संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः| सकललक्षणविधिपटलः क्रियापदः प्रश्नविधिपटलः तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः स्नान पटलः भस्मस्नान पटलः अर्चनाङ्ग पटलः शिवार्चनविधि पटलः मुद्रालक्षण पटलः हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः अग्निकार्यविधि पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् सकलप्रतिष्ठाविधि पटलः शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः आदित्यस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः सुप्रभेदागमः - सकललक्षणविधिपटलः प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : sanskritsuprabhedamसंस्कृतसुप्रभेदम् सकललक्षणविधिपटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि सकलानान्तु लक्षणम् ।सर्वावयवदृश्यत्वात् प्रतिमा त्विति चोच्यते ॥१॥ईश्वरादिचतुर्मूर्तिः पठ्यते सकलं त्विति ।एतानि सकलादीनि त्रिविधानि मयोच्यते ॥२॥चित्रं चित्रार्धमेवन्तु चित्राभासं तथैव च ।सर्वावयसंपूर्णं दृश्यं तच्चित्रमुच्यते ॥३॥अर्धावयवसंदृश्यं मर्धचित्रं तथैव च ।पटे भित्तौ च यो लिख्यं चित्राभासमिहोच्यते ॥४॥पूजाभागसमायमं तदूर्ध्वं प्रतिमोच्छ्रयम् ।द्विगुणं त्रिगुणं तत्र मध्यमञ्चोत्तमं त्विह ॥५॥एकैकस्य त्रिभिर्भेदैर्नवमानमुदाहृतम् ।गर्भन्तु नवधा कृत्वा नवधादीप्यमुच्यते ॥६॥द्वारस्योच्छ्रयमाने तु षोडशांशविभाजिते ।भवंगञ्च पतङ्ग च ऊर्ध्वाधोंशद्वयं त्यजेत् ॥७॥शुद्धद्वारमिदं शेषमेतन्मनेन चोत्तमम् ।तत्त्रिभाग द्विभागञ्च मध्यमं त्विति कीर्तितम् ॥८॥तत्त्रिभागैकमथममेकैकं त्रित्रिभाजिते ।प्रोक्तं हि नवधा मानं स्तंभमानमथ शृणु ॥९॥स्तंभायामार्धभागेन कर्तव्यं कन्यसं बुधः ।त्रिपादं मध्यमं प्रोक्तं समं चैवोत्तमं भवेत् ॥१०॥प्रत्येकं त्रिविधैर्भागैर्नवमानं पुरोक्तवत् ।उत्तमन्तु चतुस्तालं त्रितालं मध्यमं तथा ॥११॥द्वितालमधमं विद्धि हस्तमानसमं शृणु ।एकहस्तं समारभ्य नवहस्तान्तमेव च ॥१२॥नवमानं करेणैव त्वङ्गुलीनां वशाच्छृणु ।यजमानसमं ज्येष्ठं त्रिपादञ्चैव मध्यमम् ॥१३॥अधमं त्वर्धमित्युक्तं यजमानानुरूपतः ।एतान्युक्तानि मानानि मानाङ्गुलेन भाजिते ॥१४॥तेषु मानेषु युग्मार्थं मानं प्रत्यङ्गुलाधिकम् ।अथवैकाङ्गुलोनं वा माने माने प्रयोजयेत् ॥१५॥एकाङ्गुलं समारभ्य द्वादशान्ताङ्गुलं ग्रहेत् ।तदूर्ध्वन्तु न कुर्वीत अथस्तादालयेन हि ॥१६॥यदुक्तोत्सेधमानन्तु त्रिभागं संविभज्य वै ।उष्णीषात् पादपर्यन्तं द्विभागे नैव कारयेत् ॥१७॥पीठमानमथैकांशं त्रिविधा पद्ममेकतः ।द्विभागं पीठमानं स्यादासने तु विशेषतः ॥१८॥बिंबायाम चतुर्थांशं पीठोच्चं स्थानकस्य तु ।स्थानकासनयानञ्च कर्तव्यं त्वनुरूपतः ॥१९॥यद्विष्णु प्रतिमादन्यं शयनन्तु न कारयेत् ।आचार्यशिल्पिकर्तॄणामिष्टमानं प्रगृह्य च ॥२०॥मृन्मयं यदि कुर्याच्चेच्छूलं तत्र प्रकल्पयेत् ।लोहजञ्च विशेषेण मधूश्चिष्टेन निर्मितम् ॥२१॥अङ्गोपाङ्गानि कृत्वाथ स्थिरवत् संप्रकल्पयेत् ।गन्धपुष्पादिनाभ्यर्च्य धूपदीपसमन्वितम् ॥२२॥तस्यैव दक्षिणे पार्श्वे शिवाग्निं तु प्रकल्पयेत् ।हृदा चाष्टशतं हुत्वा समिदाद्यैः पृथक् पृथक् ॥२३॥पूर्णाहुतिं ततो दद्यात् ध्यात्वा तद्रूपमात्मनि ।हृन्मन्त्रन्तु समुच्चार्य तत्तदङ्गानि बन्धयेत् ॥२४॥सर्वावयवसंपूर्णां प्रतिमंशिल्पिभिः सह ।गृहितप्रतिमोत्तुङ्गे नवभागविभाजिते ॥२५॥भागमेकं मुखं प्रोक्तं कण्ठभागं त्रिभागतः ।भागं कण्ठस्तनान्तञ्च भागं नाभ्यन्तमेव च ॥२६॥मेढ्रान्तं भागमानेन द्विभागं चोरुमानकम् ।भागत्रिभागिकं जानुजंघायाम द्विभागिकम् ॥२७॥गुदं भागं त्रिभागन्तु द्विभागं बाहुदैर्घ्यकम् ।पादोनद्विगुणं तस्य प्रकोष्ठायाममिष्यते ॥२८॥मानमेवन्तु विख्यातं सर्वेषान्तु प्रशस्तकम् ।तालगण्येन चाङ्गुल्या मानोन्माने तु कारयेत् ॥२९॥मुखन्तालं यमञ्चैव वितस्तिर्द्वादशाङ्गुलम् ।ईश्वरादि चतुर्मूर्तिदशतालेन कारयेत् ॥३०॥शक्तिनामन्यदेवानां नवतालं प्रकीर्तितम् ।दिव्यमार्षमनुष्याणामष्टतालेन कारयेत् ॥३१॥रक्षसामसुराणाञ्च सप्ततालमिहोच्यते ।षट्तालेनैव गन्धर्वान् पञ्चतालेन विघ्नकम् ॥३२॥वामनात् पञ्चतालैस्तु चतुस्तालैस्तु भूतकान् ।त्रितालं किन्नराणान्तु मत्स्यानान्तु द्वितालकम् ॥३३॥एकतालस्तु कूश्माण्डात् पिशाचाविंशदङ्गुलाः ।स्थूलसूक्ष्म प्रभेदांस्तु तालभेदमिहोच्यते ॥३४॥विहितं तत्तदङ्गुल्या मानमुन्मानमेव च ।मानन्तद्विस्तरं प्रोक्तमुन्मानं नाहमेव च ॥३५॥प्रमाणं दीर्घमित्युक्तं मानोन्मानप्रमाणतः ।मुखभागं त्रिधा कृत्वा ललाटोच्चमथैव तु ॥३६॥एकांशं नासिकान्तं स्यादन्यं नतद्वदेव हि ।अन्यानि चाङ्गुलैः कार्यमुष्णीषाच्चरणान्तकम् ॥३७॥उष्णीषमङ्गुलं प्रोक्तं मस्तकन्तु त्रियङ्गुलम् ।षट्त्रिंशदङ्गुले नैव शिरसोनाहमुच्यते ॥३८॥श्रोत्रयोरन्तरं तत्र ललाटोष्टादशाङ्गुलम् ।उष्णीषात् तु ततः कर्णपर्यन्तं द्वादशाङ्गुलम् ॥३९॥कलाधा नेत्रमायामं विस्तारन्तु तदर्धतः ।तत्तारे पक्ष्मरेखेव करवीरद्वयोर्यवम् ॥४०॥असितञ्च त्रिभागैकं ज्योतिः स्यात् पञ्चभागिकम् ।द्विकलानासिकायामं तदर्धन्तु पुटद्वयम् ॥४१॥पुटमध्यं यवं प्रोक्तं नासाग्रन्तिलपुष्पवत् ।अग्रन्तु द्व्यङ्गुलोत्सेधं मूलोत्सेधं तदर्धतः ॥४२॥भ्रुवौषडङ्गुलायामौ कला चैव तदन्तरम् ।ओष्ठमेकाङ्गुलं प्रोक्तं तदर्धेनोत्तरोष्ठकम् ॥४३॥कलायामं भवेदास्यं मध्यार्धञ्चिबुकं तथा ।निर्गमञ्चतुरङ्गुल्यं गुलमध्याङ्गुलाधिकम् ॥४४॥कर्णं वै चतुरङ्गुल्यं विस्तारन्तु तदर्धतः ।निम्नमेकाङ्गुलं प्रोक्तं कर्णनाहं त्रियङ्गुलम् ॥४५॥षट्भागं कर्णनाहं स्यात् तन्मूलन्तु कलाधिकम् ।तत्बाह्वोरन्तर स्कन्धौ ततः षट्त्रिंशदङ्गुलम् ॥४६॥अग्रं त्रिभागनाहन्तु मणिबन्धेऽङ्गुलाधिकम् ।इन्दुभागन्तलं ज्ञेयं रसाङ्गुलप्रमाणतः ॥४७॥सप्ताङ्गुलं त्वथायामं द्व्यङ्गुलञ्चोन्नतं स्मृतम् ।रेखाभिः संयुतं वत्समध्यनिम्नं बहिर्घनः ॥४८॥करमध्याङ्गुलायामं सप्ताङ्गुलमुदिरितम् ।मध्यादर्धाङ्गुलं ह्रासं तर्जन्यानामिके तथा ॥४९॥भागमङ्गुष्ठमेवन्तु कनिष्ठस्य तथा भवेत् ।अङ्गुष्ठस्य तथा नाहमायामसदृशं त्विह ॥५०॥तस्मादर्धाङ्गुल ह्रासो मध्यमायास्तु नाहकाः ।त्रियङ्गुलन्तु विज्ञेया तर्जन्यानुमिकाद्वयोः ॥५१॥तदर्धाङ्गुलहीनन्तु कनिष्ठस्य तु नाहकम् ।अङ्गुलीनान्तु पर्वं स्यात् पञ्चभागैकमूर्ध्वतः ॥५२॥द्विभागं मध्यमं पूर्वं तत्समन्तु तदा स्मृतः ।अङ्गुष्ठन्तु द्विपर्वं स्यादधश्चोर्ध्व समंमतम् ॥५३॥नखं वै चाग्र पर्वाग्रमङ्गुलीनां प्रमाणतः ।मकुटस्य तु चोत्सेधं मुखं भागाधिकन्तु वा ॥५४॥तदर्धाधिकमेवाथ द्विगुणं नाहमुच्यते ।ईश्वरस्य चतुर्नाहं तथा भूतगणाधिपौ ॥५५॥समानमेव सर्वेषां विशेषाकृतिरुच्यते ।ईश्वरस्य तु वक्ष्येऽहं यथा वदनुपूर्वशः ॥५६॥ईश्वरं ह्यात्म तत्वस्थं सर्वतोक्षि शिरोमुखम् ।इच्छाशक्त्युद्भवं पद्मं सहस्रदलभूषितम् ॥५७॥कर्णिकाकेसरैर्युक्तं पंकजन्तु महेश्वरम् ।पञ्चमूर्ध्वञ्चतुर्वक्त्रं नेत्रैर्द्वादशभिर्युतम् ॥५८॥चतुरास्यञ्चतुर्नासी वसुश्रोत्रञ्चतुर्गलम् ।तनुरेतत् द्विपादं हि सायुधं दशबाहुकम् ॥५९॥शुद्धस्फटिकसंकाशं सूर्यकोटिसमप्रभम् ।चद्रांशुहिमशितञ्च सर्वाभरणभूषितम् ॥६०॥शुक्लांबरधरं देवं शुक्लयज्ञोपवीतिनम् ।अभयं शूलपरशुं वज्रं खट्गं च दक्षिणे ॥६१॥खेटकांकुशपाशञ्च घण्टांवरदवामके ।कुर्यादेवं महेशन्तु शक्तेस्तु लक्षणं शृणु ॥६२॥चतुर्भुजां त्रिणेत्राञ्च सर्वालङ्कारसंयुताम् ।नितंबतटविस्तीर्णां मध्यक्षामांस्तनोन्नताम् ॥६३॥दक्षिणे चोत्पलोपेतां वामहस्तेस्रजन्धरीम् ।वरदाभयहस्तां वै दुकूलवसनान्विताम् ॥६४॥करण्डमकुटोपेतामीश्वरस्य तु वामके ।पीठे चैकासने युक्तां तत्प्रभामण्डले स्थिताम् ॥६५॥चन्द्रार्काग्नि प्रतीकाशां जगन्मङ्गलकारकाम् ।कारयेद् ईश्वरीमेवं वामादीनां शृणुष्व हि ॥६६॥वामादीशाष्ट शक्तिंस्तु ईश्वरीं च पृथक् पृथक् ।ईश्वरस्य च हन्वन्तं बाह्वन्तं वास्तनान्तकम् ॥६७॥ईश्वरीदिशमाख्यातं शक्तीनां तत् त्रिपादतः ।तद्वदा व्रतदेवानामायामन्तु विधीयते ॥६८॥ब्रह्मविद्याङ्ग पञ्चाङ्ग विद्येशाश्च गणेश्वराः ।त्रिणेत्राश्चतुर्भुजाः सौम्याः सर्वाभरणभूषिताः ॥६९॥नमस्कारकराः सर्वे ह्यक्षमालाब्जधारकाः ।जटामकुटसंयुक्ताः सर्वे सम्यक् प्रकीर्तिताः ॥७०॥तेषां वर्णं पुराप्रोक्तं लक्षणेन समन्वितम् ।एवं आवृत देवानां ममरूपाणि च शृणु ॥७१॥आद्यं सुखासनञ्चैव द्वितीयमुमया सह ।वृषारूढं तृतीयन्तु त्रिपुरारिञ्चतुर्थकम् ॥७२॥नृत्ताख्यं पञ्चमं रूपं षष्ठं सोमार्धशेखरम् ।सप्तमं च धनादीशं हरिरर्धन्तु चाष्टमम् ॥७३॥भिक्षाटनञ्च नवमं दशमंकामनाशनम् ।एकादशन्तु कालघ्नं ततो लिङ्गपुराणिकम् ॥७४॥द्वादश प्रतिमां ह्येवं तेषां लक्षणमुच्यते ।मेरुपर्वत पार्श्वे तु मुनीनामाश्रमे तथा ॥७४॥दिगंबरन्तु मान् दृष्ट्वा तेषां स्त्रीणांभ्रमोसिवै ।तं ज्ञात्वा मुनयः सर्वे जुहुयास्त्वाभिचारकम् ॥७५॥तन्मध्ये हृदयेतानि नागङ्कृष्णा मृगं तथा ।अपस्मारञ्च परशुमुक्षं व्याघ्रं हरिं तथा ॥७६॥करोटिन्तु महाभीमामेवमाद्यागतोमयि ।नागं मृगञ्च परशुं क्रीडार्थन्धारितं मया ॥७७॥पादाधसादपस्मारं करोटिं शिरसोपरि ।सिंहव्याघ्रौ तदा हत्वा तच्चर्मन्धारितं मया ॥७८॥तदुक्षं वाहनं भूत्वा ममप्रियकरं सदा ।महोदधेर्विषं कण्ठे सोमार्धं शेखरे धृतम् ॥७९॥बकपुष्पं जटाभारे मयानृत्ते वधारितम् ।समानमन्यत् सर्वेषां प्रतिमानां विशेषतः ॥८०॥त्रिणेत्रञ्चतुर्भुजं सौम्यं बालेन्दु कृतशेखरम् ।धुर्तूरभुजगोपेतं जटामकुटमण्डितम् ॥८१॥व्याघ्रचर्मांबरञ्चैव हारकेयूरसंयुतम् ।यज्ञोपवीतसंयुक्तं कुण्डलाभ्यामलं कृतम् ॥८२॥मूर्तीनां द्वादशानान्तु सामान्यमिदमिरितम् ।अतः परं विशेषन्तु क्रमशो वक्ष्यतेऽधुना ॥८३॥आसने तु सुखासीनं मृगीपरशुधारिणम् ।अभयं दक्षिणे हस्तं वरदं वामहस्तके ॥८४॥कटकं वा सुखासीनमुमा स्कन्दौ च वर्जितम् ।एवं सुखासनं प्रोक्तमुमा सहितमुच्यते ॥८५॥सहासने ह्युमादेवीं सुसौम्यवदनोज्वलाम् ।द्विभूजां पद्महस्तान्तु मकुटाभरणान्विताम् ॥८६॥कटकाख्य ध?रांवामे प्रसारितमथापि वा ।उमा बाहुस्तनान्तं वा मानं वै षण्मुखस्य तु ॥८७॥प्. १७०) कण्ठेशूलसमायुक्तं च्छन्नवीरसमायुतम् ।उमा शङ्करयोर्मध्ये स्कन्तं वै बालरूपिणम् ॥८८॥आसनं स्थानकं वापि वरदं कटकान्वितम् ।कृत्वा सुखासनं यद्वत् पूर्ववत् परमेश्वरम् ॥८९॥देवस्यमुखमन्वीक्ष्य किञ्चित् गौरीन्तु कारयेत् ।वृषारूढमथोवक्ष्ये वृषभं पृष्ठत स्थितम् ॥९०॥उमारुद्रौ स्थितौ कृत्वा कूर्परं वृषमस्तके ।मृगं परशु संयुक्तं कर्तव्यं वृषवाहनम् ॥९१॥धनुर्बाणसमायुक्तं कृष्णां परशुधारिणम् ।उमया सहितं देह कृत्वा तत्त्रिपुरान्तकम् ॥९२॥नृत्तार्थोद्धृत वामांघ्रिजानुनाभि समोत्थितम् ।पादाङ्गुष्ठं समोजानु जान्वङ्गुष्ठ समोद्धृतम् ॥९३॥प्रसार्य वामहस्तञ्च दण्डवद्धृदयोपरि ।अभयं दक्षिणं हस्तं शेषण्डमरुकान्वितम् ॥९४॥कण्ठसीमान्तमुधृत्य यथा शोभं प्रकल्पयेत् ।साग्निकं वामहस्तन्तु बाहुसीमान्तमुद्धृतम् ॥९५॥पादाधस्तमपस्मारं सर्पक्रीडा समन्वितम् ।धुर्तूरकां करोटीञ्च गङ्गेन्दुबकपिञ्छकम् ॥९६॥तिस्रः पञ्चजटाः सप्त प्रसार्यकुसुमोज्वलाः ।सव्ये त्वेवन्तथा वामे दिप्ताग्निसदृशोज्वलाः ॥९७॥नृत्तरूपमिदं वत्स सर्वशान्त्यर्थमुच्यते ।ऋज्वागतन्तु तं देवं मृगं परशुधारिणम् ॥९८॥कृत्यंबरधरं देवं कर्तव्यञ्चन्द्रशेखरम् ।दक्षिणार्धे हरञ्चैव वामार्द्धे पार्वती तथा ॥९९॥दक्षिणं कुञ्चितं पादं वामपादमृजु स्थितम् ।मध्यकायानतौ वक्रमेवं कुर्यात् त्रिभागिकम् ॥१००॥हरस्य दक्षिणे हस्ते कूर्परं वृषके स्थितम् ।प्रकोष्ठे शुकसंयुक्तं हरं परशु संयुतम् ॥१०१॥वामे कटकहस्तन्तु दक्षिणेत्वभयं स्मृतम् ।श्यामवर्णमुखां देवीं रक्तवर्णं हरं तथा ॥१०२॥व्याघ्रचर्मांबरं देवं पार्वतीं क्षौमधारिणीम् ।पितांबरधरं विष्णुं व्याघ्रचर्मांबरं हरम् ॥१०३॥विष्णुं किरीटसंयुक्तं शंकरन्तु जटान्वितम् ।श्यामवर्णं हरिञ्चैव शंकरं युक्तरूपिणम् ॥१०४॥हरिरर्धमिदं प्रोक्तं भिक्षाटनमतः परम् ।सृष्टिमूर्तेः कपालन्तु स्थितिमूर्तेः कलेबरम् ॥१०५॥डमरुकसमोपेतं भस्मसर्पैरलङ्कृतम् ।कण्ठेशूलसमायुक्तं छन्नवीरसमायुतम् ॥१०६॥पादुको परिपादौ च सर्वभूतसमावृतम् ।एवं भिक्षाटनं वत्सकामनाशमथ शृणु ॥१०७॥उग्ररूपन्तु कामारि पार्श्वे कामं प्रपातितम् ।कार्यं कामारिपुं ह्येवं वक्ष्येऽहं कालनाशनम् ॥१०८॥दक्षिणे तु करेशूलं वामे सूच्यङ्गुलि स्मृतम् ।पादं कालस्य हृदये न्यस्त्वैवं पादसंस्थितम् ॥१०९॥कालनाशमिदं प्रोक्तं लिङ्गात् पत्तिमतः परम् ।लिङ्गं कृत्वोर्ध्वत ब्रह्मा हंसरूपन्तथैव च ॥११०॥विष्णुं वराहवक्त्रन्तु लिङ्गस्याद्धः प्रकल्पयेत् ।हृदयेऽञ्जलिसंयुक्तौ ब्रह्माविष्णू च पार्श्वयोः ॥१११॥लिङ्गं मध्ये तु कर्तव्यं पूर्ववचन्द्रशेखरम् ।अदृश्यौ तस्य पादाब्जौ तथैव मकुटं यथा ॥११२॥प्रोक्तं द्वादशमूर्तिनां रूपभेदं गजानन ।देव्यास्तु लक्षणं वक्ष्ये समासाच्छृणु सांप्रतम् ॥११३॥हन्वन्तं बाहुसीमान्तं स्तनान्तं समुच्छ्रयम् ।द्विभुजां श्यामवर्णान्तु सर्वाभरणभुषिताम् ॥११४॥दक्षिणे चोत्पलं ग्राह्य वामहस्तं प्रसारयेत् ।किरीटं वा करण्डाख्यन्तुङ्गपीनपयोधराम् ॥११५॥पूर्वोक्तमध्यनाहस्य सप्तांशैकं परित्यजेत् ।मध्यनाहमिदं प्रोक्तमन्यत्सर्वं समं तथा ॥११६॥गौरीरूपमिदं विद्धि विष्णुरूपं ततः शृणु ।शङ्खचक्रधरं देवं पीतांबरधरं हरिम् ॥११७॥श्रीभूमिसहितं देवं सर्वालङ्कारसंयुतम् ।स्थितं वाथसमाहीनं शयितं वापि कारयेत् ॥११८॥चतुर्मुखञ्चतुर्बाहुं कमण्डल्वक्षधारिणम् ।रक्तवर्णजटायुक्तं कृत्वा ब्रह्माणमुज्वलम् ॥११९॥सावित्रीं वामपार्श्वे तु सर्वालङ्कारसंयुताम् ।एवं चतुर्मुखं कुर्यात् जगत् सृष्टिकरं शुभम् ॥१२०॥अन्येषां प्रतिमानान्तु तेषां संस्थापनाविधौ ।लक्षणं प्रोच्यते सम्यग्यधावनुपूर्वशः ॥१२१॥सकलानामिदं प्रोक्तमङ्कुरस्य विधिं शृणु ।इति सकललक्षणविधिपटलश्चतुस्त्रिंत्तमः ॥३४॥ N/A References : N/A Last Updated : October 11, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP