संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः| विघ्नेशस्थापनविधिपटलः क्रियापदः प्रश्नविधिपटलः तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः स्नान पटलः भस्मस्नान पटलः अर्चनाङ्ग पटलः शिवार्चनविधि पटलः मुद्रालक्षण पटलः हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः अग्निकार्यविधि पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् सकलप्रतिष्ठाविधि पटलः शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः आदित्यस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः सुप्रभेदागमः - विघ्नेशस्थापनविधिपटलः प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : sanskritsuprabhedamसंस्कृतसुप्रभेदम् विघ्नेशस्थापनविधिपटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि विघ्नेशस्थापनं परम् ।आदौ त्वहमुमासार्धं क्रीडार्थं हिमवद्वने ॥१॥करेणुश्च गजेन्द्रेण संभोगमकरोत्ततः ।यदृच्छया तु तन्दृष्ट्वा तदा कारमगामहम् ॥२॥करेण्वराकृतिञ्चोमां तदा क्रीडमहं भृशम् ।तस्यान्तु गर्भमदधात् तस्मिन्काले तपोभवेत् ॥३॥महेश्वरसहस्रांशाद् दशांशं तत्तद्रूपकम् ।एकोनविंशत्यर्णेन भान्तं वह्निसमायुतम् ॥४॥मनुस्त्रयो दशान्तञ्च बिन्दुनादसमन्वितम् ।मूलमन्त्रमिदं ख्यातं विघ्नेशस्य महात्मनः ॥५॥द्वितीयस्य तृतीयेन एकमात्रस्वरान्वितम् ।ब्रह्मजज्ञन्तु विख्यातं षडंगं दीपसंयुतम् ॥६॥अङ्गान्ते सविसर्गोत्र शेषस्तु स्वरसंयुतम् ।आखुध्वजाय विद्महे इत्युक्त्वा तत्तदागुरुः ॥७॥दन्तिहस्ताय धीमहे तन्नोदन्तिः प्रचोदयात् ।फलदक्षिणहस्ते तु वमहस्ते स्वशृङ्गकम् ॥८॥पाशाङ्कुशोर्ध्व हस्ते तु गजहस्ते तु लड्डुकम् ।करण्डमकुटं प्रोक्तं सर्वाभरणभूषितम् ॥९॥शिरश्चक्रप्रभां कृत्वा पद्मपीठोपपरि स्थितम् ।डाडिमी पुष्पसंकाशं सर्वाभरणभूषितम् ॥१०॥आसनं स्थानकं वापि कारयेद् विघ्ननायकम् ।पञ्चतालप्रमाणेनमानेनोक्त प्रमाणकम् ॥११॥तन्मानं नवधा कृत्वा मुखमानं द्विभागतः ।मेढ्रतन्तु चतुर्भागमुलूकातमिति स्मृतम् ॥१२॥जान्वन्तमेकभागेन नलकान्तं तदा भवेत् ।चरणञ्चानुकर्णञ्च भागेनैकेन बुद्धिमान् ॥१३॥वाग्वायाम द्विभागन्तु मणिबन्धान्तकं यथा ।हस्तायामाष्टतालैक हीनं तस्य प्रकोष्टकम् ॥१४॥हस्तादप्यर्धमायामं गजहस्तस्य कीर्तितम् ।कर्णोत्तुङ्गन्तथैकांशं तत्पादोनं सुविस्मृतम् ॥१५॥कर्णतारोर्ध्वमानेन दन्तायाममिहोच्यते ।नवाङ्गुलानि सर्वं तत्पूर्वोक्तेन प्रमाणतः ॥१६॥एवन्तु कथितं प्रोक्तं स्थापनञ्च शृणुष्व हि ।कृत्वालयं तु पूर्वोक्तं प्रथमञ्चाथ बुद्धिमान् ॥१७॥प्रासादस्याग्रतः कुर्यात् मण्डपञ्चतुरश्रकम् ।सर्वलक्षणसंयुक्ता वेदिका तस्य मध्यमे ॥१८॥विस्तारस्य त्रिभागैकं वेदिविस्तारमात्र वै ।जानुमात्रन्तमुत्सेधं कुण्डानि परितः क्रमात् ॥१९॥रत्नन्यासं ततः कृत्वा जले चैवाधिवासयेत् ।नेत्राणि नेत्रमन्त्रेण मोचयेत् तु यथा विधि ॥२०॥वस्त्रैरास्तीर्यशयनं शाययेच्छयनोपरि ।सर्वलक्षणसंयुक्तं सूत्रेणैव तु वेष्टितम् ॥२१॥सकूर्चं सा पिधानाञ्च सवस्त्रंवारिपूरितम् ।सहिरण्यं न्यसेत् कुंभं गन्धपुष्पादिनार्चयेत् ॥२२॥तद्रूपं मूलमन्त्रेण प्रत्यङ्गमंगसंयुतम् ।ध्यात्वा कुम्भे तु विन्यस्य स्वापमुद्रां प्रदर्शयेत् ॥२३॥आवृतान् कलशानष्टौ लोकपालादिकान् क्रमात् ।पच्छाद्धोमन्तु कर्तव्यं नवपञ्चत्रयैककम् ॥२४॥समिदाज्यं चरुंलाजान् सकूर्चं सर्षपं तथा ।लड्डुकं गुलखण्डञ्च फलंक्षीरं तथैव च ॥२५॥शिवाग्निं पूर्ववद्ध्यात्वा गणेशं वह्निमध्यमे ।विघ्नगायत्रि मन्त्रेण सर्वद्रव्याणिहोमयेत् ॥२६॥स्पर्शाहुतिं ततः कृत्वा तन्मन्त्रेणैव देशिकः ।पूर्णाहुतिं ततो हुत्वा मूलमन्त्रं समुच्चरेत् ॥२७॥कलशस्थं यथा तत्वं प्रतिमायां तु विन्यसेत् ।कलशैस्नाप्य विघ्नेशं गन्धपुष्पादिभिः सह ॥२८॥गुलोदनं तु हविषं फलयुक्तं निवेदयेत् ।कर्तव्यमुत्सवं तन्त्र कर्मवित्तानुसारतः ॥२९॥त वै तत्स्थापनं प्रोक्तं स्कन्दस्य स्थापनं शृणु ।इति गणेशस्थापनविधिपटलस्त्रिचत्वारिंशत्तमः ॥४३॥ N/A References : N/A Last Updated : October 11, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP