संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः| प्रासादवास्तु लक्षणपटलः क्रियापदः प्रश्नविधिपटलः तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः स्नान पटलः भस्मस्नान पटलः अर्चनाङ्ग पटलः शिवार्चनविधि पटलः मुद्रालक्षण पटलः हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः अग्निकार्यविधि पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् सकलप्रतिष्ठाविधि पटलः शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः आदित्यस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः क्रियापदः - प्रासादवास्तु लक्षणपटलः सुप्रभेदागमः Tags : sanskritsuprabhedamसंस्कृतसुप्रभेदम् प्रासादवास्तु लक्षणपटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि प्रासादवास्तु लक्षणम् ।मूलस्थानन्तु संशोध्य वास्तु रूपं प्रकल्पयेत् ॥१॥पुण्याहं वाचयित्वा तु प्रोक्षयित्वा शिवाम्भसा ।पुष्पादिभिरथाभ्यर्च्य वास्तु देवान् स्वनामकैः ॥२॥यदङ्गं संस्पृशेत् कर्ता पूजान्ते तन्निरीक्षयेत् ।तत्रैव वास्तु देहेपि ब्रूयाच्छल्यं यथार्थतः ॥३॥शिरस्पर्शात् तु तत्रैव अस्थिशल्यङ्करद्वयात् ।हस्तमात्रे मुखस्पर्शात् काष्ठपृष्ठे गलेद्धृवम् ॥४॥कण्ठस्पर्शे गलेत्वस्थि त्रिकरे शृंखलं विदुः ।त्रिभिर्हस्तैरुरस्पर्शात् भवेच्छल्यन्तु शृंखलम् ॥५॥करस्पर्शात् करान्ते तु खट्गापातं समादिशेत् ।बाहुसंस्पर्शनात् कर्तुरङ्गारस्तु त्रिहस्ततः ॥६॥अश्वपादं विनिर्दिष्टङ्गुल्फे पदप्रमाणतः ।कणकं पादसंस्पर्शात् सवितस्तिप्रमाणतः ॥७॥कनिष्ठाङ्गुष्ठयोः स्पर्शात् कराद्धेकां शमुच्यते ।लोहशल्यं कटिस्पर्शात् तत् करद्वयमानतः ॥८॥जानुसंस्पर्शनाद्धस्तेनापितोपस्करं तथा ।भुमिष्ठं शल्यमुद्वास्य तत् प्रदेशं खनेत् ततः ॥९॥यावत् प्रासादविस्तारं तत् समं वा तदर्द्धकम् ।अर्धाधिकमथाध्यर्धं खात्वा प्रासादमानतः ॥१०॥अवटस्य चतुर्थांशन्त्र्यंशं वा वालुकैः समम् ।अश्वेभपादमुसलैर्मुत्गरैस्तु घनं कृतम् ॥११॥समं कृत्वा ततः पश्चात् प्रोक्षयित्वा शिवास्त्रतः ।पञ्चगव्येन संसिच्य पवमानमुदीरयन् ॥१२॥वास्तु विन्यासमार्गन्तु दशसूत्रेण देशिकः ।एकाशीति पदं वास्तु सर्वसंपत्करन्नृणाम् ॥१३॥असुराणां हितार्थन्तु शुक्रः कृत्वा महातपः ।महातपसिसंभूतो भूताकारोमहाबलः ॥१४॥अप्रयुक्तस्ततो भूतो देवैर्युद्धं प्रवर्तते ।नहतेस्त्रादिभिर्ज्ञात्वा देवैः सुनिहितः कृतम् ॥१५॥भूम्यामथोमुखस्तत्र * * * * * संस्थिताः ।वंशौद्वौ तत्र विज्ञेयौ चतुष्कोणेषु संस्थितौ ॥१६॥पार्श्ववं शोर्ध्वपाशाश्च त्वष्टौ चैव प्रकीर्तिताः ।पूत्वोत्तरमुखारज्जुरूर्ध्वं वंशमिति स्मृतम् ॥१७॥शिरोमर्माणितान्याहुः कोणपार्श्वे तथाष्टसु ।सूत्राणीह सिराज्ञेया तत्सन्धौ सन्धिरुच्यते ॥१८॥पदे चैक तु षट्भागे तत् तत् षट्कस्तु चोच्यते ।पदे चतुर्थभागन्तु तच्चतुष्कमितिरीतम् ॥१९॥रज्वग्रसंस्थितं यत् तत् केवलं मर्म उच्यते ।वास्तु मध्ये भवेत् पद्मं पदमेकाष्टभाजितम् ॥२०॥कोणात् त्रिशूलं स्यात् पादं पादार्धं करसंपुटम् ।एषान्तु पीडने दोषा बहवः परिकीर्तिताः ॥२१॥सिराश्च सीरं मर्माणि नश्यन्ति स्थान वासिनः ।मित्रनाशन्तु सन्धौ तु षट्के वै रंसमन्ततः ॥२२॥चतुष्के वाहनक्षयं मरणं मर्मसु क्रमात् ।पद्मस्थाने विनाशन्तु त्रिशूले गर्भनाशनम् ॥२३॥गोधनस्य विनाशं स्यात् करसंपुटपीडने ।वास्तु देवां यथा स्थाप्य ईशानादी न शेषतः ॥२४॥ईशानश्चाथ पर्जन्यो जयन्तोथमहेन्द्रकः ।आदित्यः सत्यकं शावन्तरिक्षश्च पूर्वगाः ॥२५॥अग्निः पूषा च वितथो ग्रहक्षतयमौ तथा ।गन्धर्वो भृङ्गराजश्च मृगश्चैव तु दक्षिणे ॥२६॥नि-ऋतिर्दौ वारिकश्चैव सुग्रीवः पुष्पदन्तकः ।वारुणो रोगशोषौ च पापयक्ष्मा च पश्चिमे ॥२७॥वायुर्नागस्तथा मुख्यो भल्लाटः सोम एव च ।ऋगोदितिर्दिदिश्चैव द्वात्रिंशत् बाह्यदेवताः ॥२८॥एकमेकं पदं भुक्त्वा श्मशानाद्याः सुसंस्थिताः ।ब्रह्मा नवपदान् भुंक्ते वास्तु मध्ये विशेषतः ॥२९॥समरीकस्तथैन्द्रे तु विवस्वांश्चैव दक्षिणे ।मित्रश्च पश्चिमे भागे ह्युत्तरे पृथिवीधरः ॥३०॥ब्रह्मणश्च चतुर्दिक्षु स्थिताः षट्पदभोगिनः ।आपश्चैवा पवत्सश्च ऐशान्न्यां दिशिसंस्थितौ ॥३१॥शुनासीरश्च सावित्र आग्नेय्यां दिशिसंश्थितौ ।इंद्र इंद्र जयश्चैव नै-ऋत्यां दिऽसिसंस्थितौ ॥३२॥रुद्र रुद्र जयौवायौ चतुष्कोणे प्रकीर्तिताः ।एते द्विपदभोक्तारो द्व्यर्धमेव पदस्मृतः ॥३३॥चरकी च वितारी च पूतनापापराक्षसी ।ईशानादिषु कोणेषु बाह्यस्थाः पदवर्जिताः ॥३४॥एवं विन्यस्य पूर्वे तु वास्तुदेहं प्रकल्पयेत् ।यत् किञ्चिद्वास्तु विन्यासं तत् सर्वं वास्तु रूपकम् ॥३५॥ईशानेकन्तु विन्यस्त्वा वापौ नै-ऋतगोचरे ।अग्निवाय्वोश्च दिक्भागे जानुकूर्परसंस्थितौ ॥३६॥लिङ्गमिन्द्र पदेन्यस्त्वा पादौ नै-ऋति विन्यसेत् ।मरीचिश्चोदरस्थाने स्तनौ विन्यस्य बुद्धिमान् ॥३७॥विवस्वति च मित्रे च विन्यसे अकुक्षिपार्श्वके ।ऊरुहस्त तलौ चैव साविते स्थापयेत् ततः ॥३८॥ऊरुप्रकोष्ठ मध्ये च पादौ सवितरि न्यसेत् ।रुद्ररुद्रजयौ चैव विन्यसेत् पूर्ववच्छुभम् ॥३९॥महेन्द्राद्यन्तरिक्षान्ता बाहुमध्ये स्थिता स्मृताः ।सुजानुकूर्परे चैव ह्यग्नौ विन्यस्य बुद्धिमान् ॥४०॥पूषादिमृगपर्यन्तञ्जंघाञ्च विनिवेशयेत् ।दौवारिपापयक्ष्मान्ते चान्यजंघा विनिश्चिताः ॥४१॥वायौ कूर्परजानूच्चं ऋगान्तं बाहु संस्थितम् ।शेते त्वधोमुखो वास्तु देवः प्राच्यभुवं प्रति ॥४२॥उग्रः सुभीषणो यस्मात् तस्मात् पूज्यं क्रियार्थिभिः ।पुण्याहं वाचयित्वा तु प्रोक्षयेत् पञ्चगव्यकैः ॥४३॥गन्धपुष्पादिभिर्धूपैर्वास्तु देवान् प्रपूजयेत् ।ईशानं पूजयेत् पूर्वं घृतेना क्षतमिश्रितम् ॥४४॥पर्जन्याय विशेषेण दद्यान्निलोत्पलादिकम् ।जयन्तस्य पताकान्तु नीलवर्णां विशेषतः ॥४५॥महेन्द्रस्य तु रत्नानि भास्करस्य वितानकम् ।गोधूममण्डकान् सत्ये दद्यान्मत्स्यंभ्रशस्य तु ॥४६॥दद्यात् तु शाकुनं मांसमन्तरिक्षाय देशिकः ।अग्नये तु स्रवं दद्याल्लाजं पूष्णे तथैव च ॥४७॥क्षीरान्नं वितथस्योक्तं मध्वन्नं हि ग्रहक्ष्ते ।मांसोदनं यमस्याथ गन्धं गन्धर्वकस्य तु ॥४८॥भृंगे तु शाकुनाजिह्वा मृगेयवतिलस्तथा ।कृसरं त्वथपित्रे तु दन्तकाष्ठञ्च दौव्रके ॥४९॥यावन्त्वथ च सुग्रीवे कुशान्वै पुष्पदन्तके ।दवापद्मन्तु वरुणे रोगस्यमधु चैव हि ॥५०॥घृतोदनन्तु शोषस्य यवान्वैपापयक्ष्मणि ।घ्ताक्तमण्डकं दद्याद्रोगाय तु विशेषतः ॥५१॥नागपुष्पाणि नागाय मुख्यस्या पूपमुच्यते ।मुद्गान्नञ्चैव भल्लाटे पायसं मधुसोमके ॥५२॥ऋगस्यैव तु शालूकं लोहितान्यदितौ तथा ।पूरिकाञ्च दितौ दद्यात् क्रमेणोक्तं बलिक्रमम् ॥५३॥पयोदधिकुशांश्चैव हरिद्रान्नं गुलान्नकम् ।पक्वमांसञ्च शुद्धान्नं पक्वञ्च पिशितं तथा ॥५४॥विदिक्ष्वा पादिदेवानां बलिंदद्यात् पृथक् पृथक् ।घृतान्नं रक्ताहारञ्च लड्डुकं माषमेव च ॥५५॥समरीयकपूर्वेभ्यो दद्याद्दिक्षु विशेषतः ।तिलाक्षतय वांश्चैव पञ्चगव्यं कुशं तथा ॥५६॥दातव्यञ्चरुणा तत्र ब्रह्मणे तु विशेषतः ।चरकी प्रभृतीनान्तु मांसं पक्वन्निवेदयेत् ॥५७॥सर्वेषाञ्चैव शुद्धान्नं गुलाज्यन्धिसंयुतम् ।अलाभे सतिदातव्यं गन्धाद्यैश्च समन्वितम् ॥५८॥सर्वेषामेव मन्त्रास्तु नामप्रणवसंयुताः ।पूजादीनां नमोन्तन्तु बलिः स्वहान्तमुच्यते ॥५९॥कृत्वैवं बलिदानान्ते पूण्याहन्तु विशेषतः ।संप्रोक्ष्य पञ्चगव्येन मूलमन्त्रमदीरयन् ॥६०॥वास्तुहोमन्ततः कृत्वा मध्ये चोत्तरपूर्वके ।आरंभस्यादि काले तु होमङ्कृत्वा विशेषतः ॥६१॥स्थण्डिलन्तत्र कुर्वीत हस्तमात्रप्रमाणतः ।चतुरंगुलमुत्सेधं गन्धपुष्पं सदर्भयुक् ॥६२॥शिवाग्निञ्जनयेत् तत्र पूर्वोक्तेन विधानतः ।अग्निमध्ये न्यसेद् वास्तुन् तत्रस्थैर्दैवतैर्युतम् ॥६३॥आज्यादि द्रव्यमेवन्तु वास्तोर्वक्त्रे हुनेत् क्रमात् ।पार्थिवेन तु बीजेन सर्वद्रव्यैस्तु होमयेत् ॥६४॥तत्रस्थ देवतानाम्ना स्वाहान्तेन तु होमयेत् ।एवं पृथक् शतं प्रोक्तं तदर्द्धं वा तदर्धकम् ॥६५॥दशसङ्ख्याथवा तत्र प्रत्येकं द्रव्यमाचरेत् ।द्रव्यान्ते व्याहृतिं हुत्वा पूर्णाहुतिं शिवस्य तु ॥६६॥वास्तु देवान् विसृज्याथ पश्चादग्निं विसर्जयेत् ।एवं प्रासादवास्तुञ्च संपूज्यसाधकोत्तमः ॥६७॥बलिं दत्वाग्नि संपूज्य वास्तुकर्मसमारभेत् ।वास्तुकर्म यदा रब्धं वास्तुहोमं तदा चरेत् ॥६८॥वास्तुहोमं विनायत्र कृतं वास्तुविनश्यति ।वाप्यादि होमपर्यन्तं तत्सर्वं समवेन तु ॥६९॥चतुरायपदं कृत्वा माहेन्द्र द्वारकल्पनम् ।एतद् विशेषमेवन्तु ग्रह वास्तुविधिं प्रति ॥७०॥एवमेव तु संप्रोक्तं प्रासादवास्तुलक्षणम् ।आद्येष्टकाविधिं पश्चाच्छृणुष्वैकाग्रमानसः ॥७१॥इति प्रासादवास्तुलक्षण पटलः सप्तविंशतितमः ॥२७॥ N/A References : N/A Last Updated : October 08, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP