संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|वृन्दावनखण्डः| अध्यायः २६ वृन्दावनखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ वृन्दावनखण्डः - अध्यायः २६ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता शंखचूडोपाख्यानम् Translation - भाषांतर श्रीबहुलाश्व उवाच -अघासुरादिदैत्यानां ज्योतिः कृष्णे समाविशत् ।श्रीदाम्नि शंखचूडस्य कस्माल्लीनं बभूव ह ॥१॥एतद्वद महाबुद्धे त्वं परावरवित्तम ।अहो श्रीकृष्णचंद्रस्य चरितं परमाद्भुतम् ॥२॥पुरा गोलोकवृत्तान्तं नारायणमुखाच्छ्रुतम् ।सर्वपापहरं पुण्यं शृणु राजन् महामते ॥३॥राधा श्रीर्विरजा भूश्च तिस्रः पत्न्योऽभवन्हरेः ।तासां राधा प्रियाऽतीव श्रीकृष्णस्य महात्मनः ॥४॥राधिकासमया राजन् कोटिचंद्रप्रकाशया ।कुंजे विरजया रेमे एकान्ते चैकदा प्रभुः ॥५॥सपत्नीसहितं कृष्णं राधा श्रुत्वा सखीमुखात् ।अतीव विमना जाता सपत्नीसौख्यदुःखिता ॥६॥शतयोजनविस्तारं शतयोजनमूर्ध्वगम् ।कोट्यश्विनीसमायुक्तं कोटिसूर्यसमप्रभम् ॥७॥विचित्रवर्णसौवर्णमुक्तादामविलंबितम् ।पताकाहेमकलशैः कोटिभिर्मंडितं रथम् ॥८॥समारुह्य सखीनां सा वेत्रहस्तैर्दशार्बुदैः ।हरिं द्रष्टुं जगामाशु श्रीराधा भगवत्प्रिया ॥९॥तन्निकुंजे द्वारपालं श्रीदामानं महाबलम् ।हरिन्यस्तं समालोक्य तं निर्भर्त्स्य सखीजनैः ॥१०॥वेत्रैः सन्ताड्य सहसा द्वारि गन्तुं समुद्यता ।सखीकोलाहलं श्रुत्वा हरिरंतरधीयत ॥११॥राधाभयाच्च विरजा नदी भूत्वाऽवहत्तदा ।कोटियोजनमायामं गोलोकं सहसा नदी ॥१२॥सहसा कुण्डलीकृत्वा शुशुभेऽब्धिरिवावनिम् ।रत्नपुष्पैर्विचित्रांगा यथोष्णिङ्मुद्रिता तथा ॥१३॥हरिं गतं तं विज्ञाय नदीभूतां च तां तथा ।आलोक्य तन्निकुञ्जं च स्वकुञ्जं राधिका ययौ ॥१४॥अथ कृष्णो नदीभूतां विरजां विरजांबराम् ।सविग्रहां चकाराशु स्ववरेण नृपेश्वर ॥१५॥पुनर्विरजया सार्धं विरजातीरजे वने ।निकुंजवृंदकारण्ये चक्रे रासं हरिः स्वयम् ॥१६॥विरजायां सप्त सुता बभूवुः कृष्णतेजसा ।निकुंजं ते ह्यलंचक्रुः शिशवो बाललीलया ॥१७॥एकदा तैः कलिरभूल्लघुर्ज्येष्ठश्च ताडितः ।पलायमानो भयभृन्मातुः क्रोडे जगाम ह ॥१८॥तल्लालनं समारेभे समाश्वास्य सुतं सती ।तदा वै भगवान् साक्षात्तत्रैवान्तरधीयत ॥१९॥रुषा सुतं शशापेयं श्रीकृष्णविरहातुरा ।त्वं जलं भव दुर्बुद्धे कृष्णविच्छेदकारकः ॥२०॥कदापि त्वं जलं मर्त्या न पिबंतु कदाचन ।ज्येष्ठान् शशाप व्रजत मेदिनीं कलिकारकाः ॥२१॥जलरूपा पृथग्याना न समेता भविष्यथ ।नैमित्तिकं च भवतां मेलनं स्यात्सदा लये ॥२२॥श्रीनारद उवाच -इत्थं ते मातृशापेन धरणीं वै समागताः ।प्रियव्रतरथांगानां परिखासु समास्थिताः ॥२३॥लवणेक्षुसुरासर्पिर्दधिदुग्धजलार्णवाः ।बभूवुः सप्त ते राजन्नक्षोभ्याश्च दुरत्ययाः ॥२४॥दुर्विगाह्याश्च गंभीरा आयामं लक्षयोजनात् ।द्विगुणं द्विगुणं जातं द्वीपे द्वीपे पृथक् पृथक ॥२५॥अथ पुत्रेषु यातेषु पुत्रस्नेहातिविह्वला ।स्वप्रियां तां विरहिणीमेत्य कृष्णो वरं ददौ ॥२६॥कदा न ते मे विच्छेदो मयि भीरु भविष्यति ।स्वतेजसा स्वपुत्राणां सदा रक्षां करिष्यसि ॥२७॥अथ राधां विरहिणीं ज्ञात्वा कृष्णो हरिः स्वयम् ।श्रीदाम्ना सह वैदेह तन्निकुंजं समाययौ ॥२८॥निकुञ्जद्वारि संप्राप्तं ससखं प्राणवल्लभम् ।वीक्ष्य मानवती भूत्वा राधा प्राह हरिं वचः ॥२९॥तत्रैव गच्छ यत्राभूत्स्नेहस्ते नूतनो हरे ।नदीभूता हि विरजा नदो भवितुमर्हसि ॥३०॥कुरु वासं तन्निकुंजे मया ते किं प्रयोजनम् ।श्रीनारद उवाच -इति श्त्वाऽथ भगवान् तन्निकुंजं जगाम ह ॥३१॥श्रीकृष्ण मित्रं श्रीदामा राधां प्राह रुषा वचः ।परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान् स्वयम् ॥३२॥असंख्यब्रह्मांडपतिर्गोलोकेषु विराजते ।त्वादृशीः कोटिशः शक्तीः कर्तुं शक्तः परात्परः ॥३३॥तं विनिंदसि राधे त्वंमानं मा कुरु मा कुरु ।राधोवाच -हे मूढ पितरं स्तुत्वामातरं मां विनिन्दसि ॥३४॥राक्षसो भव दुर्बुद्धे गोलोकाच्च बहिर्भव ।श्रीदामोवाच -अनुकूलेन कृष्णेन जातं मानं शुभे तव ॥३५॥तस्माद्भुवि परात्कृष्णात् परिपूर्णतमात्प्रभो ।शतवर्षं ते वियोगो भविष्यति न संशयः ॥३६॥श्रीनारद उवाच -एवं परस्परं शापात् स्वकृताद्भयभीतयोः ।अतीव चिन्तां गतयोराविरासीत्स्वयं प्रभुः ॥३७॥श्रीभगवानुवाच -वचनं वै स्वनिगमं दूरीकृर्तुं क्षमोऽस्म्यहम् ।भक्तानां वचनं राधे दूरीकर्तुं न च क्षमः ॥३८॥मा शोचं कुरु कल्याणि वरं मे शृणु राधिके ।मासं मासं वियोगांते दर्शनं मे भविष्यति ॥३९॥भुवो भारावताराय कल्पे वाराहसंज्ञके ।भक्तानां दर्शनं दातुं गमिष्यामि त्वया सह ॥४०॥श्रीदमन् शृणु मे वाक्यमंशेन त्वसुरो भव ।वैवस्वतान्तरे रासे हेलनं मे करिष्यसि ॥४१॥मद्धस्तेन च ते मृत्युर्भविष्यति न संशयः ।पुनः स्वविरहं पूर्वं प्राप्स्यसि त्वं वरान्मम ॥४२॥श्रीनारद उवाच -एवं शापेन श्रीदामा पुरा पुण्यजनालये ।सुधनस्य गृहे जन्म लेभे राजन् महातपाः ॥४३॥शंखचूड इति ख्यातो धनदानुचरोऽभवत् ।तस्माच्छ्रीदाम्नि तज्ज्योतिः लीनं जातं विदेहराट् ॥४४॥स्वात्मारमो लीलया सर्वकार्यंस्वस्मिन् धाम्नि ह्यद्वितीयः करोति ।यः सर्वेशः सर्वरूपो महात्माचित्रं नेदं नौमि कृष्णाय तस्मै ॥४५॥इदं मया ते कथितं मनोहरंवैदेह वृंदावनखंडमग्रतः ।श्रृणोति चैतच्चरितं नरो वरःपरंपदं पुण्यतमं प्रयाति सः ॥४६॥इति श्रीगर्गसंहितायां वृन्दावनखण्डे शंखचूडोपाख्यानं नाम षड्विंशोऽध्यायः ॥२६॥समाप्तोऽयं वृंदावनखण्डः N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP