संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|ब्रह्मोत्तर खण्डः| अध्याय २१ ब्रह्मोत्तर खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ विषयानुक्रमणिका ब्रह्मोत्तर खण्डः - अध्याय २१ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २१ Translation - भाषांतर ॥ सूत उवाच ॥एवं ब्रह्मर्षिणा प्रोक्तां वाणीं पीयूषसन्निभाम् ॥आकर्ण्य मुदितो राजा प्रांजलिः पुनरब्रवीत् ॥१॥॥ राजोवाच ॥अहो सत्संगमः पुंसामशेषाघप्रशोधनः ॥कामक्रोधनिहंता च इष्टदोग्धा जनस्य हि ॥२॥मम मायातमो नष्टं ज्ञानदृष्टिः प्रकाशिता ॥तव दर्शनमात्रेण प्रायोहममरोत्तमः ॥३॥श्रुतं च पूर्वचरितं बालयोः सम्यगेतयोः ॥भविष्यदपि पृच्छामि मत्पुत्राचरणं मुने ॥४॥अस्यायुः कति वर्षाणि भाग्यं वद च कीदृशम् ॥विद्या कीर्तिश्च शक्तिश्च श्रद्धा भक्तिश्च कीदृशी ॥५॥एतत्सर्वमशेषेण मुने त्वं वक्तुमर्हसि ॥तव शिष्योस्मि भृत्योस्मि शरणं त्वां गतोस्मयहम् ॥६॥॥ पराशर उवाच ॥अत्रावाच्यं हि यत्किंचित्कथं शक्तोस्मि शंसितुम् ॥यच्छ्रुत्वा धृतिमंतोपि विषादं प्राप्नुयुर्जनाः ॥७॥तथापि निर्व्यलीकेन भावेन परिपृच्छतः ॥अवाच्यमपि वक्ष्यामि तव स्नेहान्महीपते ॥८॥अमुष्य त्वत्कुमारस्य वर्षाणि द्वादशात्ययुः ॥इतः परं प्रपद्येत सप्तमे दिवसे मृतिम् ॥९॥इति तस्य वचः श्रुत्वा कालकूटमिवोदितम् ॥मूर्च्छितः सहसा भूमौ पतितो नृपतिः शुचा ॥१०॥तमुत्थाप्य समाश्वास्य स मुनिः करुणार्द्रधीः ॥उवाच मा भैर्नृपते पुनर्वक्ष्यामि ते हितम् ॥११॥सर्गात्पुरा निरालोकं यदेकं निष्कलं परम् ॥चिदानंदमयं ज्योतिः स आद्यः केवलः शिवः ॥१२॥स एवादौ रजोरूपं सृष्ट्वा ब्रह्माणमात्मना ॥सृष्टिकर्मनियुक्ताय तस्मै वेदांश्च दत्तवान् ॥१३॥पुनश्च दत्तवानीश आत्मतत्त्वैकसंग्रहम् ॥सर्वोपनिषदां सारं रुद्राध्यायं[१] च दत्तवान् ॥१४॥यदेकमव्ययं साक्षाद्ब्रह्मज्योतिः सनातनम् ॥शिवात्मकं परं तत्त्वं रुद्राध्याये प्रतिष्ठितम् ॥१५॥स आत्मभूः सृजद्विश्वं चतुर्भिर्वदनैर्विराट् ॥ससर्ज वेदांश्चतुरो लोकानां स्थितिहेतवे ॥१६॥तत्रायं यजुषां मध्ये ब्रह्मणो दक्षिणान्मुखात् ॥अशेषोपनिषत्सारो रुद्राध्यायः समुद्गतः ॥१७॥स एष मुनिभिः सर्वैर्मरीच्यत्रिपुरोगमैः ॥सह देवैर्धृतस्तेभ्यस्तच्छिष्या जगृहुश्च तम् ॥१८॥तच्छिष्यशिष्यैस्तत्पुत्रैस्तत्पुत्रैश्च क्रमागतैः ॥धृतो रुद्रात्मकः सोऽयं वेदसारः प्रसादितः ॥१९॥एष एव परो मन्त्र एष एव परं तपः ॥रुद्राध्यायजपः पुंसां परं कैवल्यसाधनम् ॥२०॥महापातकिनः प्रोक्ता उपपातकिनश्च ये ॥रुद्राध्यायजपात्सद्यस्तेऽपि यांति परां गतिम् ॥२१॥भूयोपि ब्रह्मणा सृष्टाः सदसन्मिश्रयोनयः ॥देवतिर्यङ्मनुष्याद्यास्ततः संपूरितं जगत् ॥२२॥तेषां कर्माणि सृष्टानि स्वजन्मानुगुणानि च ॥लोकास्तेषु प्रवर्तंते भुंजते चैव तत्फलम् ॥२३॥लोकसृष्टिप्रवाहार्थं स्वयमेव प्रजापतिः॥धर्माधर्मौ ससर्जाग्रे स्ववक्षःपृष्ठभागतः ॥२४॥धर्ममेवानुतिष्ठंतः पुण्यं विंदंति तत्फलम् ॥अधर्ममनुतिष्ठंतस्ते पापफलभोगिनः ॥२५॥पुण्यकर्मफल स्वर्गो नरकस्तद्विपर्ययः ॥तयोर्द्वावधिपौ धात्रा कृतौ शतमखांतकौ ॥२६॥कामः क्रोधश्च लोभश्च मदमानादयः परे ॥अधर्मस्य सुता आसन्सर्वे नरकनायकाः ॥२७॥गुरुतल्पः सुरापानं तथान्यः पुल्कसीगमः ॥कामस्य तनया ह्येते प्रधानाः परिकीर्तिताः ॥२८॥क्रोधात्पितृवधो जातस्तथा मातृवधः परः ॥ब्रह्महत्या च कन्यैका क्रोधस्य तनया अमी ॥२९॥देवस्वहरणश्चैव ब्रह्मस्वहरणस्तथा ॥स्वर्णस्तेय इति त्वेते लोभस्य तनयाः स्मृताः ॥३०॥एतानाहूय चांडालान्यमः पातकनायकान् ॥नरकस्य विवृद्ध्यर्थमाधिपत्यं चकार ह ॥३१॥ते यमेन समादिष्टा नव पातकनायकाः ॥ते सर्वे संगता भूयो घोराः पातकनायकाः ॥३२॥नरकान्पालयामासुः स्वभृत्यैश्चोपपातकैः ॥रुद्राध्याये भुवि प्राप्ते साक्षात्कैवल्यसाधने ॥३३॥भीताः प्रदुद्रुवुः सर्वे तेऽमी पातकनायकाः ॥यमं विज्ञापयामासुः सहान्यैरुपपातकैः ॥३४॥जय देव महाराज वयं हि तव किंकराः ॥नरकस्य विवृद्ध्यर्थं साधिकाराः कृतास्त्वया ॥३५॥अधुना वर्तितुं लोके न शक्ताः स्मो वयं प्रभो ॥रुद्राध्यायानुभावेन निर्दग्धाश्चैव विद्रुताः ॥३६॥ग्रामेग्रामे नदीकूले पुण्येष्वायतनेषु च ॥रुद्रजाप्ये तु पर्याप्ते कथं लोके चरेमहि ॥३७॥प्रायश्चित्तसहस्रं वै गणयामो न किंचन ॥रुद्रजाप्याक्षराण्येव सोढुं बत न शक्नुमः ॥३८॥महापातकमुख्यानामस्माकं लोकघातिनाम् ॥रुद्रजाप्यं भयं घोरं रुद्रजाप्यं महद्विषम् ॥३९॥अतो दुर्विषहं घोरमस्माक व्यसनं महत् ॥रुद्रजाप्येन संप्राप्तमपनेतुं त्वमर्हसि ॥४०॥इति विज्ञापितः साक्षाद्यमः पातकनायकैः ॥ब्रह्मणोंऽतिकमासाद्य तस्मै सर्वं न्यवेदयत् ॥४१॥देवदेव जगन्नाथ त्वामेव शरणं गतः ॥त्वया नियुक्तो मर्त्यानां निग्रहे पापकारिणाम् ॥४२॥अधुना पापिनो मर्त्या न संति पृथिवीतले ॥रुद्राध्यायेन निहतं पातकानां महत्कुलम् ॥४३॥पातकानां कुले नष्टे नरकाः शून्यतां गताः ॥नरके शून्यतां याते मम राज्यं हि निष्फलम् ॥४४॥तस्मात्त्वयैव भगवन्नुपायः परिचिन्त्यताम् ॥यथा मे न विहन्येत स्वामित्वं मर्त्यदेहिनाम् ॥४५॥इति विज्ञापितो धाता यमेन परिखिद्यता ॥रुद्रजाप्यविघातार्थमुपायं पर्यकल्पयत् ॥४६॥अश्रद्धां चैव दुर्मेधामविद्यायाः सुते उभे ॥श्रद्धामेधाविघातिन्यौ मर्त्येषु पर्यचोदयत् ॥४७॥ताभ्यां विमोहिते लोके रुद्राध्यायपराङ्मुखे ॥यमः स्वस्थानमासाद्य कृतार्थ इव सोऽभवत् ॥४८॥पूर्वजन्मकृतैः पापैर्जायंतेऽल्पायुषो जनाः ॥तानि पापानि नश्यंति रुद्रं जप्तवतां नृणाम् ॥४९॥क्षीणेषु सर्वपापेषु दीर्घमायुर्बलं धृतिः ॥आरोग्यं ज्ञानमैश्वर्यं वर्धते सर्वदेहिनाम् ॥५०॥रुद्राध्यायेन ये देवं स्नापयंति महेश्वरम् ॥तज्जलैः कुर्वतः स्नानं ते मृत्युं संतरंति च ॥५१॥रुद्राध्यायाभिजप्तेन स्नानं कुर्वंति येंऽभसा ॥तेषां मृत्युभयं नास्ति शिवलो के महीयते ॥५२॥शतरुद्राभिषेकेण शतायुर्जायते नरः ॥अशेषपापनिर्मुक्तः शिवस्य दयितो भवेत् ॥५३॥एष रुद्रायुतस्नानं करोतु तव पुत्रकः ॥दशवर्षसहस्राणि मोदते भुवि शक्रवत् ॥५४॥अव्याहतबलैश्वर्यो हतशत्रुर्निरामयः ॥निर्धूताखिलपापौघः शास्ता राज्यमकंटकम् ॥५५॥विप्रा वेदविदः शांताः कृतिनः शंसितव्रताः ॥ज्ञानयज्ञतपोनिष्ठाः शिवभक्तिपरायणाः ॥५६॥रुद्राध्याय जपं सम्यक्कुर्वंतु विमलाशयाः ॥तेषां जपानुभावेन सद्यः श्रेयो भविष्यति ॥५७॥इत्युक्तवंतं नृपतिर्महामुनिं तमेव वव्रे प्रथमं क्रियागुरुम् ॥अथापरांस्त्यक्तधनाशयान्मुनीनावाहयामास सहस्रशः क्षणात् ॥५८॥ते विप्राः शांतमनसः सहस्रपरिसंमिताः ॥कलशानां शतं स्थाप्य पुण्य वृक्षरसैर्युतम् ॥५९॥रुद्राध्यायेन संस्नाप्य तमुर्वीपतिपुत्रकम् ॥विधिवत्स्नापयामासुः संप्राप्ते सप्तमे दिने ॥६०॥स्नाप्यमानो मुनिजनैः स राजन्यकुमारकः ॥अकस्मादेव संत्रस्तः क्षणं मूर्च्छामवाप ह ॥६१॥सहसैव प्रबुद्धोऽसौ मुनिभिः कृतरक्षणः ॥प्रोवाच कश्चित्पुरुषो दंडहस्तः समागतः ॥६२॥मां प्रहर्तुं कृतमतिर्भीमदण्डो भयानकः ॥सोऽपि चान्यैर्महावीरै पुरुषैरभिताडितः ॥६३॥बद्ध्वा पाशेन महता दूरं नीत इवाभवत् ॥एतावदहमद्राक्षं भवद्भिः कृतरक्षणः ॥६४॥इत्युक्तवंतं नृपतेस्तनूजं द्विजसत्तमाः ॥आशीर्भिः पूजयामासुर्भयं राज्ञे न्यवेदयन् ॥६५॥अथ सर्वानृषीञ्छ्रेष्ठान्दक्षिणाभिर्नृपोत्तमः ॥पूजयित्वा वरान्नेन भोजयित्वा च भक्तितः ॥६६॥प्रतिगृह्याशिषस्तेषां मुनीनां ब्रह्मवादिनाम् ॥भक्त्या बंधुजनैः सार्धं सभायां समुपाविशत् ॥६७॥तस्मिन्समागते वीरे मुनिभिः सह पार्थिवे ॥आजगाम महायोगी देवर्षिर्नारदः स्वयम् ॥६८॥तमागतं प्रेक्ष्य गुरुं मुनीनां सार्धं सदस्यैरखिलैर्मुनींद्रैः ॥प्रणम्य भक्त्या विनिवेश्य पीठे कृतोपचारं नृपतिर्बभाषे ॥६९॥॥ राजोवाच ॥दृष्टं किमस्ति ते ब्रह्मस्त्रिलोक्यां किंचिदद्भुतम् ॥तन्नो ब्रूहि वयं सर्वे त्वद्वाक्यामृतलालसाः ॥७०॥॥ नारद उवाच ॥अद्य चित्रं महद्दृष्टं व्योम्नोवतरता मया ॥तच्छृणुष्व महाराज सहैभिर्मुनिपुंगवैः ॥७१॥अद्य मृत्युरिहायातो निहंतुं तव पुत्रकम्॥दंडहस्तो दुराधर्षो लोकमुद्बाधयन्सदा ॥७२॥ईश्वरोपि विदित्वैनं त्वत्पुत्रं हंतुमागतम् ॥सहैव पार्षदैः कंचिद्वीरभद्रमचोदयत् ॥७३॥स आगत्य हठान्मृत्युं त्वत्पुत्रं हंतुमागतम् ॥गृहीत्वा सुदृढं बद्ध्वा दंडेनाभ्यहनद्रुषा ॥७४॥तं नीयमानं जगदीशसन्निधिं शीघ्रं विदित्वा भगवान्यमः स्वयम् ॥कृतांजलिर्देव जयेत्युदीरयन्प्रणम्य मूर्ध्ना निजगाद शूलिनम् ॥७५॥॥ यम उवाच ॥ देवदेव महारुद्र वीरभद्र नमोऽस्तु ते ॥निरागसि कथं मृत्यौ कोपस्तव समुत्थितः ॥७६॥निजकर्मानुबंधेन राजपुत्रं गतायुषम्॥प्रहर्तुमुद्यते मृत्यौ कोपराधो वद प्रभो ॥७७॥॥वीरभद्र उवाच॥दशवर्षसहस्रायुः स राजतनयः कथम्॥विपत्तिमंतरायाति रुद्रस्नानहताशुभः ॥७८॥अस्ति चेत्तव संदेहो मद्वाक्येऽप्यनिवारिते ॥चित्रगुप्तं समाहूय प्रष्टव्योऽद्यैव मा चिरम्॥ ७९॥॥ नारद उवाच ॥अथाहूतश्चित्रगुप्तो यमेन सहसागतः ॥आयुःप्रमाण त्वत्सूनोः परिपृष्टः स चाब्रवीत् ॥८०॥द्वादशाब्दं च तस्यायुरित्युक्त्वाथ विमृश्य च ॥पुनर्लेख्यगतं प्राह स वर्षायुतजीवितम् ॥८१॥अथ भीतो यमो राजा वीरभद्रं प्रणम्य च ॥कथंचिन्मोचयामास मृत्युं दुर्वारबंधनात् ॥८२॥वीरभद्रेण मुक्तोऽथ यमोऽगान्निजमंदिरम् ॥वीरभद्रश्च कैलासमहं प्राप्तस्तवांतिकम् ॥८३॥अतस्तव कुमारोऽयं रुद्रजाप्यानुभावतः ॥मृत्योर्भयं समुत्तीर्य सुखी जातोऽयुतं समाः ॥८४॥इत्युक्त्वा नृपमामंत्र्य नारदे त्रिदिवं गते ॥विप्राः सर्वे प्रमुदिताः स्वस्वजग्मुरथाश्रमम् ॥८५॥इत्थं काश्मीरनृपती रुद्राध्यायप्रभावतः ॥निस्तीर्याशेषदुः खानि कृतार्थोभूत्सपुत्रकः॥८६॥ये कीर्तयंति मनुजाः परमेश्वरस्य माहात्म्यमेतदथ कर्णपुटैः पिबंति ॥ते जन्मकोटिकृतपापगणैर्विमुक्ताः शांताः प्रयांति परमं पदमिंदुमौलेः ॥८७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखंडे रुद्राध्यायमहिमवर्णनंनामैकविंशोऽध्यायः ॥२१॥ N/A References : N/A Last Updated : November 20, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP