संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|ब्रह्मोत्तर खण्डः| अध्याय १७ ब्रह्मोत्तर खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ विषयानुक्रमणिका ब्रह्मोत्तर खण्डः - अध्याय १७ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १७ Translation - भाषांतर ॥ ऋषय ऊचुः ॥वेदवेदांगतत्त्वज्ञैर्गुरुभिर्ब्रह्मवादिभिः ॥नृणां कृतोपदेशानां सद्यः सिद्धिर्हि जायते ॥१॥अथान्यजनसामान्यैर्गुरुभिर्नीतिकोविदैः॥नृणां कृतोपदेशानां सिद्धिर्भवति कीदृशी ॥२॥॥ सूत उवाच ॥श्रद्धैव सर्वधर्मस्य चातीव हितकारिणी ॥श्रद्धयैव नृणां सिद्धिर्जायते लोकयोर्द्वयोः ॥३॥श्रद्धया भजतः पुंसः शिलापि फलदायिनी ॥मूर्खोऽपि पूजितो भक्त्या गुरुर्भवति सिद्धिदः ॥४॥श्रद्धया पठितो मन्त्रस्त्वबद्धोपि फलप्रदः ॥श्रद्धया पूजितो देवो नीचस्यापि फलप्रदः ॥६. ॥अश्रद्धया कृता पूजा दानं यज्ञस्तपो व्रतम् ॥सर्वं निष्फलतां याति पुष्पं वन्ध्यत रोरिव ॥६॥सर्वत्र संशयाविष्टः श्रद्धाहीनोऽतिचंचलः ॥परमार्थात्परिभ्रष्टः संसृतेर्न हि मुच्यते ॥७॥मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ ॥यादृशी भावना यत्र सिद्धिर्भवति तादृशी ॥८॥अतो भावमयं विश्वं पुण्यं पापं च भावतः ॥ते उभे भावहीनस्य न भवेतां कदाचन ॥९॥अत्रेदं परमाश्चर्यमाख्यानमनुवर्ण्यते ॥अश्रद्धा सर्वमर्त्यानां येन सद्यो निवर्तते ॥१०॥आसीत्पांचालराजस्य सिंहकेतुरिति श्रुतः ॥पुत्रः सर्वगुणोपेतः क्षात्रधर्मरतः सदा ॥११॥स एकदा कतिपयैर्भृत्यैर्युक्तो महाबलः ॥जगाम मृगयाहेतोर्बहु सत्त्वान्वितं वनम् ॥१२॥तद्भृत्यः शबरः कश्चिद्विचरन्मृगयां वने ॥ददर्श जीर्णं स्फुटितं पतितं देवतालयम् ॥१३॥तत्रापश्यद्भिन्नपीठं पतितं स्थंडिलोपरि ॥शिवलिंङ्गमृजुं सूक्ष्मं मूर्तं भाग्यमिवात्मनः ॥१४॥स समादाय वेगेन पूर्वकर्मप्रचोदितः ॥तस्मै संदर्शयामास राज पुत्राय धीमते ॥१५॥पश्येदं रुचिरं लिंगं मया दृष्टमिह प्रभो ॥तदेतत्पूजयिष्यामि यथाविभवमादरात् ॥१६॥अस्य पूजाविधिं ब्रूहि यथा देवो महेश्वरः ॥अमंत्रज्ञैश्च मन्त्रज्ञैः प्रीतो भवति पूजितः ॥१७॥इति तेन निषादेन पृष्टः पार्थिवनंदनः ॥प्रत्युवाच प्रहस्यैनं परिहास विचक्षणः ॥१८॥संकल्पेन सदा कुर्यादभिषेकं नवांभसा ॥उपवेश्यासने शुद्धे शुभैर्गंधाक्षतैर्नवैः ॥वन्यैः पत्रैश्च कुसुमैर्धूपैर्दीपैश्च पूजयेत ॥१९॥चिताभस्मोपहारं च प्रथमं परिकल्पयेत् ॥आत्मोपभोग्येनान्नेन नैवद्यं कल्पयेद्बुधः ॥२०॥पुनश्च धूपदीपादीनुपचारान्प्रकल्पेत् ॥नृत्यवादित्रगीतादीन्यथावत्परिकल्पयेत् ॥२१॥नमस्कृत्वा तु विधिवत्प्रसादं धारयेद्बुधः ॥एष साधारणः प्रोक्तः शिवपूजाविधिस्तव ॥२२॥चिताभस्मोपहारेण सद्यस्तुष्यति शंकरः ॥२३॥॥ सूत उवाच ॥परिहासरसेनेत्थं शासितः स्वामिनाऽमुना ॥स चंडकाख्यः शबरो मूर्ध्ना जग्राह तद्वचः ॥२४॥ततः स्वभवनं प्राप्य लिंगमूर्ति महेश्वरम् ॥प्रत्यहं पूजयामास चिताभस्मोपहारकृत् ॥२५॥यच्चात्मनः प्रियं वस्तु गन्धपुष्पाक्षतादिकम् ॥निवेद्य शंभवे नित्यमुपायुंक्त ततः स्वयम् ॥२६॥एवं महेश्वरं भक्त्या सह पत्न्याभ्यपूजयत् ॥शबरः सुखमासाद्य निनाय कतिचित्समाः ॥२७॥एकदा शिवपूजायै प्रवृत्तः शबरोत्तमः ॥न ददर्श चिताभस्म पात्रे पूरितमण्वपि ॥२८॥अथासौ त्वरितो दूरमन्विष्यन्परितो भ्रमन् ॥न लब्धवांश्चिताभस्म श्रांतो गृहमगात्पुनः ॥२९॥तत आहूय पत्नीं स्वां शबरो वाक्यमब्रवीत् ॥न लब्धं मे चिताभस्म किं करोमि वद प्रिये ॥३०॥शिवपूजांतरायो मे जातोद्य बत पाप्मनः ॥पूजां विना क्षणमपि नाहं जीवितुमुत्सहे ॥३१॥उपायं नात्र पश्यामि पूजोपकरणे हते ॥न गुरोश्च विहन्येत शासनं सकलार्थदम् ॥३२॥इति व्याकुलितं दृष्ट्वा भर्त्तारं शबरांगना ॥प्रत्यभाषत मा भैस्त्वमुपायं प्रवदामि ते ॥३३॥इदमेव गृहं दग्ध्वा बहुकालोपबृंहितम् ॥अहमग्निं प्रवेक्ष्यामि चिताभस्म भवेत्ततः ॥३४॥॥ शबर उवाच ॥धर्मार्थकाममोक्षाणां देहः परमसाधनम् ॥कथं त्यजसि तं देहं सुखार्थं नवयौवनम् ॥३५॥अधुना त्वनपत्या त्वमभुक्तविषयासवा ॥भोगयोग्यमिमं देहं कथं दग्धुमिहेच्छसि ॥३६॥॥ शबर्युवाच ॥एतावदेव साफल्यं जीवितस्य च जन्मनः ॥परार्थे यस्त्यजेत्प्राणाञ्छिवार्थे किमुत स्वयम् ॥३७॥किं नु तप्तं तपो घोरं किं वा दत्तं मया पुरा ॥किं वार्चनं कृतं शंभोः पूर्वजन्मशतांतरे ॥३८॥किं वा पुण्यं मम पितुः का वा मातुः कृतार्थता ॥यच्छिवार्थे समिद्धेऽग्नौ त्यजाम्येतत्कलेवरम् ॥३९॥इत्थं स्थिरां मतिं दृष्ट्वा तस्या भक्तिं च शंकरे ॥तथेति दृढसंकल्पः शबरः प्रत्यपूजयत् ॥४०॥सा भर्त्तारमनुप्राप्य स्नात्वा शुचिरलंकृता ॥गृहमादीप्य तं वह्निं भक्त्या चक्रे प्रदक्षिणम् ॥४१॥नमस्कृत्वात्मगुरवे ध्यात्वा हृदि सदाशिवम् ॥अग्निप्रवेशाभिमुखी कृतांजलिरिदं जगौ ॥४२॥॥ शबर्युवाच ॥पुष्पाणि संतु तव देव ममेंद्रियाणि धूपोऽगुरुर्वपुरिदं हृदयं प्रदीपः ॥प्राणा हवींषि करणानि तवाक्षताश्च पूजाफलं व्रजतु सांप्रतमेष जीवः ॥४३॥वांछामि नाहमपि सर्वधनाधिपत्यं न स्वर्गभूमिमचलां न पदं विधातुः ॥भूयो भवामि यदि जन्मनिजन्मनि स्यां त्वत्पादपंकजलसन्मकरंदभृंगी ॥४४॥जन्मानि संतु मम देव शताधिकानि माया न मे वि शतु चित्तमबोधहेतुः ॥किंचित्क्षणार्धमपि ते चरणारविन्दान्नापैतु मे हृदयमीश नमोनमस्ते ॥४५॥इति प्रसाद्य देवेशं शबरी दृढनिश्चया ॥विवेश ज्वलितं वह्निं भस्मसादभवत्क्षणात् ॥४६॥शबरोपि च तद्भस्म यत्नेन परिगृह्य सः ॥चक्रे दग्धगृहोपान्ते शिवपूजां समाहितः ॥४६॥अथ सस्मार पूजांते प्रसादग्रहणोचिताम् ॥दयितां नित्यमायांतीं प्रांजलिं विनयान्विताम् ॥४८॥स्मृतमात्रां तदापश्यदागतां पृष्ठतः स्थिताम् ॥पूर्वेणावयवेनैव भक्तिनम्रां शुचिस्मिताम् ॥४९॥तां वीक्ष्य शबरः पत्नीं पूर्ववत्प्रांजलिं स्थिताम् ॥भस्मावशेषितगृहं यथापूर्वमवस्थितम् ॥ ॥५०॥अग्निर्दहति तेजोभिः सूर्यो दहति रश्मिभिः ॥राजा दहति दंडेन ब्राह्मणो मनसा दहेत् ॥५१॥किमयं स्वप्न आहोस्वित्किं वा माया भ्रमात्मिका ॥इति विस्मयसंभ्रातस्तां भूयः पर्यपृच्छत ॥५२॥अपि त्वं च कथं प्राप्ता भस्मभूतासि पावके ॥दग्धं च भवनं भूयः कथं पूर्व वदास्थितम् ॥५३॥॥ शबर्युवाच ॥यदा गृहं समुद्दीप्य प्रविष्टाहं हुताशने ॥तदात्मानं न जानामि न पश्यामि हुताशनम् ॥५४॥न तापलेशोप्यासीन्मे प्रविष्टाया इवोदकम् ॥सुषुप्तेव क्षणार्धेन प्रबुद्धास्मि पुनः क्षणात् ॥५५॥तावद्भवनमद्राक्षमदग्धमिव सुस्थितम् ॥अधुना देवपूजांते प्रसादं लब्धुमागता ॥५६॥एवं परस्परं प्रेम्णा दंपत्योर्भाषमाणयोः ॥प्रादुरासीत्तयोरग्रे विमानं दिव्यमद्भुतम् ॥५७॥तस्मिन्विमाने शतचन्द्रभास्वरे चत्वार ईशानुचराः पुरःसराः ॥हस्ते गृहीत्वाथ निषाददंपती आरोपयामासुरमुक्तविग्रहौ ॥५८॥तयोर्निषाददंपत्योस्तत्क्षणादेव तद्वपुः ॥शिवदूतकरस्पर्शात्तत्सारूप्यमवाप ह ॥५९॥तस्माच्छ्रद्धैव सर्वेषु विधेया पुण्यकर्मसु ॥नीचोपि शबरः प्राप श्रद्धया योगिनां गतिम् ॥६०॥किं जन्मना सकलवर्णजनोत्तमेन किं विद्यया सकलशास्त्रविचारवत्या ॥यस्यास्ति चेतसि सदा परमेशभक्तिः कोऽन्यस्ततस्त्रिभुवने पुरुषोस्ति धन्यः ॥६१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे भस्ममाहात्म्यवर्णनं नाम सप्तदशोऽध्यायः ॥१७॥ N/A References : N/A Last Updated : November 20, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP