सुप्रभेदागमः - सकलप्रतिष्ठाविधि पटलः
प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.
सकलानां प्रतिष्ठान्तु वक्ष्येहमधुना शृणु ।
मूर्तीनामिश्वरादीनां सामान्य स्थापनाविधिम् ॥१॥
द्वादश प्रतिमानान्तु सामान्यमिदमुत्तमम् ।
चलानाम चलानाञ्च सर्वेषां स्थापनं समम् ॥२॥
चलस्य तु शिलामृत्भ्यां शृणुमत् स्थापनाविधिम् ।
रत्नन्यासञ्जले वा संशयनन्तु प्रदक्षिणम् ॥३॥
चित्राभासे तु वर्ज्यं हि रत्नसेतु समाचरेत् ।
चित्राभासे तु कर्तव्यं दर्पणोपरियत्नतः ॥४॥
त्रिपाद्यूर्ध्वे जलद्रोण्यां स्रावयेद् दर्पणोपरि ।
जलाधिवासं स्नपनं नवमेव समाचरेत् ॥५॥
सकलानान्तु सर्वेषां सममेतद् भवेद्ध्रुवम् ।
कृत्वाङ्कुरार्पणं पूर्वं प्रागुक्तविधिना पुनः ॥६॥
प्रासादस्य पुरोभागे मण्डपे समलङ्कृते ।
स्थण्डिलन्तत्र कुर्वीत शालिभिर्विमलैस्तथा ॥७॥
गन्धपुष्पादिना पूज्य पद्मपीठस्य मध्यमे ।
न पापटानि कर्तव्यं रत्नानिविधिवं न्यसेत् ॥८॥
माणिक्कञ्चैव वैडूर्यं निलं मरतकं तथा ।
मौक्तिकञ्चैव गोमेदं वज्रं पुष्यं प्रवालकम् ॥९॥
एतानि हृदये नैव मध्यमादीनि विन्यसेत् ।
तिलमुद्गारनीपांश्च तिलं वै सर्षपं तथा ॥१०॥
श्यामं शालिकुलुत्थञ्च प्रियंगुनवबीजकम् ।
सुवर्णेन कृतञ्चेह बीजानिकवचेन तु ॥११॥
अञ्जनं हरितालञ्च श्यामञ्चैव मनः शिलाम् ।
पारतञ्चैव सौराष्टं सिद्धकं गैरिकं तथा ॥१२॥
स्थापकं शिवमन्त्रेण पीठोर्ध्वे पटमध्यमे ।
प्रतिमां तत्र संयोज्य सुस्निग्धं कारयेत् तथा ॥१३॥
ततः सिकत चूर्णैश्च कृत्वा गोचर्मपट्टिकैः ।
यथा निर्मलतां याति घर्षयेत् प्रतिमां ततः ॥१४॥
ततो क्षिमोचनार्थन्तु स्थण्डिले पूर्ववत् कृते ।
बिंबं विन्यस्य तस्योर्ध्वे पटेनमहता वृते ॥१५॥
अभितः कलशानष्टौ कूर्चाक्षत सपुष्पकान् ।
विन्यस्य तेषु दिक्पालान् समभ्यर्च्य यथा विधि ॥१६॥
आचार्यः शिल्पिनासार्धं नेत्रमन्त्रमनुस्मरन् ।
हेम सूचि प्रहाराभ्यां शैलजे लोहजे तथा ॥१७॥
वर्णयत्नन्तु संलिख्य चित्राभासे तु मृण्मये ।
भ्रूरेखां प्रतिमां कृत्वा पक्ष्मरेखा त्रितीयकम् ॥१८॥
श्वेतमण्डलमालिख्य तन्मध्ये कृष्णमण्डलम् ।
कृष्णस्याभ्यन्तरे विद्वान् ज्योतिर्मण्डलमालिखेत् ॥१९॥
सुव्यक्तं शिल्पिनाकार्यं नेत्रे मन्त्रं जपेत् गुरुः ।
स्थापकं स्थपतिं पूज्य वस्त्रसौवर्णभूषणैः ॥२०॥
संपूज्यतोषयित्वा तु कृत्वा शिल्पि विसर्जनम् ।
मध्वाज्याभ्यान्तु सन्तर्प्य सौवर्णेन तु दूर्वया ॥२१॥
नेत्राणि नेत्र मन्त्रेण क्षीरेणैवं समाचरेत् ।
पात्रत्रयन्तु संग्राह्य ताम्रजं कांसमेव वा ॥२२॥
तेषु क्षीराज्यमधुभिः सौवर्णं राजतैः सह ।
पात्राण्यापूर्यतैरैव प्रत्येकं प्रस्थमानतः ॥२३॥
मधुनादक्षिणे नेत्रे दर्शयेत् भास्करात्मके ।
सर्पिषागविवामे तु चंद्रात्मकमितः स्मरन् ॥२४॥
पयसाचोर्ध्व नेत्रे तु दर्शयेदनलात्मकम् ।
तत्तन्मन्त्राण्यनु स्मृत्यतैस्तु संप्रोक्षयेत् गुरुः ॥२५॥
सौवर्णेन खयुक्तास्तु मध्यतर्जन्यनामिकाः ।
तर्जनीदक्षिणे चोर्द्ध्वे मध्यमा नामिकान्यके ॥२६॥
संयोज्य हृदयाद्यैश्च सिच्यगन्धांबुना ततः ।
पृच्छन्नपटमावर्ज्य सुपुष्टाङ्गांसु यौवनाम् ॥२७॥
गोधेनुहव्यमन्त्रेण दुग्ध्वाक्षीरांसवत्सकाम् ।
गांसमभ्यर्च्य सावित्र्या दर्शयेत् तु विचक्षणः ॥२८॥
दर्शयेत् तु द्विजान् पश्चात् द्विजानन्यान्विशेषतः ।
एवं सकलं बिंबानां सममेतत् प्रकीर्तितम् ॥२९॥
येन तस्य विशुद्धिः स्यात् तेन तस्य विशोधयेत् ।
सर्वालंकार संयुक्तं कृत्वाग्रामप्रदक्षिणम् ॥३०॥
जलाधिवासनं कुर्यात् कण्ठमात्रे जलेशुभे ।
चतुष्पादसमायुक्ते वितानध्वज संयुते ॥३१॥
दर्भमालासमायुक्ते प्रपायाञ्जलमध्यमे ।
वस्त्रयुग्मपरिच्छन्नं दर्भैः पुष्पैश्च वेष्टितम् ॥३२॥
पीठे वा फलकायां वा प्राक्च्छिरस्कं सुशाययेत् ।
पञ्चरात्रं त्रिरात्रं वा चैकरात्रमथापि वा ॥३३॥
ततो मण्डपसंस्कारं यथा विभवविस्तरम् ।
पूर्वे वा दक्षिणे वापि पश्चिमे वाम मनोरमे ॥३४॥
दशभादशहस्तं वा षोडश स्तंभसंयुतम् ।
चतुर्द्वारसमायुक्तञ्चतुस्तोरणभूषितम् ॥३५॥
दर्भमालासमायुक्तं पुष्पमालावलंबितम् ।
वितानोपरि सच्छन्नमष्टदिग्ध्वजलंबितम् ॥३६॥
मङ्कलांकुर संयुक्तं मुक्तादामैर्विभूषितम् ।
मण्डपेन वकोष्ठे तु मध्यभागे विशेषतः ॥३७॥
उपवेदीं तु कर्तव्या तालोच्छ्रायासुविस्तृता ।
आलयाभ्यन्तरे वेदीं कारयेत् सुदृढांशुभाम् ॥३८॥
हस्तमात्रसमुत्सेधां दर्पणोदरसन्निभाम् ।
अष्टदिक्षु च कुण्डानि कारयेत् सुप्रमाणतः ॥३९॥
पूर्वे तु चतुरश्रन्तु वह्निपिप्पलपत्रवत् ।
अर्धचन्द्रं तु याम्यायां नै-ऋत्यान्तु त्रिकोणकम् ॥४०॥
वृत्तन्तु वारुणे भागे षडश्रं वायुगोचरे ।
पद्मञ्चैवोत्तरेभागे ऐशान्यामष्टकोणकम् ॥४१॥
ईशान ऐन्द्रयोर्मध्ये वृत्तकुण्डन्तु कारयेत् ।
मण्डपस्योत्तरे भागे स्नानमण्डपमेव वा ॥४२॥
स्नानवेदीन्तु तन्मध्ये त्रिद्व्येककरसम्मिताम् ।
हस्तमात्रसमुत्सेधां सुसमां सुदृढां शिवाम् ॥४३॥
त्रिमेखला समायुक्तां भूताब्ध्यग्न्यङ्गुलैर्मिताम् ।
अथवाष्टाङ्गुला भद्रामेखलैका समन्विता ॥४४॥
गोमयालेपनं कृत्वा शोषणं पावनं तथा ।
ब्रह्मणान् भोजयित्वा तु वास्तुहोममतः परम् ॥४५॥
पर्यग्निकरणं कृत्वा प्रासादं यागमण्डपम् ।
पुण्याहं तत्र कर्तव्यं प्रोक्षयेत् पञ्चगव्यकैः ॥४६॥
शयनं कल्पयेद्विद्वान् वेदिकोपरिशालिभिः ।
अष्टद्रोणैस्तदर्धैर्वा तदर्धै स्तण्डिलैस्तथा ॥४७॥
तन्मध्येऽष्टदलं पद्मं तण्डुलेन तु कारयेत् ।
अण्डजाद्यैस्तु संकल्प्य यत्नतो पर्युपर्युतः ॥४८॥
अलाभे चाण्डजादीनां वस्त्रैपञ्चभिरास्तरेत् ।
तदूर्ध्वे नवशक्तिस्तु इच्छाज्ञानक्रिया अपि ॥४९॥
गन्धपुष्पादिना पूज्यमङ्गलांकुर शोभितम् ।
जलात् बिंबं समुत्थाप्य पञ्चगव्योषितं तथा ॥५०॥
एकरात्रं तु कर्तव्यमथवा स्नापयेत् तु वै ।
स्नानवेद्यास्तु तन्मध्ये संस्थाप्य प्रतिमां ततः ॥५१॥
अष्टमृत् सलिले नैव स्नात्वाभ्यर्च्य हृदाबुधः ।
घृतः शिरोर्पणं कृत्वा साक्षितः हेमदूर्वया ॥५२॥
सौवर्णं रजतं वापि हृदयेन तु मन्त्रतः ।
कौतुकं दक्षिणे हस्ते बन्धयेद्रक्षयान्वितम् ॥५३॥
गन्धाद्यैश्चैव संपूज्य नीत्वा वैवेदिकोपरि ।
पश्चिमाभिमुखं देवं संयजेद्धृदयेन तु ॥५४॥
शयने शाययेद् देवं प्राक्च्छिरस्कं मुखोर्ध्वकम् ।
ईश्वर प्रतिमाञ्चेतु श्क्तिञ्च सहवामतः ॥५५॥
रत्नन्यासादिकर्माणि सहैवात्र समाचरेत् ।
अन्यानि प्रतिमानि ह युक्तायुक्तं सुबुद्धिमान् ॥५६॥
उत्तराच्छादनं कृत्वा वस्त्रैर्दर्भैस्तु पुष्पकैः ।
विद्येशकलशानष्टौ वज्राद्यस्त्रान् सहैमकान् ॥५७॥
वस्त्रयुग्मपरिच्छन्नान् सकूर्चान् सा पिधानकान् ।
तत्तन्मन्त्रेण बिंबस्य परितोष्टसुदिक्षु च ॥५८॥
संस्थाप्य बिंबशिरसच्छैशाने कुंभकेनकम् ।
षोडशावृत संपूर्णं बिंबप्रभसमन्वितम् ॥५९॥
प्त्रिसूत्रैर्वेष्टयित्वा तु सूत्रान् सूत्रान्तरं यवम् ।
पञ्चरत्न समायुक्तं शुद्धांबुपरिपूरितम् ॥६०॥
सचूतपल्लवोपेतं सकूर्चं सा पिधानकम् ।
वस्त्रयुग्मेन संवेष्ट्य स्थण्डिलोपरि विन्यसेत् ॥६१॥
विप्राणान्तु हितार्थन्तु यज्ञसूत्रञ्च सृक्स्रवम् ।
क्षत्रियाणां हितार्थन्तु गजवाजिरथान् बुधः ॥६२॥
तुलाञ्चमानपात्राणि वैश्यानान्तु हिताय वै ।
शूद्राणान्तु हितार्थन्तु वृषलांगलसंयुतम् ॥६३॥
कृत्वैतानि सुवर्णेन षडंगैस्तु विनिक्षिपेत् ।
यद्रूपं प्रतिमं स्थाप्यं तत्तद्रूपस्य भावयेत् ॥६४॥
कुंभमध्ये तु संस्थाप्य तस्य मूलमनुस्मरन् ।
षड्विधं ध्यानमावाह्यतानि संकल्प्य तच्छिवे ॥६५॥
पूर्वोक्तेनैव मार्गेण मन्त्रन्यासन्तु कारयेत् ।
पूजयेत् गन्धपुष्पाद्यैर्हृदयेन विचक्षणः ॥६६॥
वर्धनीं बीजमुख्येन तद्वत्संस्थाप्य वामके ।
अभितश्चोपवेद्यान्तु संस्थाप्यकलशाष्टकान् ॥६७॥
वस्त्रकूर्चाक्षतो पेतान् ससूत्रान् पल्लवान्वितान् ।
हेमवज्रादिको पेतान् लोकपालाधिदेवतान् ॥६८॥
संपूज्य स्वस्वमन्त्रेण द्वारकुंभांस्तु विन्यसेत् ।
अष्टमङ्गलरूपाणि वेदिकायास्तु बाह्यतः ॥६९॥
संस्थाप्य स्वस्वनाम्नार्च्य ततो होमं समाचरेत् ।
कृत्वा चाध्ययनं दिक्षु ऋग्यजुः सामधर्वकैः ॥७०॥
नवपञ्चत्रयं वापि एकाग्निरथवा पुनः ।
प्राग्याम्येन्दुषु कुण्डेषु त्रेताग्निं सम्यगाचरेत् ॥७१॥
सदाशिवेश्वरौ रुद्रः क्रमात् कुण्डाधिपाः स्मृताः ।
त्रयोवैकाग्निके विद्वाञ्छिवाग्निं पूर्वतो हुनेत् ॥७२॥
शिवाग्निं प्रथमं हुत्वा मूर्तिहोमं ततः परम् ।
शिवाद्यवनिपर्यन्तं ध्यात्वा सर्वगतं प्रभुम् ॥७३॥
तत्तद्रूपान् स्वमात्मानं स्मृत्वाग्निं संयजेत् बुधः ।
आदित्यः पूर्वतोमूर्तिर्भव स्त्रिमूर्तिधारकः ॥७४॥
आग्नेय्यामग्निमूर्तिस्तु धारकः शर्व उच्यते ।
मूर्तिधारः पशुपतिः पृथिवीमूर्तिदक्षिणे ॥७५॥
आकाशे नै-ऋते मूर्तिरुद्रस्तन्मूर्तिधारकः ।
आपोवरुणदिक्भागे रुद्रोनामसुधारकः ॥७६॥
वायुर्वै वायुदिग्भागे भीमा वै मूर्तिधारकः ।
उत्तरे सोममूर्तिस्तु महान्यै मूर्तिधारकः ॥७७॥
मूर्तिधारस्तथेशस्तु आत्मानं मूर्तिरेव च ।
एवं विधान तस्त्वष्टमूर्तयोमूर्तिधारकाः ॥७८॥
प्रधानस्य शिवः प्रोक्तस्तत्तद् ध्यानपरायणः ।
प्राग्वदग्निमुखं कृत्वा पश्चात् द्रव्यैस्तु होमयेत् ॥७९॥
काष्ठाज्य समिदन्नादिलाजासक्तु तिलानि च ।
यवसिद्धार्थ मुद्गानि मधुनैकादशानि च ॥८०॥
तूष्णीन्तदिन्धनं कृत्वा मूले नैव घृताहुतिः ।
समिधं बीजमुख्येन चरुसद्येन होमयेत् ॥८१॥
लाजा हृदय मन्त्रेण सक्तुञ्च शिरसापुनः ।
शिखया तु तिलं हुत्वा यवान्वैक वचेन तु ॥८२॥
सिद्धार्थं बहुरूपेण मुद्गमस्त्रेण चैव हि ।
नेत्रेण मधुहोतव्यं जुहुयाद् व्याहृतिं ततः ॥८३॥
पलाशसमिधं पूर्वे आग्नेय्यास्तु वै कंकतम् ।
वटं याम्ये तु विज्ञेयं अश्वत्थन्नि-ऋतौ तथा ॥८४॥
प्लक्षन्तु वारुणे गाभे चौदुंबरन्तु वायवे ।
अर्का वै सौम्यदिक्भागे बिल्वमिशानगोचरे ॥८५॥
इन्द्र ईशानयोर्मध्ये पलाशसमिधं भवेत् ।
द्रव्यं प्रतिसहस्रं वा तदर्धं वार्धमेव वा ॥८६॥
अष्टोत्तरशतं वापि पञ्चाशत् पञ्चविंशती ।
षोडशा हुतिकं वापि द्रव्यं प्रतिसमाचरेत् ॥८७॥
ब्रह्माङ्गैरेव हुत्वा तु तत्तत्स्थाने च संस्पृशेत् ।
तदन्ते व्याहृतिं हुत्वानिद्रां रात्रौ तु वर्जयेत् ॥८८॥
प्रभाते विमले विद्वान् प्रतिष्ठालग्नपूर्वके ।
आचार्यं पूजयेत् पूर्वं वस्त्राङ्गुलीयकादिभिः ॥८९॥
हेमपुष्पोपवीतञ्च कुण्डलं कटकं तथा ।
दासीं दासांश्च गाभूमिमाचार्याय प्रदापयेत् ॥९०॥
कन्यसं दशनिष्कञ्च द्विगुणं त्रिगुणं तथा ।
दक्षिणां कन्यसादीनि देशिकस्य विधीयते ॥९१॥
प्रत्येकं मूर्तिपान् पूज्यदेशिकस्याष्टभागतः ।
दैववज्ञं वास्तुहोतारं मूर्तिपान् त्रिगुणेन वै ॥९२॥
मूर्तिपस्य त्रिपादेन तद्ध्येतृंश्च पृथक् पृथक् ।
तेषां हेमाङ्गुलीयञ्च वस्त्रयुग्मञ्च दापयेत् ॥९३॥
भक्तानां परिचाराणां दापयित्वा स्वशक्तितः ।
दीनान्ध कृपणानाञ्च अन्नपानादि दापयेत् ॥९४॥
दद्यात् पूर्णाहुतिं सर्वैर्मन्त्रैर्वेदशतात्मना ।
होमोपरीष्टतंत्रञ्च कुर्यात् सर्वे यथा क्रमत् ॥९५॥
किञ्चित् पूर्वमुहूर्तस्य उत्थाप्यशयनाच्छिवम् ।
संपूज्यगन्धपुष्पाद्यैः शङ्खदुन्दुभिनिस्वनैः ॥९६॥
सर्वालङ्कारसंयुक्तं मन्त्रन्यासमथारभेत् ।
शिवकुंभं समुद्धृत्य वर्द्धनीन्तु शिवाग्रतः ॥९७॥
विन्यस्त्वार्घ्यन्तु दत्वाथ सकलीकृतविग्रहः ।
ध्यात्वा तद्रूपमग्न्यस्थं प्रतिमायां सुयोजयेत् ॥९८॥
शक्तिं वै वामपार्श्वे तु विन्यसेत् बीजमूख्यकैः ।
कुम्भात्तत्वं तथा बिंबे संयोज्याङ्गानि विन्यसेत् ॥९९॥
शिवाख्योमाख्य विद्येश कुंभैरत्राभिषेचयेत् ।
तदन्ते स्नपनं कृत्वा हविष्यन्तु महद्भवेत् ॥१००॥
उत्सवन्तत्र कर्त्व्यं प्रागुक्तविधिना ततः ।
ईश्वर प्रतिमाण्येवमुत्सवार्थं प्रकीर्तितम् ॥१०१॥
द्वादश प्रतिमा प्रोक्तास्तथा चोत्सवकर्मणि ।
देशकाल स्वरूपान्यत् समानं सर्वमेव हि ॥१०२॥
अर्चनादि क्रमान् सर्वान् शिववत् कल्पयेत् क्रमात् ।
सर्वेषामन्य देवानां तत्र तद्विधिचोदितम् ॥१०३॥
तथा स्वरूपमेवं स्यात् स्वस्वनामादिमन्त्रतः ।
सर्वेषां स्थापनान्ते तु स्नपनञ्चोत्सवं कुरु ॥१०४॥
सकलस्थापनं प्रोक्तं तेषां संप्रोक्षणं शृणु ।
वेदिकायां शिवोमाख्य विद्येशकलशान् बुधः ॥१०५॥
विन्यसेदुपवेद्यान्तु लोकपालाख्य कुंभकान् ।
वस्त्राणि हेमरूपाणि प्रक्षिपेत् पूर्ववत् सुधीः ॥१०६॥
रत्नादिशयनान्तञ्च वितानैर्बिंबकर्मणि ।
वस्त्रैराच्छाद्य तत्बिंबं होमं पूर्ववदाचरेत् ॥१०७॥
स्नपनं वायुदिक्भागे अन्यत्सर्वं समानकम् ।
योगोपयोगद्रव्याणि आचार्यायप्रदापयेत् ॥१०८॥
सकलस्थापनं ह्येवं शक्तिसंस्थापनं शृणु ।
इति सकल प्रतिष्ठाविधिपटलः सप्तत्रिंशत्तमः ॥३७॥
N/A
References : N/A
Last Updated : October 11, 2022
TOP