क्रियापदः - नवनैवेद्य विधि पटलः
सुप्रभेदागमः
अथातः संप्रवक्ष्यामि नवनैवेद्यलक्षणम् ।
अग्रयानां हि नाम्ना तत् कृते तस्माज्जयं भवेत् ॥१॥
सुमुहूर्त्ते सुलग्ने च नक्षत्र करणान्विते ।
वाद्यध्वनिसमायुक्तं त्रिशूलेनसमन्वितम् ॥२॥
सर्वालङ्कारसंयुक्तं ततो भक्तजनैर्युतम् ।
स्वक्षेत्रं संप्रविश्याथ ऐशान्यां दिक्समाश्रिताः ॥३॥
तत् क्षेत्र रक्षकानां तु दध्योदन बलिंक्षिपेत् ।
शूकंदात्रेन निक्षिप्य हृदयेन तु बुद्धिमान् ॥४॥
विशुद्ध तण्डुलोपेतं शूकं सर्वोपदंशकैः ।
ग्रामं वा नगरं वापि प्रदक्षिणमथाचरेत् ॥५॥
सर्वालंकारसंयुक्तं सर्वातोद्यसमन्वितम् ।
तद्भागाश्च गजाश्चैव तया चैवाग्रतो नयेत् ॥६॥
शूकभारान्ततो नीत्वा व्रीहिभाराननन्तरे ।
उपदंशान्ततो नीत्वा तत स्तण्डुलभारकान् ॥७॥
वादका गणिकाश्चैव व्रजेयुः सर्वभूषिताः ।
सर्वेषां पृष्ठतोभागे संव्रजेत् प्रतिमां शनैः ॥८॥
ततो भक्तजनाः सर्वे व्रजेयुः क्रमशः पुनः ।
प्रविश्य भवनं मंत्री शूकभारां निवेश्य वै ॥९॥
आदित्य करसन्तप्तान् व्रीहीन् संक्षिप्यलूखले ।
तुर्यग्रमण्डलं कृत्वा पिष्टचूर्णैर्विचित्रितैः ॥१०॥
शालिभि स्थण्डिलङ्कृत्वा लूखलं तत्र विन्यसेत् ।
वस्त्रेण लूखलं बध्वा मूसलञ्च ततोर्चयेत् ॥११॥
संक्षुभ्यबीजमुख्येन तण्डुलङ्ग्राह्ययत्नतः ।
नालिकेरगुलोपेतं मरीची जीरकान्वितम् ॥१२॥
हृदयेन तु मन्त्रेण दद्याद् देवस्य भक्तितः ।
अन्येषां प्रतिमानान्तु दापयित्वा हृदापुनः ॥१३॥
परिवारबलिन्दत्वा चण्डेशायनिवेदयेत् ।
ताम्बूलन्तु विशेषेण दत्वा तत्र हृदाणुना ॥१४॥
प्रभूतहविषं दत्वा पूर्वोक्तविधिनान्वितः ।
ततो भक्तजनान्सर्वां नवान्नेन तु भोजयेत् ॥१५॥
प्रोक्तन्तु नवनैवेद्यं कृत्तिकादीपकं शृणु ।
इति नवनैवेद्यविधि पटलः सप्तदशः ॥१७॥
N/A
References : N/A
Last Updated : October 08, 2022
TOP