कर्म सुदुष्करम् ॥दत्त्वा दानान्यनेकानि गजा गावो हया रथाः ॥८१॥अनडुत्कांचना भूमिं रत्नानि विविधानि च ॥छत्राणि विप्रमुख्येभ्यो यानानि चैव वाससी ॥८२॥अन्नानि रसमिश्राणि दत्त्वा दामोदराग्रतः ॥गतास्ते विष्णु भुवनं नागच्छंति महीतले ॥८३॥पत्रं पुष्पं फलं तोयं तस्मिंस्तीर्थे ददाति यः ॥द्विजानां भक्तिसंयुक्तः स याति जलशायिनम् ॥८४॥प्रकृतिं चापि यो दद्यान्मुष्टिं वाथ क्षुधार्थिने ॥विमानवरमारूढः स सोमं प्रति गच्छति ॥८५॥दामोदराग्रतः कृत्वा पर्वतानन्नसंभवान् ॥पूजितान्फलपुष्पैश्च दीपं दद्यात्सवर्त्तिकम् ॥८६॥अवाप्य दुष्करं स्थानं कुलानां तारयेच्छतम् ॥चतुरंगुलमात्रेपि दत्ते दामोदराग्रतः ॥८७॥दाने युगसहस्राणि स्वर्गलोके महीयते ॥मा गच्छ हिमवत्पृष्ठं मलयं मा च मन्दरम् ॥८८॥गच्छ रैवतकं शैलं यत्र दामोदरः स्थितः ॥कृत्वा मासोपवासं तु द्विजो दामोदराग्रतः ॥८९॥न निवर्तति कालेन दामोदरपुरं व्रजेत् ॥करोत्यनशनं यश्च नरो नार्यथवा पुनः ॥सर्व लोकानतिक्रम्य स हरेर्गेहमाप्नुयात् ॥९०॥विघ्नानि तत्र तिष्ठन्ति नित्यं पञ्चशतानि च ॥धर्मविध्वंसकर्तॄणि नरस्तत्र न गच्छति ॥९१॥प्रद्युम्नबलशैनेयगदाचक्रादिभिः सदा ॥शतलक्षप्रमाणैस्तु सेव्यते स गिरिर्महान् ॥९२॥क्रीडंति नार्यस्तेषां हि नित्यं दामोदराग्रतः ॥सुचन्द्रवदना गौर्यः श्यामाश्चैव सुमध्यमाः ॥९३॥नितंबिन्यः सुकेशाश्च शुभ्राः स्वायतलोचनाः ॥सुगंडा ललिताश्चैव सुकक्षाः सुपयोधराः ॥९४॥शोभमानाः सुजंघाश्च सुपादाः सुन्दरांगुलीः ॥राजपुत्र्यो गिरौ तस्मिन्हसंति च रमंति च ॥९५॥कौसुंभं पादयुगले कुंकुमं पीतकंचुकम्॥ब्राह्मणीभ्यो ददन्तीह स्पर्द्धमानाः पृथक्पृथक् ॥९६॥भक्ष्यं भोज्यं च पेयं च लेह्यं चोष्यं च पिच्छिलम् ॥तांबूलं पुष्पसंयुक्तं कार्तिके हरिवासरे ॥९७॥दृष्ट्वा तु रेवतीकुंडं प्रदद्यात्फलमुत्तमम् ॥पुत्रिणी ऋद्धिसंपन्ना सुभगा जायते सती ॥९८॥एवं कृत्वा तु सा रात्रि नीयते निद्रया विना ॥वेदघोषैः सुपुण्यैस्तु भारताख्यानवाचनैः ॥९९॥हुंकृतैस्तलशब्दैश्च तालशब्दैः पुनःपुनः ॥देशभाषाविभाषिण्यो रामामण्डलमध्यतः ॥हास्यनृत्यसमायुक्ता राजन्दामोदराग्रतः ॥१००॥पञ्चपाषाणकं हर्म्यं यः करोति शिवालयम् ॥पंचवर्षसहस्राणि स्वर्ग लोके महीयते ॥१०१॥दशपाषाणसंयुक्तं कृत्वा दामोदराग्रतः ॥दशवर्षसहस्राणि स्वर्गे हल्लति मल्लति ॥१०२॥शतपाषाणकं हर्म्यं यः करोति महन्नृप ॥मन्दिरं सुन्दरं शुभ्रं स याति हरिमन्दिरम् ॥१०३॥कृत्वा साहस्रिकं चैत्यं बहुरूपसमन्वितम् ॥सर्वाँल्लोकानतिक्रम्य परं ब्रह्माधिगच्छति ॥१०४॥पंचवर्णध्वजं दद्याद्दामोदरगृहोपरि ॥तं तु प्रमाणवर्षाणि दिव्यानि स दिवं व्रजेत् ॥१०५॥तस्य गव्यूतिमात्रेण क्षेत्रं वस्त्रापथं शुभम् ॥यद्दृष्ट्वा सर्वपापानि विलीयन्ते बहूनि च ॥१०६॥राजंस्तत्पदमायाति यद्गत्वा न निवर्त्तते ॥पूजयित्वा भवं देवं भवसंभवनाशनम् ॥१०७॥नरो नारी नृपश्रेष्ठ शिवलोके महीयते ॥तच्छ्रुत्वा वचनं तस्य भद्रस्य च सुभाषितम् ॥१०८॥आगतः कार्तिकीं कर्त्तुं देवे दामोदरे ततः ॥ऋग्यजुःसामसंयुक्तैर्ब्राह्मणैर्ब्रह्मवित्तमैः ॥१०९॥क्षत्रियैः क्षत्रधर्मज्ञैर्वैश्यैर्दानपरायणैः ॥सह शूद्रैः समायातस्तस्मिंस्तीर्थे गजो नृपः ॥११०॥दत्त्वा दानान्यनेकानि हुत्वा हविर्हुताशने ॥अग्निष्टोमादिकान्यज्ञान्हयमेधादिकान्बहून् ॥चकार विधिवद्राजा गजस्तत्र समाहितः ॥१११॥ततश्च न्यवसत्तत्र तपः कर्तुं सहर्षिभिः ॥ऊर्द्ध्वपादाः स्थिता विप्राः पीत्वा धूममधोमुखाः ॥शुष्कपत्राशनाश्चान्ये अन्ये वै फलभोजनाः ॥११२॥मूलानि चान्ये भक्षंति अन्ये वार्यंशना द्विजाः ॥आलोकंति स्वमन्ये च तथान्ये जलशायिनः ॥११३॥पञ्चाग्निसाधकाश्चान्ये शिलाचूर्णस्य भक्षकाः ॥जपंति चान्ये संशुद्धा गायत्रीं वेदमातरम् ॥सावित्रीं मनसा चान्ये देवीमन्ये सरस्वतीम् ॥११४॥सूक्तानि हि पवित्राणि ब्रह्मणा निर्मितानि च ॥अन्येऽवसंस्तदा तत्र द्वादशाक्षरचिन्तकाः ॥११५॥आलोक्य सर्वशास्त्राणि विचार्य च पुनःपुनः ॥इदमेव सुनिष्पन्नं ध्येयो नारायणः सदा ॥११६॥आराधितः सुदुष्पारे भवे भगवतो विना ॥तथा नान्यो महादेवात्पतन्तं योऽभिरक्षति ॥११७॥गतागतानि वर्तंते चंद्रसूर्यादयो ग्रहाः ॥अद्यापि न निवर्तंते द्वादशाक्षरचिंतकाः ॥११८॥।येऽक्षरा ऋषयश्चान्ये देवलोकजिगीषवः ॥प्राप्नुवंति ततः स्थानं दग्धबीजं च तत्तथा ॥११९॥सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् ॥बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥१२०॥एकभक्तं तथा नक्तमयाच्यमुषितं तथा॥एवमादीनि चान्यानि कृत्वा दामोदराग्रतः ॥कृतकृत्या भवंतीह यावदाभूतसंप्लवम् ॥१२१॥स राजा ऋषिभिः सार्द्धं यावत्तिष्ठति तत्र वै ॥विमानानि सहस्राणि तावत्तत्रागतानि च ॥१२२॥गंधर्वाप्सरस्तत्र सिद्धचारणकिन्नराः ॥सर्वे विमानमारूढाः शतशोऽथ सहस्रशः ॥१२३॥सर्वैर्जनपदैः सार्द्ध स राजा भार्यया सह ॥गतो विमानमारूढो यत्तत्पदमनामयम् ॥१२४॥य इदं पठते नित्यं शृणुयाद्वाऽपि मानवः ॥सर्वपापविनिर्मुक्तः परं ब्रह्माधिगच्छति ॥१२५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये दामोदरमाहात्म्यवर्णनंनाम प्रथमोऽध्यायः ॥१॥ N/A References : N/A Last Updated : January 14, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP