संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|ब्रह्मोत्तर खण्डः| अध्याय १४ ब्रह्मोत्तर खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ विषयानुक्रमणिका ब्रह्मोत्तर खण्डः - अध्याय १४ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १४ Translation - भाषांतर ॥ सूत उवाच ॥प्राप्तसिंहासनो वीरो भद्रायुः स महीपतिः ॥प्रविवेश वनं रम्यं कदाचिद्भार्यया सह ॥१॥तस्मिन्विकसिताशोकप्रसूननवपल्लवे॥प्रोत्फुल्लमल्लिकाखंडकूजद्भ्रमरसंकुले॥२॥नवकेसरसौरभ्यबद्धरागिजनोत्सवे॥सद्यः कोरकिताशोकतमालगहनांतरे ॥३॥प्रसूनप्रकरानम्र माधवीवनमंडपे॥प्रवालकुसुमोद्द्योतचूतशाखिभिरञ्चिते ॥४॥पुन्नागवनविभ्रांतपुंस्कोकिलविराविणि॥वसन्तसमये रम्ये विजहार स्त्रिया सह ॥५॥अथाविदूरे क्रोशंतौ धावंतौ द्विजदंपती ॥अन्वीयमानौ व्याघ्रेण ददर्श नृपसत्तमः ॥६॥पाहि पाहि महाराज हा राजन्करुणानिधे ॥एष धावति शार्दूलो जग्धुमावां महारयः ॥७॥एष पर्वतसंकाशः सर्वप्राणिभयंकरः ॥यावन्न खादति प्राप्य तावन्नौ रक्ष भूपते ॥८॥इत्थमाक्रंदितं श्रुत्वा स राजा धनुराददे ॥तावदागत्य शार्दूलो मध्ये जग्राह तां वधूम् ॥९॥हा नाथ नाथ हा कांत हा शंभो जगतः पते ॥इति रोरूयमाणां तां यावज्जग्राह भीषणः ॥१०॥तावत्स राजा निशितैर्भल्लैर्व्याघ्रमताडयत् ॥न च तैर्विव्यथे किंचिद्गिरींद्र इव वृष्टिभिः ॥११॥स शार्दूलो महासत्त्वो राज्ञोस्त्रैरकृतव्यथः ॥बलादाकृष्य तां नारीमपाक्रामत सत्वरः ॥१२॥व्याघ्रेणापहृतां पत्नीं वीक्ष्य विप्रोऽतिदुःखितः ॥रुरोद हा प्रिये बाले हा कांते हा पतिव्रते ॥१३॥एकं मामिह संत्यज्य कथं लोकांतरं गता ॥प्राणेभ्योपि प्रियां त्यक्त्वा कथं जीवितुमुत्सहे ॥१४॥राजन्क्व ते महास्त्राणि क्व ते श्लाघ्यं महद्धनुः ॥क्व ते द्वादशसाहस्रमहानागातिगं बलम् ॥१५॥किं ते शंखेन खङ्गेन किं ते मंत्रास्त्रविद्यया ॥किं च तेन प्रयत्नेन किं प्रभावेण भूयसा ॥१६॥तत्सर्वं विफलं जातं यच्चान्यत्त्वयि तिष्ठति ॥यस्त्वं वनौकसं जंतुं निवारयितुमक्षमः ॥१७॥क्षात्त्रस्यायं परो धर्मः क्षताद्यत्परिरक्षणम् ॥तस्मात्कुलोचिते धर्मे नष्टे त्वज्जीवितेन किम् ॥१८॥आर्तानां शरणार्तानां त्राणं कुर्वंति पार्थिवाः ॥प्राणैरर्थैश्च धर्मज्ञास्तद्विहीना मृतोपमाः ॥१९॥धनिनां दानहीनानां गार्हस्थ्याद्भिक्षुता वरा ॥आर्तत्राणविहीनानां जीवितान्मरणं वरम् ॥२०॥वरं विषादनं राज्ञो वरमग्नौ प्रवेशनम् ॥अनाथानां प्रपन्नानां कृपणानामरक्षणात् ॥२१॥इत्थं विलपितं तस्य स्ववीर्यस्य च गर्हणम् ॥निशम्य नृपतिः शोकादात्मन्येवमचिंतयत् ॥२२॥अहो मे पौरुषं नष्टमद्य दैवविपर्ययात् ॥अद्य कीर्तिश्च मे नष्टा पातकं प्राप्तमुत्क टम् ॥२३॥धर्मः कालोचितो नष्टो मन्दभाग्यस्य दुर्मतेः ॥नूनं मे संपदो राज्यमायुष्यं क्षयमेष्यति ॥२४॥अपुंसां संपदो भोगाः पुत्रदारधनानि च ॥दैवेन क्षणमुद्यंति क्षणादस्तं व्रजंति च ॥२५॥अत एनं द्विजन्मानं हतदारं शुचार्दितम् ॥गतशोकं करिष्यामि दत्त्वा प्राणानपि प्रियान् ॥२६॥इति निश्चित्य मनसा भद्रायुर्नृपसत्तमः ॥पतित्वा पादयोस्त्वस्य बभाषे परिसांत्वयन् ॥२७॥कृपां कुरु मयि ब्रह्मन्क्षत्रबंधौ हतौजसि ॥शोकं त्यज महाबुद्धे दास्याम्यर्थं तवेप्सितम् ॥२८॥इदं राज्यमियं राज्ञी ममेदं च कलेवरम् ॥त्वधीनमिदं सर्वं किं तेऽभिलषितं वद ॥२९॥॥ ब्राह्मण उवाच ॥किमादर्शेन चांधस्य किं गृहैर्भैक्ष्यजीविनः ॥किं पुस्तकेन मूर्खस्य ह्यस्त्रीकस्य धनेन किम् ॥३०॥अतोऽहं गतपत्नीको भुक्तभोगो न कर्हिचित् ॥इमां तवाग्रमहिषीं कामार्थं दीयतां मम ॥३१॥॥ राजोवाच ॥ब्रह्मन्किमेष धर्मस्ते किमेतद्गुरुशासनम् ॥अस्वर्ग्यमयशस्यं च परदाराभिमर्शनम् ॥३२॥दातारः संति वित्तस्य राज्यस्य गजवाजिनाम् ॥आत्मदेहस्य वा क्वापि न कलत्रस्य कर्हिचित् ॥३३॥परदारोपभोगेन यत्पापं समुपार्जितम् ॥न तत्क्षालयितुं शक्यं प्रायश्चित्तशतैरपि ॥३४॥॥ ब्राह्मण उवाच ॥अपि ब्रह्मवधं घोरमपि मद्यनिषेवणम् ॥तपसा नाशयिष्यामि कि पुनः पारदारिकम् ॥तस्मात्प्रयच्छ मे भार्यामिमां त्वं ध्रुवमन्यथा ॥३५॥अरक्षणाद्भयार्तानां गंतासि निरयं ध्रुवम् ॥इति विप्रगिरा भीतश्चिंतयामास पार्थिवः ॥अरक्षणान्महत्पापं पत्नीदानं ततो वरम् ॥३६॥अतः पत्नीं द्विजाग्र्याय दत्त्वा निर्मुक्तकिल्विषः ॥सद्यो वह्निं प्रवेक्ष्यामि कीर्तिश्च निहिता भवेत् ॥३७॥इति निश्चित्य मनसा समुज्ज्वाल्य हुताशनम् ॥तं ब्राह्मणं समाहूय ददौ पत्नीं सहोदकाम् ॥३८॥स्वयं स्नातः शुचिर्भूत्वा प्रणम्य विबुधेश्वरान् ॥तमग्निं द्विः परिक्रम्य शिवं दध्यौ समाहितः ॥३९॥तमथाग्नौ पतिष्यंतं स्वपदासक्तचेतसम् ॥प्रत्यदृश्यत विश्वेशः प्रादुर्भूतो जगत्पतिः ॥४०॥तमीश्वरं पंचवक्त्रं त्रिनेत्रं पिनाकिनं चन्द्रकलावतंसम् ॥आलंबितापिंगजटाकलापं मध्यंगतं भास्करकोटितेजसम् ॥४१॥मृणालगौरं गजचर्मवाससं गंगातरंगो क्षितमौलिदेशम् ॥नागेंद्रहारावलिकंकणोर्मिकाकिरीटकोट्यंगदकुंडलोज्ज्वलम् ॥४२॥त्रिशूलखट्वांगकुठारचर्ममृगाभयेष्टार्थपिनाकहस्तम् ॥वृषोपरिस्थं शितिकंठमीशं प्रोद्भूतमग्रे नृपतिर्ददर्श ॥४३॥अथांबराद्द्रुतं पेतुर्दिव्याः कुसुमवृष्टयः ॥प्रणेदुर्देवतूर्याणि देवाश्च ननृतुर्जगुः ॥४४॥तत्राजग्मुर्नारदाद्याः सनकाद्या सुरर्षयः ॥इन्द्रादयश्च लोकेशास्तथाब्रह्मर्षयोऽमलाः ॥४५॥तेषां मध्ये समासीनो महादेवः सहोमया ॥ववर्ष करुणासारं भक्तिनम्रे महीपतौ ॥४६॥तद्दर्शनानंदविजृंभिताशयः प्रवृद्धबाष्पांबुपरिप्लुतांगः ॥प्रहृष्टरोमा गलगद्गदाक्षरं तुष्टाव गीर्भिर्मुकुलीकृतांजलिः ॥४७॥॥ राजोवाच ॥नतोस्म्यहं देवमनाथमव्ययं प्रधानमव्यक्तगुणं महांतम् ॥अकारणं कारणकारणं परं शिवं चिदानंदमयं प्रशांतम् ॥४८॥त्वं विश्वसाक्षी जगतोऽस्यकर्त्ता विरूढधामा हृदि सन्निविष्टः ॥अतो विचिन्वंति विधौ विपश्चितो योगैरनेकैः कृतचित्तरोधैः ॥४९॥एकात्मतां भावयतां त्वमेको नानाधियां यस्त्वमनेकरूपः ॥अतींद्रियं साक्ष्युदयास्तविभ्रमं मनःपथात्संह्रियते पदं ते ॥५०॥तं त्वां दुरापं वचसो धियाश्च व्यपेतमोहं परमात्मरूपम् ॥गुणैकनिष्ठाः प्रकृतौ विलीनाः कथं वपुः स्तोतुमलंगिरो मे ॥५१॥तथापि भक्त्याश्रयतामुपेयुस्तवांघ्रिपद्मं प्रणतार्तिभंजनम् ॥सुघोरसंसारदवाग्निपीडितो भजामि नित्यं भवभीतिशांतये ॥५२॥नमस्ते देव देवाय महादेवाय शंभवे ॥नमस्त्रिमूर्तिरूपाय सर्गस्थित्यंतकारिणे ॥५३॥नमो विश्वादिरूपाय विश्वप्रथमसाक्षिणे ॥नमः सन्मात्रतत्त्वाय बोधानंदघनाय च ॥५४॥सर्वक्षेत्रनिवासाय क्षेत्रभिन्नात्मशक्तये ॥अशक्ताय नमस्तुभ्यं शक्ताभासाय भूयसे ॥५५॥निराभासाय नित्याय सत्यज्ञानांतरात्मने ॥विशुद्धाय विदूराय विमुक्ताशेषकर्मणे ॥५६॥नमो वेदांतवेद्याय वेदमूलनिवासिने ॥नमो विविक्तचेष्टाय निवृत्तगुण वृत्तये ॥५७॥नमः कल्याणवीर्याय कल्याणफलदायिने ॥नमोऽनंताय महते शांताय शिवरूपिणे ॥५८॥अघोराय सुघोराय घोराघौघ विदारिणे ॥भर्गाय भवबीजानां भंजनाय गरीयसे ॥नमो विध्वस्तमोहाय विशदात्मगुणाय च ॥५९॥पाहि मां जगतां नाथ पाहि शंकर शाश्वत ॥पाहि रुद्र विरूपाक्ष पाहि मृत्युंजयाव्यय ॥६०॥शम्भो शशांककृतशेखर शांतमूर्ते गौरीश गोपतिनिशापहुताशनेत्र ॥गंगाधरांधकविदारण पुण्यकीर्ते भूतेश भूधरनिवास सदा नमस्ते ॥६१॥॥ सूत उवाच ॥एवं स्तुतः स भगवान्राज्ञा देवो महेश्वरः ॥प्रसन्नः सह पार्वत्या प्रत्युवाच दयानिधिः ॥६२॥॥ ईश्वर उवाच ॥राजंस्ते परितुष्टोऽस्मि भक्त्या पुण्यस्तवेन च ॥अनन्यचेता यो नित्यं सदा मां पर्यपूजयः ॥६३॥तव भावपरीक्षार्थं द्विजो भूत्वाहमागतः ॥व्याघ्रेण या परिग्रस्ता सैषा दैवी गिरींद्रजा ॥६४॥व्याघ्रो मायामयो यस्ते शरैरक्षतविग्रहः ॥धीरतां द्रष्टुकामस्ते पत्नीं याचितवानहम् ॥६५॥अस्याश्च कीर्तिमालिन्यास्तव भक्त्या च मानद ॥तुष्टोऽहं संप्रयच्छामि वरं वरय दुर्लभम् ॥६६॥॥ राजोवाच ॥एष एव वरो देव यद्भवान्परमेश्वरः ॥भवतापपरीतस्य मम प्रत्यक्षतां गतः ॥६७॥नान्यं वरं वृणे देव भवतो वरदर्षभात् ॥अहं च सेयं सा राज्ञी मम माता च मत्पिता ॥६८॥वैश्यः पद्माकरो नाम तत्पुत्रः सुनयाभिधः ॥सर्वानेतान्महादेव सदा त्वत्पार्श्वगान्कुरु ॥६९॥॥ सूत उवाच ॥अथ राज्ञी महाभागा प्रणता कीर्तिमालिनी ॥भक्त्या प्रसाद्य गिरिशं ययाचे वरमुत्तमम् ॥७०॥॥ राज्ञ्युवाच ॥चंद्रांगदो मम पिता माता सीमंतिनी च मे ॥तयोर्याचे महादेव त्वत्पार्श्वे सन्निधिं सदा ॥७१॥एवमस्त्विति गौरीशः प्रसन्नो भक्तवत्सलः ॥तयोः कामवरं दत्त्वा क्षणादंतर्हितोऽभवत् ॥७२॥सोपि राजा सुरैः सार्धं प्रसादं प्राप्य शूलिनः ॥सहितः कीर्तिमालिन्या बुभुजे विषयान्प्रियान् ॥७३॥कृत्वा वर्षायुतं राज्यमव्याहतबलोन्नतिः ॥राज्यं पुत्रेषु विन्यस्य भेजे शंभोः परं पदम् ॥७४॥चंद्रांगदोपि राजेंद्रो राज्ञी सीमंतिनी च सा ॥भक्त्या संपूज्य गिरिशं जग्मतुः शांभवं पदम् ॥७५॥एतत्पवित्रमघनाशकरं विचित्रं शम्भोर्गुणानुकथनं परमं रहस्यम् ॥यः श्रावयेद्बुधजनान्प्रयतः पठेद्वा संप्राप्य भोगविभवं शिव मेति सोंते ॥७६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे भद्रायुशिवप्रसादकथनं नाम चतुर्दशोऽध्यायः ॥१४॥ N/A References : N/A Last Updated : November 20, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP