संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|ब्रह्मोत्तर खण्डः| अध्याय १ ब्रह्मोत्तर खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ विषयानुक्रमणिका ब्रह्मोत्तर खण्डः - अध्याय १ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १ Translation - भाषांतर ॥श्रीगणेशाय नमः॥॥श्रीगुरुभ्यो नमः ॥अथ ब्रह्मोत्तरखंडमारंभः ॥॥ ॐ नमः शिवाय ॥ज्योतिर्मात्रस्वरूपाय निर्मलज्ञानचक्षुषे ॥नमः शिवाय शांताय ब्रह्मणे लिंगमूर्त्तये ॥१॥॥ ऋषय ऊचुः ॥आख्यातं भवता सूत विष्णोर्माहात्म्यमुत्तमम्॥समस्ताघहरं पुण्यं समसेन श्रुतं च नः॥ २॥इदानीं श्रोतुमिच्छामो माहात्म्यं त्रिपुरद्विषः ॥तद्भक्तानां च माहात्म्यमशेषाघहरं परम् ॥३॥तन्मंत्राणां च माहात्म्यं तथैव द्विजसत्तम ॥तत्कथायाश्च तद्भक्तेः प्रभावमनुवर्णय ॥४॥॥ सूत उवाच ॥एतावदेव मर्त्यानां परं श्रेयः सनातनम्॥यदीश्वरकथायां वै जाता भक्तिरहैतुकी ॥५॥अतस्तद्भक्तिलेशस्य माहात्म्यं वर्ण्यते मया ॥अपि कल्पायुषा नालं वक्तुं विस्तरतः क्वचित् ॥६॥सर्वेषामपि पुण्यानां सर्वेषां श्रेयसामपि ॥सर्वेषामपि यज्ञानां जपयज्ञः परः स्मृतः॥ ७॥तत्रादौ जपयज्ञस्य फलं स्वस्त्ययनं महत् ॥शैवं षडक्षरं दिव्यं मंत्रमाहुर्महर्षयः॥ ८॥देवानां परमो देवो यथा वै त्रिपुरांतकः ॥मंत्राणां परमो मंत्रस्तथा शैवः षडक्षरः ॥९॥एष पंचाक्षरो मंत्रो जप्तॄणां मुक्तिदायकः॥संसेव्यते मुनिश्रेष्ठैरशेषैः सिद्धिकांक्षिभिः ॥१०१०॥अस्यैवाक्षरमाहात्म्यं नालं वक्तुं चतुर्मुखः॥श्रुतयो यत्र सिद्धांतं गताः परमनिर्वृताः॥ ११॥सर्वज्ञः परिपूर्णश्च सच्चिदानंदलक्षणः ॥स शिवो यत्र रमते शैवे पंचाक्षरे शुभे ॥१२॥एतेन मंत्रराजेन सर्वोपनिषदात्मना ॥लेभिरे मुनयः सर्वे परं ब्रह्म निरामयम् ॥१३॥नमस्कारेण जीवत्वं शिवेऽत्र परमात्मनि ॥ऐक्यं गतमतो मंत्रः परब्रह्ममयो ह्यसौ ॥१४॥भवपाशनिबद्धानां देहिनां हितकाम्यया ॥आहोंनमः शिवायेति मंत्रमाद्यं शिवः स्वयम् ॥१५॥किं तस्य बहुभिर्मंत्रैः किं तीर्थैः किं तपोऽध्वरैः ॥यस्योंनमः शिवायेति मंत्रो हृदयगोचरः॥ १६॥तावद्भ्रमंति संसारे दारुणे दुःखसंकुले ॥यावन्नोच्चारयंतीमं मंत्रं देहभृतः सकृत् ॥१७॥मंत्राधिराजराजोऽयं सर्ववेदांतशेखरः ॥सर्वज्ञाननिधानं च सोऽयं चैव षडक्षरः ॥१८॥कैवल्यमार्गदीपोऽयमविद्यासिंधुवाडवः ॥महापातकदावाग्निः सोऽयं मंत्रः षडक्षरः ! ॥१९॥तस्मात्सर्वप्रदो मंत्रः सोऽयं पञ्चाक्षरः स्मृतः ॥स्त्रीभिः शूद्रैश्च संकीर्णैर्धार्यते मुक्तिकांक्षिभिः॥३.३.१२०॥नास्य दीक्षा न होमश्च न संस्कारो न तर्पणम् ॥न कालो नोपदेशश्च सदा शुचिरयं मनुः ॥२१॥महापातकविच्छित्त्यै शिव इत्यक्षरद्वयम् ॥अलं नमस्कियायुक्तो मुक्तये परिकल्पते ॥२२॥उपदिष्टः सद्गुरुणा जप्तः क्षेत्रे च पावने ॥सद्यो यथेप्सितां सिद्धिं ददातीति किमद्भुतम् ॥२३॥अतः सद्गुरुमाश्रित्य ग्राह्योऽयं मंत्रनायकः॥पुण्यक्षेत्रेषु जप्तव्यः सद्यः सिद्धिं प्रयच्छति ॥२४॥गुरवो निर्मलाः शांताः साधवो मितभाषिणः ॥कामक्रोधविनिर्मुक्ताः सदाचारा जितेंद्रियाः ॥२५॥एतैः कारुण्यतो दत्तो मंत्रः क्षिप्रं प्रसिद्ध्यति ॥क्षेत्राणि जपयोग्यानि समासात्कथयाम्यहम् ॥२६॥प्रयागं पुष्करं रम्यं केदारं सेतुबंधनम् ॥गोकर्णं नैमिषारण्यं सद्यः सिद्धिकरं नृणाम् ॥२७॥अत्रानुवर्ण्यते सद्भिरितिहासः पुरातनः॥असकृद्वा सकृद्वापि शृण्वतां मंगलप्रदः॥ २८॥मथुरायां यदुश्रेष्ठो दाशार्ह इति विश्रुतः ॥बभूव राजा मतिमान्महोत्साहो महाबलः ॥२९॥शास्त्रज्ञो नयवाक्छूरो धैर्यवानमितद्युतिः ॥अप्रधृष्यः सुगंभीरः संग्रामेष्वनिवर्त्तितः ॥३०॥महारथो महेष्वासो नानाशास्त्रार्थकोविदः॥वदान्यो रूपसंपन्नो युवा लक्ष णसंयुतः ॥३१॥स काशिराजतनयामुपयेमे वराननाम् ॥कांतां कलावतीं नाम रूपशीलगुणान्विताम् ॥३२॥कृतोद्वाहः स राजेंद्रः संप्राप्य निजमंदिरम्॥रात्रौ तां शयनारूढां संगमाय समाह्वयत् ॥३३॥सा स्वभर्त्रा समाहूता बहुशः प्रार्थिता सती ॥न बबंध मनस्तस्मिन्न चागच्छ तदंतिकम् ॥३४॥संगमाय यदाहूता नागता निजवल्लभा ॥बलादाहर्तुकामस्तामुदतिष्ठन्महीपतिः ॥३५॥.॥ राज्ञ्युवाच ॥मा मां स्पृश महाराज कारणज्ञां व्रते स्थिताम् ॥धर्माधर्मौ विजानासि मा कार्षीः साहसं मयि ॥३६॥क्वचित्प्रियेण भुक्तं यद्रोचते तु मनीषिणाम् ॥दंपत्योः प्रीतियोगेन संगमः प्रीतिवर्द्धनः ॥३७॥प्रियं यदा मे जायेत तदा संगस्तु ते मयि ॥का प्रीतिः किं सुखं पुंसां बलाद्भोगेन योषिताम् ॥३८॥अप्रीतां रोगिणीं नारीमंतर्वत्नीं धृतव्रताम् ॥रजस्वलामकामां च न कामेत बलात्पुमान् ॥३९॥प्रीणनं लालनं पोषं रंजनं मार्दवं दयाम्॥कृत्वा वधूमुपगमेद्युवतीं प्रेमवान्पतिः ॥युवतौ कुसुमे चैव विधेयं सुखमिच्छता ॥४० ।इत्युक्तोऽपि तया साध्व्या स राजा स्मरविह्वलः ॥बलादाकृष्य तां हस्ते परिरेभे रिरंसया ॥४१॥तां स्पृष्टमात्रां सहसा तप्तायःपिंडसन्निभाम् ॥निर्दहंतीमिवात्मानं तत्याज भयविह्वलः ॥४२॥॥ राजोवाच ॥अहो सुमहदाश्चर्यमिदं दृष्टं तव प्रिये ॥कथमग्निसमं जातं वपुः पल्लवकोमलम् ॥४३॥इत्थं सुविस्मितो राजा भीतः सा राजवल्लभा ॥प्रत्युवाच विहस्यैनं विनयेन शुचिस्मिता ॥४४॥॥ राज्ञ्युवाच ॥राजन्मम पुरा बाल्ये दुर्वासा मुनिपुंगवः॥शैवीं पंचाक्षरीं विद्यां कारुण्येनोपदिष्टवान् ॥४५॥तेन मंत्रानुभावेन ममांगं कलुषोज्झितम् ॥स्प्रष्टुं न शक्यते पुंभिः सपापैर्देवैवर्जितैः ॥४६॥त्वया राजन्प्रकृतिना कुलटागणिकादयः ॥मदिरास्वादनिरता निषेव्यंते सदा स्त्रियः ॥४७॥न स्नानं क्रियते नित्यं न मंत्रो जप्यते शुचिः ॥नाराध्यते त्वयेशानः कथं मां स्प्रष्टुमर्हसि ॥४८॥॥ राजोवाच।॥तां समाख्याहि सुश्रोणि शैवीं पंचाक्षरीं शुभाम् ॥विद्याविध्वस्तपापोऽहं त्वयीच्छामि रतिं प्रिये ॥४९॥॥ राज्ञ्युवाच ॥नाहं तवोपदेशं वै कुर्यां मम गुरुर्भवान् ॥उपातिष्ठ गुरुं राजन्गर्गं मंत्र विदांवरम् ॥५०॥॥ सूत उवाच ॥इति संभाषमाणौ तौ दंपती गर्गसन्निधिम् ॥प्राप्य तच्चरणौ मूर्ध्ना ववंदाते कृताञ्जली ॥५१॥अथ राजा गुरुं प्रीतमभिपूज्य पुनःपुनः ॥समाचष्ट विनीतात्मा रहस्यात्ममनोरथम् ॥५२॥॥ राजोवाच ॥कृतार्थं मां कुरु गुरो संप्राप्तं करुणार्द्रधीः ॥शैवीं पंचाक्षरीं विद्यामुपदेष्टुं त्वमर्हसि ॥५३॥अनाज्ञातं यदाज्ञातं यत्कृतं राजकर्मणा ॥तत्पापं येन शुद्ध्येत तन्मंत्रं देहि मे गुरो ॥५४॥एवमभ्यर्थितो राज्ञा गर्गो ब्राह्मणपुंगवः ॥तौ निनाय महापुण्यं कालिंद्यास्तटमुत्तमम् ॥५५॥तत्र पुण्यतरोर्मूले निषण्णोऽथ गुरुः स्वयम् ॥पुण्यतीर्थजले स्नातं राजानं समुपोषितम्॥ ५६॥प्राङ्मुखं चोपवेश्याथ नत्वा शिवपदाम्बुजम् ॥तन्मस्तके करं न्यस्य ददौ मंत्रं शिवात्मकम् ॥५७॥तन्मंत्रधारणादेव तद्गुरोर्हस्तसंगमात्॥निर्ययुस्तस्य वपुषो वायसाः शतकोटयः ॥५८॥ते दग्धपक्षाः क्रोशंतो निपतंतो महीतले ॥भस्मीभूतास्ततः सर्वे दृश्यंते स्म सहस्रशः ॥५९॥दृष्ट्वा तद्वायसकुलं दह्यमानं सुविस्मितौ ॥राजा च राजमहिषी तं गुरुं पर्यपृच्छताम् ॥६०॥भगवन्निदमाश्चर्यं कथं जातं शरीरतः ॥वायसानां कुलं दृष्टं किमेतत्साधु भण्यताम् ॥६१॥॥ श्रीगुरुरुवाच ॥राजन्भवसहस्रेषु भवता परिधावता ॥संचितानि दुरन्तानि संति पापान्यनेकशः ॥६२॥तेषु जन्मसहस्रेषु यानि पुण्यानि संति ते ॥तेषामाधिक्यतः क्वापि जायते पुण्ययोनिषु ॥६३॥तथा पापीयसीं योनिं क्वचित्पापेन गच्छति ॥साम्ये पुण्यान्ययोश्चैव मानुषीं योनिमाप्तवान् ॥६४॥शैवी पंचाक्षरी विद्या यदा ते हृदयं गता।अघानां कोटयस्त्वत्तः काकरूपेण निर्गताः ॥६९॥कोटयो ब्रह्महत्यानामगम्यागम्यकोटयः॥स्वर्णस्तेयसुरापानभ्रूणहत्या दिकोटयः ॥भवकोटिसहस्रेषु येऽन्ये पातकराशयः ॥६६॥क्षणाद्भस्मीभवंत्येव शैवे पंचाक्षरे धृते ॥आसंस्तवाद्य राजेंद्र दग्धाः पातककोटयः ॥६७॥अनया सह पूतात्मा विहरस्व यथासुखम् ॥इत्याभाष्य मुनिश्रेष्ठस्तं मंत्रमुपदिश्य च ॥६८॥ताभ्यां विस्मितचित्ताभ्यां सहितः स्वगृहे ययौ ॥गुरुवर्यमनुज्ञाप्य मुदितौ तौ च दंपती ॥६९॥ततः स्वभवनं प्राप्य रेजतुःस्म महाद्युती।॥राजा दृढं समाश्लिष्य पत्नीं चन्दनशीतलाम्॥संतोषं परमं लेभे निःस्वः प्राप्य यथा धनम् ॥७०॥अशेषवेदोपनिषत्पुराणशास्त्रावतंसोऽयमघांतकारी ॥पंचाक्षरस्यैव महाप्रभावो मया समासात्कथितो वरिष्ठः ॥७१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे पंचाक्षरमन्त्रमाहात्म्यवर्णनं नाम प्रथमोऽध्यायः ॥१॥ N/A References : N/A Last Updated : November 20, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP