संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|ब्रह्मोत्तर खण्डः| अध्याय २० ब्रह्मोत्तर खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ विषयानुक्रमणिका ब्रह्मोत्तर खण्डः - अध्याय २० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २० Translation - भाषांतर ॥ सूत उवाच ॥अथ रुद्राक्षमाहात्म्यं वर्णयामि समासतः ॥सर्वपापक्षयकरं शृण्वतां पठतामपि ॥१॥अभक्तो वापि भक्तो वा नीचो नीचतरोपि वा ॥रुद्राक्षान्धारयेद्यस्तु मुच्यते सर्वपातकैः ॥२॥रुद्राक्षधारणं पुण्यं केन वा सदृशं भवेत् ॥महाव्रतमिदं प्राहुर्मुनयस्तत्त्वदर्शिनः ॥३॥सहस्रं धारयेद्यस्तु रुद्राक्षाणां धृतव्रतः ॥तं नमंति सुराः सर्वे यथा रुद्रस्तथैव सः ॥४॥अभावे तु सहस्रस्य बाह्वोः षोडश षोडश ॥एकं शिखायां करयोर्द्वादश द्वादशैव हि ॥५॥द्वात्रिंशत्कंठदेशे तु चत्वारिंशत्तु मस्तके ॥एकैक कर्णयोः षट् षट् वक्षस्यष्टोत्तरं शतम् ॥यो धारयति रुद्राक्षान्रुद्रवत्सोपि पूज्यते ॥६॥मुक्ताप्रवालस्फटिकरौप्यवैदूर्यकांचनैः ॥समेतान्धारयेद्यस्तु रुद्राक्षान्स शिवो भवेत् ॥७॥केवलानपि रुद्राक्षान्यथालाभं बिभर्ति यः ॥तं न स्पृशंति पापानि तमांसीव विभावसुम् ॥८॥रुद्राक्षमालया जप्तो मंत्रोऽनंतफलप्रदः ॥अरुद्राक्षो जपः पुंसां तावन्मात्रफलप्रदः ॥९॥यस्यांगे नास्ति रुद्राक्ष एकोपि बहुपुण्यदः ॥तस्य जन्म निरर्थं स्यात्त्रिपुंड्ररहितं यदि ॥१०॥रुद्राक्षं मस्तके बद्ध्वा शिरःस्नानं करोति यः ॥गंगास्नानफलं तस्य जायते नात्र संशयः ॥११॥रुद्राक्षं पूजयेद्यस्तु विना तोयाभिषेचनम् ॥यत्फलं लिंगपूजायास्तदेवाप्नोति निश्चितम् ॥१२॥एकवक्त्राः पंचवक्त्रा एकादशमुखाः परे ॥चतुर्दशमुखाः केचिद्रुद्राक्षा लोकपूजिताः ॥१३॥भक्त्या संपूजितो नित्यं रुद्राक्षः शंकरात्मकः ॥दरिद्रं वापि कुरुते राजराजश्रियान्वितम् ॥१४॥अत्रेदं पुण्यमाख्यानं वर्णयंति मनीषिणः ।महापापक्षयकरं श्रवणात्कीर्त्तनादपि ॥१५॥राजा काश्मीरदेशस्य भद्रसेन इति श्रुतः ॥तस्य पुत्रो ऽभवद्धीमान्सुधर्मानाम वीर्यवान् ॥१६॥तस्यामात्यसुतः कश्चित्तारको नाम सद्गुणः ॥बभूव राजपुत्रस्य सखा परमशोभनः ॥१७॥तावुभौ परमस्निग्धौ कुमारौ रूपसुन्दरौ ॥विद्याभ्यासपरौ बाल्ये सह क्रीडां प्रचक्रतुः ॥१८॥तौ सदा सर्वगात्रेषु रुद्राक्षकृतभूषणौ ॥विचेरतुरुदारांगौ सततं भस्मधारिणौ ॥१९॥हारकेयूरकटककुंडलादिविभूषणम् ॥हेमरत्नमयं त्यक्त्वा रुद्राक्षान्दधतुश्च तौ ॥२०॥रुद्राक्षमालितौ नित्यं रुद्राक्षकरकंकणौ ॥रुद्राक्षकंठाभरणौ सदा रुद्राक्षकुंडलौ ॥२१॥हेमरत्नाद्यलंकारे लोष्टपाषाणदर्शनौ ॥बोध्यमानावपि जनैर्न रुद्राक्षान्व्यमुंचताम् ॥२२॥तस्य काश्मीरराजस्य गृहं प्राप्तो यदृच्छया ॥पराशरो मुनिवरः साक्षादिव पितामहः ॥२३॥तमर्चयित्वा विधिवद्राजा धर्मभृतां वरः ॥प्रपच्छ सुखमासीनं त्रिकालज्ञं महामुनिम् ॥२४॥॥ राजोवाच ॥भगवन्नेष पुत्रो मे सोपि मंत्रिसुतश्च मे ॥रुद्राक्षधारिणौ नित्यं रत्नाभरणनिःस्पृहौ ॥२५॥शास्यमानावपि सदा रत्नाकल्पपरिग्रहे ॥विलंघितास्मद्वचनौ रुद्राक्षेष्वेव तत्परौ ॥२६॥नोपदिष्टाविमौ बालौ कदाचिदपि केनचित् ॥एषा स्वाभाविकी वृत्तिः कथमासीत्कुमारयोः ॥२७॥॥ पराशर उवाच ॥शृणु राजन्प्रवक्ष्यामि तव पुत्रस्य धीमतः ॥यथा त्वं मंत्रिपुत्रस्य प्राग्वृत्तं विस्मयावहम् ॥२८॥नंदिग्रामे पुरा काचिन्महानंदेति विश्रुता॥बभूव वारवनिता शृंगारललिताकृतिः ॥२९॥छत्रं पूर्णेंदुसंकाशं यानं स्वर्णविराजितम् ॥चामराणि सुदंडानि पादुके च हिरण्मये॥३०॥अंबराणि विचित्राणि महार्हाणि द्युमंति च ॥चंद्ररश्मिनिभाः शय्या पर्यंकाश्च हिरण्मयाः ॥३१॥गावो महिष्यः शतशो दासाश्च शतशस्तथा ॥३२॥सर्वाभरणदीप्तांग्यो दास्यश्च नवयौवना ॥भूषणानि परार्ध्याणि नवरत्नोज्ज्वलानि च ॥३३॥गन्धकुंकुमकस्तूरीकर्पूरागुरुलेपनम् ॥चित्रमाल्यावतंसश्च यथेष्टं मृष्टभोजनम् ॥३४॥नानाचित्रवितानाढ्यं नानाधान्यमयं गृहम् ॥बहुरत्नसहस्राढ्यं कोटिसंख्याधिकं धनम् ॥३५॥एवं विभवसंपन्ना वेश्या कामविहारिणी ॥शिवपूजारता नित्यं सत्यधर्मपरायणा ॥३६॥सदाशिवकथासक्ता शिवनामकथोत्सुका ॥शिवभक्तांघ्र्यवनता शिवभक्तिरतानिशम् ॥३७॥विनोदहेतोः सा वेश्या नाट्यमण्डपमध्यतः॥रुद्राक्षैभूषयित्वैकं मर्कटं चैव कुक्कुटम् ॥३८॥करतालैश्च गीतैश्च सदा नर्तयति स्वयम् ॥पुनश्च विहसंत्युच्चैः सखीभिः परिवारिता ॥३९॥युग्मम् ॥रुद्राक्षैः कृतकेयूरकर्णाभरणभूषणः ॥मर्कटः शिक्षया तस्याः सदा नृत्यति बालवत् ॥४०॥शिखायां बद्धरुद्राक्षः कुक्कुटः कपिना सह ॥चिरं नृत्यति नृत्यज्ञः पश्यतां चित्रमावहन् ॥४१॥एकदा भवनं तस्याः कश्चिद्वैश्यः शिवव्रती॥आजगाम सरुद्राक्षस्त्रिपुंड्री निर्ममः कृती ॥४२॥स बिभ्रद्भस्म विशदे प्रकोष्ठे वरकंकणम् ॥महारत्नपरिस्तीर्णं ज्वलंतं तरुणार्कवत् ॥४३॥तमागतं सा गणिका संपूज्य परया मुदा।तत्प्रकोष्ठगतं वीक्ष्य कंकणं प्राह विस्मिता ॥४४॥महारत्नमयः सोऽयं कंकणस्त्वत्करे स्थितः ॥मनो हरति मे साधौ दिव्यस्त्रीभूषणोचितः ॥४५॥इति तां वररत्नाढ्य सस्पृहां करभूषणे ॥वाक्ष्योदारमतिर्वैश्यः सस्मितं समभाषत ॥४६॥॥ वैश्य उवाच ॥अस्मिन्रत्नवरे दिव्ये यदि ते सस्पृहं मनः ॥तमेवादत्स्व सुप्रीता मौल्यमस्य ददासि किम् ॥४७॥॥ वेश्यो वाच ॥वयं तु स्वैरचारिण्यो वेश्यास्तु न पतिव्रताः ॥अस्मत्कुलोचितो धर्मो व्यभिचारो न संशयः ॥४८॥यद्येतद्रत्नखचितं ददासि करभूषणम्॥दिनत्रयमहोरात्रं तव पत्नी भवाम्यहम् ॥४९॥॥ वैश्य उवाच ॥तथास्तु यदि ते सत्यं वचनं वारवल्लभे ॥ददामि रत्नवलयं त्रिरात्रं भव मद्वधूः ॥५०॥एतस्मिन्व्यवहारे तु प्रमाणं शशिभास्करौ ॥त्रिवारं सत्यमित्युक्त्वा हृदयं मे स्पृश प्रिये ॥५१॥॥ वेश्योवाच ॥दिनत्रयमहोरात्रं पत्नी भूत्वा तव प्रभो ॥सहधर्मं चरामीति सा तद्धृदयमस्पृशत् ॥५२॥अथ तस्यै स वैश्यस्तु प्रददौ रत्नकङ्कणम् ॥लिंगं रत्नमयं चास्या हस्ते दत्त्वेदमब्रवीत् ॥५३॥इदं रत्नमयं शैवं लिंगं मत्प्राणसंनिभम् ॥रक्षणीयं त्वया कांते तस्य हानिर्मृतिर्मम ॥५४॥एवमस्त्विति सा कांता लिंगमादाय रत्नजम् ॥नाट्यमण्डपिकास्तंभे निधाय प्राविशद्गृहम् ॥५५॥सा तेन संगता रात्रौ वैश्येन विटधर्मिणा ॥सुखं सुष्वाप पर्यंके मृदुतल्पोपशोभिते ॥५६॥ततो निशीथसमये नाट्यमण्डपिकांतरे ॥अकस्मादुत्थितो वह्निस्तमेव सहसावृणोत् ॥५७॥मण्डपे दह्यमाने तु सहसोत्थाय संभ्रमात् ॥सा वेश्या मर्कटं तत्र मोचयामास बंधनात् ॥५८॥स मर्कटो मुक्तबंधः कुक्कुटेन सहामुना ॥भीतो दूरं प्रदुद्राव विधूयाग्निकणान्बहून् ॥५९॥स्तंभेन सह निर्दग्धं तल्लिंगं शकलीकृतम् ॥दृष्ट्वा वेश्या च वैश्यश्च दुरंतं दुःखमापतुः ॥६०॥दृष्ट्वा प्राणसमं लिंगं दग्धं वैश्यपतिस्तथा ॥स्वयमप्याप्तनिर्वेदो मरणाय मतिं दधौ ॥६१॥निर्वेददान्नितरां खेदाद्वैश्यस्तामाह दुःखिताम् ॥शिवलिंगे तु निर्भिन्ने नाहं जीवितुमुत्सहे ॥६२॥चितां कारय मे भद्रे तव भृत्यैर्बलाधिकैः ॥शिवे मनः समावेश्य प्रविशामि हुताशनम् ॥६३॥यदि ब्रह्मेंद्रविष्ण्वाद्या वारयेयुः समेत्य माम् ॥तथाप्यस्मिन्क्षणे धीरः प्रविश्याग्निं त्यजाम्यसून् ॥६४॥तमेवं दृढबंधं सा विज्ञाय बहुदुःखिता ॥स्वभृत्यैः कारयामास चितां स्वनगराद्बहिः ॥६५॥ततः स वैश्यः शिवभक्तिपूतः प्रदक्षिणीकृत्य समिद्धमग्निम् ॥विवेश पश्यत्सु जनेषु धीरः सा चानुतापं युवती प्रपेदे ॥६६॥अथ सा दुःखिता नारी स्मृत्वा धर्मं सुनिर्मलम् ॥सर्वान्बन्धून्समीक्ष्यैव बभाषे करुणं वचः ॥६७॥रत्नकंकणमादाय मया सत्यमुदाहृतम् ॥दिनत्रयमहं पत्नी वैश्यस्यामुष्य संमता ॥६८॥कर्मणा मत्कृतेनायं मृतो वैश्यः शिवव्रती।तस्मादहं प्रवेक्ष्यामि सहानेन हुताशनम् ॥सधर्मचारिणीत्युक्तं सत्यमेतद्धि पश्यथ ॥६९॥सत्येन प्रीतिमायांति देवास्त्रिभुवनेश्वराः ॥सत्यासक्तिः परो धर्मः सत्ये सर्वं प्रतिष्ठितम् ॥७०॥सत्येन स्वर्गमोक्षौ च नासत्येन परा गतिः ॥तस्मासत्यं समाश्रित्य प्रवेक्ष्यामि हुताशनम् ॥७१॥इति सा दृढनिर्बंधा वार्यमाणापि बंधुभिः ॥सत्यलोपभयान्नारी प्राणांस्त्यक्तुं मनो दधे ॥७२॥सर्वस्वं शिवभक्तेभ्यो दत्त्वा ध्यात्वा सदाशिवम् ॥तमग्निं त्रिः परिक्रम्य प्रदेशाभिमुखी स्थिता ॥७३॥तां पतंतीं समिद्धेऽग्नौ स्वपदार्पितमानसाम् ॥वारयामास विश्वात्मा प्रादुर्भूतः शिवः स्वयम् ॥७४॥सा तं विलोक्याखिलदेव देवं त्रिलोचनं चन्द्रकलावतंसम् ॥शशांकसूर्यानलकोटिभासं स्तब्धेव भीतेव तथैव तस्थौ ॥७५॥तां विह्वलां परित्रस्तां वेपमानां जडी कृताम् ॥समाश्वास्य गलद्बाष्पां करे गृह्याब्रवीद्वचः ॥७६॥॥ शिव उवाच ॥सत्यं धर्मं च ते धैर्यं भक्तिं च मयि निश्चलाम् ॥निरीक्षितुं त्वत्सकाशं वैश्यो भूत्वाहमागतः ॥७७॥माययाग्निं समुत्थाप्य दग्धवान्नाट्यमंडपम् ॥दग्धं कृत्वा रत्नलिंगं प्रवृष्टोस्मि हुताशनम् ॥७८॥वेश्याः कैतवकारिण्यः स्वैरिण्यो जनवंचकाः ॥सा त्वं सत्यमनुस्मृत्य प्रविष्टाग्निं मया सह ॥७९॥अतस्ते संप्रदास्यामि भोगांस्त्रिदशदुर्लभान् ॥आयुश्च परमं दीर्घमारोग्यं च प्रजोन्नतिम् ॥यद्यदिच्छसि सुश्रोणि तत्तदेव ददामि ते ॥८०॥॥ सूत उवाच ॥इति ब्रुवति गौरीशे सा वेश्या प्रत्यभाषत ॥८१॥॥ वेश्योवाच ॥न मे वांछास्ति भोगेषु भूमौ स्वर्गे रसातले ॥तव पादांबुजस्पर्शादन्यत्किंचिन्न वै वृणे ॥८२॥एते भृत्याश्च दास्यश्च ये चान्ये मम बांधवाः ॥सर्वे त्वदर्चनपरास्त्वयि संन्यस्तवृत्तयः ॥८३॥सर्वानेतान्मया सार्धं नीत्वा तव परं पदम् ॥पुनर्जन्मभयं घोरं विमोचय नमोस्तु ते ॥८४॥तथेति तस्या वचनं प्रतिनंद्य महेश्वरः ॥तान्सर्वांश्च तया सार्धं निनाय परमं पदम् ॥८५॥॥ पराशर उवाच ॥नाट्यमंडपिकादाहे यौ दूरं विद्रुतौ पुरा ॥तत्रावशिष्टौ तावेव कुक्कुटो मर्कटस्तथा ॥८६॥कालेन निधनं यातो यस्तस्या नाट्यमर्कटः ॥सोभूत्तव कुमारोऽसौ कुवकुटो मंत्रिणः सुतः ॥८७॥रुद्राक्षधारणोद्भूतात्पुण्यात्पूर्वभवार्जितात् ॥कुले महति संजातौ वर्तेते बालकाविमौ ॥८८॥पूर्वाभ्यासेन रुद्राक्षान्दधाते शुद्धमानसौ ॥अस्मिञ्जन्मनि तं लोकं शिवं संपूज्य यास्य तः ॥८९॥एषा प्रवृत्तिस्त्वनयोर्बालयोः समुदाहृता ॥कथा च शिवभक्ताया किमन्यत्प्रष्टुमिच्छसि ॥९०॥इति श्रीस्कांदे महापुराण एका शीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे रुद्राक्षमहिमवर्णनं नाम विंशोऽध्यायः ॥२०॥अ ॥ N/A References : N/A Last Updated : November 20, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP