संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः|
अस्त्रराजविधिपटलः

सुप्रभेदागमः - अस्त्रराजविधिपटलः

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


अथातः संप्रवक्ष्यामि अस्त्रराजस्य पूजनम् ।
चतुर्भुजं त्रिणेत्रञ्च शिखाकूटसमुज्वलम् ॥१॥

वामसव्ये च शूलन्तु वरदाभयहस्तकम् ।
रौद्रपाशुपतं ह्येवं बलिबिंबन्तथोच्यते ॥२॥

स्थानकञ्चासनं वापि प्रभावीं समन्वितम् ।
कृत्वैवं प्रतिमां तत्र पूर्वोक्तेन प्रमाणतः ॥३॥

जलस्थापनवत् सर्वं रत्नादिस्थापनान्तकम् ।
तन्मन्त्रेणैव संस्थाप्य अन्यत् सर्वं समं भवेत् ॥४॥

अस्त्रराजविधिः प्रोक्ता शास्त्रसंस्थापनं शृणु ।

इति अस्त्रराजविधिपटल द्विपञ्चाशत्तमः ॥५२॥

N/A

References : N/A
Last Updated : October 11, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP