संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|ब्रह्मोत्तर खण्डः| अध्याय २ ब्रह्मोत्तर खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ विषयानुक्रमणिका ब्रह्मोत्तर खण्डः - अध्याय २ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २ Translation - भाषांतर ॥ सूत उवाच ॥अथान्यदपि वक्ष्यामि माहात्म्यं त्रिपुरद्विषः ॥श्रुतमात्रेण येनाशु च्छिद्यंते सर्वसंशयाः ॥१॥अतः परतरं नास्ति किंचित्पापविशोधनम् ॥सर्वानंदकरं श्रीमत्सर्वकामार्थसाधम् ॥२॥दीर्घायुर्विजयारोग्यभुक्तिमुक्तिफलप्रदम् ॥यदनन्येन भावेन महे शाराधनं परम् ॥३॥आर्द्राणामपि शुष्काणामल्पानां महतामपि ॥एतदेव विनिर्दिष्टं प्रायश्चितमथोत्तमम् ॥४॥सर्वकालेऽप्यभेद्यानामघानां क्षयकारणम् ॥महामुनिविनिर्दिष्टैः प्रायश्चित्तैरथोत्तमैः ॥५॥इयमेव परं श्रेयः सर्वशास्त्रविनिश्चितम्॥यद्भक्त्या परमेशस्य पूजनं परमो दयम् ॥६॥जानताऽजानता वापि येन केनापि हेतुना ॥यत्किंचिपि देवाय कृतं कर्म विमुक्तिदम् ॥७॥माघे कृष्णचतुर्द्दश्यामुपवासोऽति दुर्लभः॥तत्रापि दुर्लभं मन्ये रात्रौ जागरणं नृणाम् ॥८॥अतीव दुर्लभं मन्ये शिवलिंगस्य दर्शनम् ॥सुदुर्लभतरं मन्ये पूजनं परमेशितुः ॥९॥भवकोटिशतोत्पन्नषुण्यराशिविपाकतः॥लभ्यते वा पुनस्तत्र बिल्वपत्रार्चनं विभोः ॥१०॥वर्षाणामयुतं येन स्नातं गंगासरिज्जले ।सकृद्बिल्वार्चनेनैव तत्फलं लभते नरः ॥११॥यानियानि तु पुण्यानि लीनानीह युगेयुगे ॥माघेऽसितचतुर्दश्यां तानि तिष्ठंति कृत्स्नशः ॥१२॥एतामेव प्रशंसंति लोके ब्रह्मादयः सुराः ॥मुनयश्च वशिष्ठाद्या माघेऽसितचतुर्दशीम् ॥१३॥अत्रोपवासः केनापि कृतः क्रतुशताधिकैः ॥रात्रौ जागरणं पुण्यं कल्पकोटितपोऽधिकम् ॥१४॥एकेन बिल्वपत्रेण शिवलिंगार्चनं कृतम् ॥त्रैलोक्ये तस्य पुण्यस्य को वा सादृश्यमिच्छति ॥१५॥अत्रानुवर्ण्यते गाथा पुण्या परमशोभना ॥गोपनीयापि कारुण्याद्गौतमेन प्रकाशिता ॥१६॥इक्ष्वाकुवंशजः श्रीमान्राजा परम धार्मिकः॥आसीन्मित्रसहोनाम श्रेष्ठः सर्वधनुर्भृताम्॥ १७॥स राजा सकलास्त्रज्ञः शास्त्रज्ञः श्रुतिपारगः ॥वीरोऽत्यंतबलोत्साहो नित्योद्योगी दयानिधिः॥ १८॥पुण्यानामिव संघातस्तेजसामिव पंजरः ॥आश्चर्याणामिव क्षेत्रं यस्य मूर्तिर्विराजते ॥१९॥हृदयं दययाक्रांतं श्रियाक्रांतं च तद्वपुः ॥चरणौ यस्य सामंतचूडामणिमरीचिभिः ॥२०॥एकदा मृगयाकेलिलोलुपः स महीपतिः ॥विवेश गह्वरं घोरं बलेन महतावृतः ॥२१॥तत्र विव्याध विशिखैः शार्दूलान्गवयान्मृगान् ॥रुरून्वराहान्महिषान्मृगेंद्रानपि भूरिशः ॥२२॥स रथी मृगयासक्तो गहनं दंशित श्चरन् ॥कमपि ज्वलनाकारं निजघान निशाचरम् ॥२३॥तस्यानुजः शुचाविष्टो दृष्ट्वा दूरे तिरोहितः ॥भ्रातरं निहतं दृष्ट्वा चिंतयामास चेतसा ॥२४॥नन्वेष राजा दुर्द्धर्षो देवानां रक्षसामपि ॥छद्मनैव प्रजेतव्यो मम शत्रुर्न चान्यथा ॥२५॥इति व्यवसितः पापो राक्षसो मनुजाकृतिः ॥आससाद नृपश्रेष्ठमुत्पात इव मूर्तिमान् ॥२६॥तं विनम्राकृतिं दृष्ट्वा भृत्यतां कर्तुमागतम् ॥चक्रे महानसाध्यक्षमज्ञानात्स महीपतिः ॥२७॥अथ तस्मिन्वने राजा किंचित्कालं विहृत्य सः ॥निवृत्तो मृगयां हित्वा स्वपुरीं पुनराययौ ॥२८॥तस्य राजेंद्रमुख्यस्य मदयंतीतिनामतः ॥दमयन्ती नलस्येव विदिता वल्लभा सती ॥२९॥एतस्मिन्समये राजा निमंत्र्य मुनिपुंगवम् ॥वशिष्ठं गृहमानिन्ये संप्राप्ते पितृवासरे ॥३०॥रक्षसा सूदरूपेण संमिश्रितनरामिषम् ॥शाकामिषं पुरः क्षिप्तं दृष्ट्वा गुरुरथाब्रवीत् ॥३१॥धिग्धिङ्नरामिषं राजं स्त्वयैतच्छद्मकारिणा ॥खलेनोपहृतं मेऽद्य अतो रक्षो भविष्यसि ॥३२॥रक्षःकृतमविज्ञाय शप्त्वैवं स गुरुस्ततः ॥पुनर्विमृश्य तं शापं चकार द्वादशाब्दिकम् ॥३३॥राजापि कोपितः प्राह यदिदं मे न चेष्टितम् ॥न ज्ञातं च वृथा शप्तो गुरुं चैव शपाम्यहम् ॥३४॥इत्यपोंजलिनादाय गुरुं शप्तुं समुद्यतः ॥पतित्वा पादयोस्तस्य मदयन्ती न्यवारयत् ॥३५॥ततो निवृत्तः शापाच्च तस्या वचनगौरवात् ॥तत्याज पादयोरंभः पादौ कल्मषतां गतौ ॥३६॥कल्मषांघ्रिरिति ख्यातस्ततः प्रभृति पार्थिवः ॥बभूव गुरुशापेन राक्षसो वनगोचरः ॥३७॥स बिभ्रद्राक्षसं रूपं घोरं कालां तकोपमम् ॥चखाद विविधाञ्जंतून्मानुषादीन्वनेचरः ॥३८॥स कदाचिद्वने क्वापि रममाणौ किशोरकौ ॥अपश्यदंतकाकारो नवोढौ मुनिदंपती ॥३९॥राक्षसो मानुषाहारः किशोरमुनिनंदनम् ॥जग्धुं जग्राह शापार्तो व्याघ्रो मृगशिशुं यथा ॥४०॥रक्षोगृहीतं भर्तारं दृष्ट्वा भीताथ तत्प्रिया ॥उवाच करुणं बाला क्रंदंती भृशवेपिता ॥४१॥भोभो मामा कृथाः पापं सूर्यवंशयशोधर ॥मदयंतीपतिस्त्वं हि राजेंद्रो न तु राक्षसः ॥४२॥न खाद मम भर्त्तारं प्राणात्प्रियतमं प्रभो ॥आर्त्तानां शरणार्त्तानां त्वमेव हि यतो गतिः ॥४३॥पापानामिव संघातैः किं मे दुष्टैर्जडासुभिः ॥देहेन चातिभारेण विना भर्त्रा महात्मना ॥४४॥मलीमसेन पापेन पांचभौतेन किं सुखम् ॥बालोयं वेदविच्छांतस्तपस्वी बहुशास्त्रवित् ॥४५॥अतोऽस्य प्राणदानेन जगद्रक्षा त्वया कृता।कृपां कुरु महाराज बालायां ब्राह्मणस्त्रियाम् ॥४६॥अनाथकृपणार्तेषु सघृणाः खलु साधवः ॥||इत्थमभ्यर्थितः सोऽपि पुरुषादः स निर्घृणः ॥४७॥चखाद शिर उत्कृत्य विप्रपुत्रं दुराशयः॥अथ साध्वी कृशा दीना विलप्य भृशदुःखिता। ॥४८॥आहृत्य भर्तुरस्थीनि चितां चक्रे तथोल्बणाम् ॥भर्तारमनुगच्छंती संविशंती हुताशनम् ॥४९॥राजानं राक्षसाकारं शापास्त्रेण जघान तम् ॥रेरे पार्थिव पापात्मंस्त्वया मे भक्षितः पतिः ॥५०॥अतः पतिव्रतायास्त्वं शापं भुंक्ष्व यथोल्बणम्॥अद्यप्रभृति नारीषु यदा त्वमपि संगतः ।तदा मृतिस्तवेत्युक्त्वा विवेश ज्वलनं सती ॥५१॥सोऽपि राजा गुरोः शापमुपभुज्य कृतावधिम् ॥पुनः स्वरूपमादाय स्वगृहं मुदितो ययौ ॥५२॥ज्ञात्वा विप्रसतीशापं तत्पत्नी रतिलालसम् ॥पतिं निवारयामास वैधव्यातिबिभ्यती ॥५३॥अनपत्यः स निर्विण्णो राज्यभोगेषु पार्थिवः ॥विसृज्य सकलं लक्ष्मीं ययौ भूयोऽपि काननम् ॥५४॥सूर्यवंशप्रतिष्ठित्यै वशिष्ठो मुनिसत्तमः ॥तस्यामुत्पादयामास मदयंत्यां सुतोत्तमम् ॥५५॥विसृष्टराज्यो राजापि विचरन्सकलां महीम् ॥आयांतीं पृष्ठतोऽपश्यत्पिशाचीं घोररूपिणीम् ॥५६॥सा हि मूर्तिमती घोरा ब्रह्महत्या दुरत्यया ॥यदासौ शापविभ्रष्टो मुनिपुत्रमभक्षयत् ॥५७॥तेनात्मकर्मणा. यांतीं ब्रह्महत्यां स पृष्ठतः ॥बुबुधे मुनिवर्याणामुपदेशेन भूपतिः॥ ५८॥तस्या निर्वेशमन्विच्छन्राजा निर्विण्णमानसः ॥नानाक्षेत्राणि तीर्थानि चचार बहुवत्सरम् ॥५९॥यदा सर्वेषु तीर्थेषु स्नात्वापि च मुहुर्मुहुः ॥न निवृत्ता ब्रह्महत्या मिथिलामाययौ तदा ॥बाह्योद्यानगतस्तस्याश्चिंतया परयार्दितः। ॥६०॥ददर्श मुनिमायांतं गौतमं विमलाशयम्॥हुताशनमिवाशेषतपस्विजनसेवितम् ॥६१॥विवस्वंतमिवात्यंतं घनदोषतमोनुदम् ॥शशांकमिव निःशंकमवदातगुणोदयम् ॥६२॥महेश्वरमिव श्रीमद्द्विजराजकलाधरम् ॥शांतं शिष्यगणोपेतं तपसामेकभाजनम् ॥६३॥उपसृत्य स राजेंद्रः प्रणनाम मुहुर्मुहुः ॥गौतमोऽपि मुनिश्रेष्ठो राजानं रविवंशजम् ॥६१॥अभिनंद्य मुनिः प्रीत्या संस्मितं समभाषत ॥६९॥ .॥ गौतम उवाच ॥कच्चित्ते कुशलं राजन्कच्चित्ते पदमव्ययम् ॥६६॥कुशलिन्यः प्रजाः कच्चिदवरोधजनोपि वा ॥किमर्थमिह संप्राप्तो विसृज्य सकलां श्रियम् ॥६७॥किं च ध्यायसि भो राजन्दीर्घमुष्णं च निःश्वसन् ॥६८॥ll राजोवाच ॥सर्वे कुशलिनो ब्रह्मन्वयं त्वदनुकंपया।॥राज्ञामुत्तमवंश्यानां ब्रह्मायत्ता हि संपदः ॥किं नु मां बाधते त्वेषा पिशाची घोररूपिणी ॥६९॥अलक्षिता मदपरैर्भर्त्सयंती पदेपदे ॥यन्मया शापदग्धेन कृतमहो दुरत्ययम् ॥न शांतिर्जायते तस्य प्रायश्चित्तसहस्रकैः ॥७०॥इष्टाश्च विविधा यज्ञाः कोशसर्वस्वदक्षिणाः ॥सरित्सरांसि स्नातानि यानि पूज्यानि भूतले ॥निषेवितानि सर्वाणि क्षेत्राणि भ्रमता मया ॥७१॥जप्तान्यखिलमंत्राणि ध्याताः सकलदेवताः ॥महाव्रतानि चीर्णानि पर्णमूलफलाशिना ॥७२॥तानि सर्वाणि कुर्वंति स्वस्थं मां न कदाचन ॥अद्य मे जन्मसाफल्यं संप्राप्तमिव लक्ष्यते ॥७३॥यतस्त्वद्दर्शनादेव ममात्मानंदभागभूत् ॥अन्विच्छँल्लभते क्वापि वर्षपूगैर्मनोरथम् ॥७४॥इत्येवं जनवादोऽपि संप्राप्तो मयि सत्यताम् ॥आजन्मसंचितानां तु पुण्यानामुदयोदये ॥७५॥यद्भवान्भवभीतानां त्राता नयनगोचरः ॥कस्माद्देशादिहायातो भवान्भवभयापहः ॥७६॥दूरभ्रमणविश्रांतं शंके त्वामिह चागतम् ॥दृष्ट्वाश्चर्यमिवात्यर्थं मुदितोसि मुखश्रिया ॥७७॥आनंदयसि मे चेतः प्रेम्णा संभाषणादिव ॥अद्य मे तव पादाब्जशरणस्य कृतैनसः ॥शांतिं कुरु महाभाग येनाहं सुखमाप्नुयाम् ॥७८॥इति तेन समादिष्टो गौतमः करुणानिधिः ॥समादिदेश घोराणामघानां साधु निष्कृतिम् ॥७९॥॥ गौतम उवाच ॥साधु राजेंद्र धन्योऽसि महा घेभ्यो भयं त्यज ॥८०॥शिवे त्रातरि भक्तानां क्व भयं शरणैषिणाम् ॥शृणु राजन्महाभाग क्षेत्रमन्यत्प्रतिष्ठितम् ॥८१॥महापातकसंहारि गोकर्णाख्यं मनोरमम्॥यत्र स्थितिर्न पापानां महद्भ्यो महतामपि ॥८२॥स्मृतो ह्यशेषपापघ्नो यत्र संनिहितः शिवः ॥यथा कैलासशिखरे यथा मंदारमूर्द्धनि ॥८३॥निवासो निश्चितः शंभोस्तथा गोकर्णमण्डले ॥नाग्निना न शशांकेन न ताराग्रहनायकैः ॥८४॥तमो निस्तीर्यते सम्य ग्यथा सवितृदर्शनात् ॥तथैव नेतरैस्तीर्थैर्न च क्षेत्रैर्मनोरमैः ॥८५॥सद्यः पापविशुद्धिः स्याद्यथा गोकर्णदर्शनात् ॥अपि पापशतं कृत्वा ब्रह्म हत्यादि मानवः ॥८६॥सकृत्प्रविश्य गोकर्णं न बिभेति ह्यघात्क्वचित् ॥तत्र सर्वे महात्मानस्तपसा शांतिमागताः ॥८७॥इन्द्रोपेंद्रविरिंच्याद्यैः सेव्यते सिद्धिकांक्षिभिः ॥तत्रैकेन दिनेनापि यत्कृतं व्रतमुत्तमम् ॥८८॥तदन्यत्राब्दलक्षेण कृतं भवति तत्समम् ॥यत्रेंद्रब्रह्मविष्ण्वादिदेवानां हितकाम्यया ॥८९॥महाबलाभिधानेन देवः संनिहितः स्वयम् ॥घोरेण तपसा लब्धं रावणाख्येन रक्षसा ॥९०॥तल्लिंगं स्थापयामास गोकर्णे गणनायकः ॥इन्द्रो ब्रह्मा मुकुन्दश्च विश्वेदेवा मरुद्गणाः ॥९१॥आदित्या वसवो दस्रौ शशांकश्च दिवाकरः ॥एते विमानगतयो देवास्ते सह पार्षदैः ॥९२॥पूर्वद्वारं निषेवन्ते देवदेवस्य शूलिनः ॥योन्यो मृत्युः स्वयं साक्षाच्चित्रगुप्तश्च पावकः ॥९३॥पितृभिः सह रुद्रैश्च दक्षिणद्वारमाश्रितः ॥वरुणः सरितां नाथो गंगादिसरितां गणैः ॥९४॥आसेवते महादेवं पश्चिमद्वारमाश्रितः ॥तथा वायुः कुबेरश्च देवेशी भद्रकर्णिका ॥९५॥मातृभिश्चंडिकाद्याभिरुत्तरद्वारमाश्रिता ॥विश्वावसुश्चित्ररथश्चित्रसेनो महाबलः ॥९६॥सह गन्धर्ववर्गैश्च पूजयंति महाबलम् ॥रंभा घृताची मेना च पूर्वचित्तिस्तिलोत्तमा ॥९७॥नृत्यंति पुरतः शम्भोरुर्वश्याद्याः सुरस्त्रियः ॥वशिष्ठः कश्यपः कण्वो विश्वामित्रो महा तपाः ॥९८॥जैमिनिश्च भरद्वाजो जाबालिः क्रतुरंगिराः ॥एते वयं च राजेंद्र सर्वे ब्रह्मर्षयोऽमलाः ॥९९॥देवं महाबलं भक्त्या समंतात्पर्यु पास्महे ॥मरीचिना सहात्रिश्च दक्षाद्याश्च मुनीश्वराः ॥१००॥सनकाद्या महात्मान उपविष्टा उपासते ॥तथैव मुनयः साध्या अजिनांबर धारिणः ॥१॥दंडिनो व्रतमुण्डाश्च स्नातका ब्रह्मचारिणः ॥त्वगस्थिमात्रावयवास्तपसा दग्धकिल्बिषाः ॥२॥सेवन्ते परया भक्त्या देवदेवं पिनाकिनम् ॥तथा देवाः सगन्धर्वाः पितरः सिद्धचारणाः ॥३॥विद्याधराः किंपुरुषाः किन्नरा गुह्यकाः खगाः ॥नागाः पिशाचा वेताला दैतेयाश्च महाबलाः ॥४॥नानाविभवसंपन्ना नानाभूषणवाहनाः ॥विमानैः सूर्यसंकाशैरग्निवर्णैः शशिप्रभैः ॥५॥विद्युत्पुंजनिभैरन्यैः समं तात्परिवारितम् ॥प्रस्तुवंति प्रगायंति पठंति प्रणमंति च ॥६॥प्रनृत्यंति प्रहृष्यंति गोकर्णे पृथिवीपते ॥लभंतेऽभीप्सितान्कामान्रमंते च यथा सुखम् ॥७॥गोकर्णसदृशं क्षेत्रं नास्ति ब्रह्मांडगोलके ॥तत्र घोरं तपस्तप्तमगस्त्येन महात्मना ॥८॥तथा सनत्कुमारेण प्रियव्रतसुतैरपि ॥अग्निना देववर्येण कन्दर्पेण च पार्थिव ॥९॥तथा देव्या भद्रकाल्या शिशुमारेण धीमता ॥दुर्मुखेन फणींद्रेण मणिनागाह्वयेन च ॥११०॥इलावर्तादिभिर्नागैर्गरुडेन बलीयसा ॥रक्षसा रावणेनापि कुम्भकर्णाह्वयेन तु ॥११॥विभीषणेन पुण्येन तपस्तप्तं महात्मना ॥एते चान्ये च गीर्वाणाः सिद्धदानवमानवाः ॥१२॥गोकर्णे देवदेवेशं शिवमाराध्य भक्तितः ॥स्वनामांकानि लिंगानि स्थापयित्वा सहस्रशः ॥१३॥लेभिरे परमां सिद्धिं तथा तीर्थानि चक्रिरे ॥अत्र स्थानानि सर्वेषां देवानां संति पार्थिव ॥१४॥विष्णोश्च देवदेवस्य ब्रह्मणः परमेष्ठिनः ॥कार्त्तिकेयस्य वीरस्य गजवक्त्रस्य चानघ ॥१५॥धर्मस्य क्षेत्रपालस्य दुर्गायाश्च महामते ॥गोकर्णे शिवलिंगानि विद्यंते कोटिकोटिशः ॥१६॥असंख्यातानि तीर्थानि तिष्ठंति च पदेपदे ॥बहुनात्र किमुक्तेन गोकर्णस्थानि पार्थिव ॥१७॥सर्वाण्यश्मानि लिंगानि तीर्थान्यंभांसि सर्वशः ॥गोकर्णे शिवलिंगानां तीर्थानामपि भूरिशः ॥१८॥गीयते महिमा राजन्पुराणेषु महर्षिभिः ॥गोकर्णे कोटितीर्थं च तीर्थानां मुख्यतां गतम् ॥१९॥सर्वेषां शिवलिंगानां सार्वभौमो महाबलः ॥कृते महाबलः श्वेतस्त्रेतायामतिलोहितः ॥१२०॥द्वापरे पीत वर्णश्च कलौ श्यामो भविष्यति ॥आक्रांतं सप्तपातालं कुर्वन्नपि महाबलः ॥२१॥प्राप्ते कलियुगे घोरे मृदुतामुपयास्यति ॥पश्चिमांबुधितीरस्थं गोकर्णक्षेत्रमुत्तमम् ॥२२॥ब्रह्महत्यादिपापानि दहतीति किमद्भुतम् ॥ये चात्र ब्रह्महंतारो ये च भूतद्रुहः शठाः ॥२३॥ये सर्वगुणहीनाश्च परदाररताश्च ये ॥ये दुर्वृत्ता दुराचारा दुःशीलाः कृपणाश्च ये ॥२४॥लुब्धाः क्रूराः खला मूढाः स्ते नाश्चैवातिकामिनः ॥ते सर्वे प्राप्य गोकर्णं स्नात्वा तीर्थजलेषु च ॥१२५॥देवं महाबलं दृष्ट्वा प्रयाताः शांकरं पदम् ॥तत्र पुण्यासु तिथिषु पुण्य र्क्षे पुण्यवासरे ॥२६॥येऽर्चयंति महेशानं ते रुद्राः स्युर्न संशयः ॥यदा कदाचिद्गोकर्णं यो वा को वापि मानवः ॥२७॥प्रविश्य पूजयेदीशं स गच्छेद्ब्रह्मणः पदम् ॥रवींदुसौम्यवारेषु यदा दर्शो भविष्यति ॥२८॥तदा जलनिधौ स्नानं दानं च पितृतर्पणम् ॥शिवपूजा जपो होमो व्रतचर्या द्विजार्चनम् ॥२९॥यत्किंचिद्वा कृतं कर्म तदनंतफलप्रदम् ॥व्यतीपातादियोगेषु रविसंक्रमणेषु च ॥१३०॥महाप्रदोषवेलासु शिव पूजा विमुक्तिदा ॥अथैकां ते प्रवक्ष्यामि तिथिं पार्थिव मुक्तिदाम् ॥३१॥यस्यां किल महाव्याधो लेभे शंभोः परं पदम् ॥माघमासे महापुण्या या सा कृष्णचतुर्दशी ॥३२॥शिवलिंगं बिल्वपत्रं दुर्लभं हि चतुष्टयम् ॥अहो बलवती माया यया शैवी महातिथिः ॥३३॥नोपोष्यते जनैर्मूढैर्महामूकैरिव त्रयी ॥उपवासो जागरणं सन्निधिः परमेशितुः ॥३४॥गोकर्णं शिवलोकस्य नृणां सोपानपद्धतिः ॥शृणु राजन्नहमपि गोकर्णा दधुनागतः ॥१३५॥उपास्यैनां शिवतिथिं विलोक्य च महोत्सवम् ॥अस्यां शिवतिथौ सर्वे महोत्सवदिदृक्षवः ॥३६॥आगताः सर्वदेशेभ्यश्चातुर्वर्णा महाजनाः ॥स्त्रियो वृद्धाश्च बालाश्च चतुराश्रमवासिनः ॥३७॥आगत्य दृष्ट्वा देवेशं लेभिरे कृतकृत्यताम् ॥अथाहमप्यमी शिष्या ऋषयश्च तथाऽपरे ॥३८॥राजर्षयश्च राजेंद्र सनकाद्याः सुरर्षयः ॥स्नात्वा सर्वेषु तीर्थेषु समुपास्य महाबलम् ॥३९॥लब्ध्वा च जन्मसाफल्यं प्रयाताः सर्वतोदिशम् ॥अमुनाद्य नरेंद्रेण जनकेन यियक्षुणा ॥१४०॥निमंत्रितोऽहं संप्राप्तो गोकर्णाच्छिवमंदिरात् ॥प्रत्यागमं किमप्यंग दृष्ट्वाश्चर्यमहं पथि ॥महानंदेन मनसा कृतार्थोऽस्मि महीपते ॥१४१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तर खंडे गोकर्णमहिमानुवर्णनंनाम द्वितीयोऽध्यायः ॥२॥ N/A References : N/A Last Updated : November 20, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP