संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|वृन्दावनखण्डः| अध्यायः १८ वृन्दावनखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ वृन्दावनखण्डः - अध्यायः १८ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता श्रीकृष्णचन्द्रदर्शनम् Translation - भाषांतर श्रीनारद उवाच -अथ रात्र्यां व्यतीतायां मायायोषिद्वपुर्हरिः ।राधादुःखप्रशान्त्यर्थं वृषभानोर्गृहं ययौ ॥१॥राधा तमागतं वीक्ष्य समुत्थायातिहर्षिता ।दत्तासुना विधानेन पूजयामास मैथिल ॥२॥श्रीराधोवाच -त्वया विनाऽहं निशि दुःखिताऽऽसंत्वय्यागतायां सखि लब्धवस्तुवत् ।पूर्वं ह्यपथ्यस्य सुखं यथा ततोदुःखं तथा भामिनि मत्प्रसंगतः ॥३॥श्रीनारद उवाच -इति श्रुत्वाऽथ तद्वाक्यं विमना गोपदेवता ।न किंचिदूचे श्रीराधां दुःखितेव व्यवस्थिता ॥४॥विज्ञाय खेदसंपन्नां राधिकां गोपदेवताम् ।सखीभिः संविचार्याथ जगाद स्नेहतत्परा ॥५॥राधोवाच -विमनास्त्वं कथं भद्रे वद मां गोपदेवते ।मात्रा भर्त्रा ननांद्रा वा श्वश्र्वा क्रोधेन भर्त्सिता ॥६॥सपत्नीकृतदोषेण स्वभर्तुर्विरहेण वा ।अन्यत्र लग्नचित्तेन विमनाः किं मनोहरे ॥७॥मार्गखेदेन वा कच्चिद्विह्वलाऽभूद्रुजाऽथवा ।शीघ्रं वद महाभागे स्वस्य दुःखस्य कारणम् ॥८॥कृष्णभक्तमृते विप्रं येन केनापि कुत्सितम् ।कथितं तेऽथ रंभोरु तच्चिकित्सां करोम्यहम् ॥९॥गजाश्वादीनि रत्नानि वस्त्राणि च धनानि च ।मन्दिराणि विचित्राणि गृहाण त्वं यदीच्छसि ॥१०॥धनं दत्त्वा तनुं रक्षेत्तनुं दत्त्वा त्रपां व्यधात् ।धनं तनुं त्रपां दद्यान्मित्रकार्यार्थमेव हि ।धनं दत्त्वा च सततं रक्षेत्प्राणान्निरन्तरम् ॥११॥यो मित्रतां निष्कपटं करोतिनिष्कारणमं धन्यतमं स एव ।विधाय मैत्रीं कपटं विदध्या-त्तं लंपटं हेतुपटं नटं धिक् ॥१२॥तस्याः प्रेमवचः श्रुत्वा भगवान् गोपदेवता ।प्रहसन्नाह राजेन्द्र श्रीराधां कीर्तिनन्दिनीम् ॥१३॥गोपदेवतोवाच -राधे व्रजन्सानुगिरेस्तटीषुसंकोचवीथीषु मनोहरासु ।यान्तीं स्वतो मां दधिविक्रयार्थंरुरोध मार्गे नवनन्दपुत्रः ॥१४॥वंशीधरो वेत्रकरः करे मांत्वरं गृहीत्वा प्रसहन्विलज्जः ।मह्यं करादानधनाय दानंदेहीति जल्पन्विपिने रसज्ञः ॥१५॥तुभ्यं न दास्यामि कदापि दानंस्वयंभुवे गोरसलंपटाय ।एवं मयोक्ते वचनेऽथ भाण्डंनीत्वा विशीर्णीकृतवान् स दध्नः ॥१६॥भाण्डं स भित्त्वा दधि किं च पीत्वानीत्वोत्तरीयं मम चेदुरीयम् ।नन्दीश्वराद्रेर्विदिशं जगामतेनाहमाराद्विमनाः स्म जाता ॥१७॥जात्या स गोपः किल कृष्णवर्णोऽधनी न वीरो न हि शीलरूपः ।यस्मिंस्त्वया प्रेम कृतं सुशीलेत्यजाशु निर्मोहनमद्य कृष्णम् ॥१८॥इत्थं सवैरं परुषं वचस्तत्श्रुत्वा च राधा वृषभानुनन्दिनी ।सुविस्मिता वाक्यपदे सरस्वतीपदं स्मयन्ती निजगाद तां प्रति ॥१९॥राधोवाच -यत्प्राप्तये विधिहरप्रमुखास्तपन्तिवह्नौ तपः परमया निजयोगरीत्या ।दत्तः शुकः कपिल आसुरिरंगिरायत्पादारविन्दमकरन्दरजः स्पृशन्ति ॥२०॥तं कृष्णमादिपुरुषम् परिपूर्णदेवम्लीलावतारमजमार्तिहरं जनानाम् ।भूभूरिभारहरणाय सतां शुभायजातं विनिन्दसि कथं सखि दुर्विनीते ॥२१॥गाःपालयन्ति सततं रजसो गवां चगंगां स्पृशन्ति च जपंति गवां सुनाम्नाम् ।प्रेक्षन्त्यहर्निशमलं सुमुखं गवां चजातिः परा न विदिता भुवि गोपजातेः ॥२२॥तत्कृष्णवर्णविलसत्सुकलां समीक्ष्यतस्मिन्विलग्नमनसा सुसुखं विहाय ।उन्मत्तवद्व्रजति धावति नीलकण्ठोबिभ्रत्कपर्दविषभस्मकपालसर्पान् ॥२३॥स्वर्लोकसिद्धमुनियक्ष मरुद्गणानांपालाः समस्तनरकिन्नरनागनाथाः ।यत्पादपद्ममनिशं प्रणिपत्य भक्त्यालब्धश्रियः किल बलिं प्रददुः स्म तस्मै ॥२४॥वत्साघकालियबकार्जुनधेनुकाना-माचक्रवातशकटासुरपूतनानाम् ।एषां वधः किमुत तस्य यशो मुरारे-र्यः कोटिशोऽण्डनिचयोद्भवनाशहेतुः ॥२५॥भक्तात्प्रियो न विदितः पुरुषोत्तमस्यशंभुर्व्हिधिर्न च रमा न च रौहिणेयः ।भक्ताननुव्रजति भक्ति निबद्ध चित्तःचुडामणिः सकललोकजनस्य कृष्णः ॥२६॥गच्छन्निजं जनमनुप्रपुनाति लोका-नावेदयन् हरिजने स्वरुचिं महात्मा ।तस्मादतीव भजतां भगवान् मुकुन्दोमुक्तिं ददाति न कदापि सुभक्तियोगम् ॥२७॥गोपदेवतावाच -राधे त्वदीयधिषणा धिषणं हसन्तीवाणीं श्रुतिं प्रकुशलेन विडंबयन्ती ।अत्रागमिष्यति यदाथ हरिः परेशःसत्यं ददाति वचनं तव देवि मन्ये ॥२८॥राधोवाच -यथाऽऽगमिष्यति यदाऽद्य हरिः परेशःकिं कारयामि भवतीं वद तर्हि सुभ्रु ।चेदागमो न हि भवेद्वनमालिनः स्वंसर्वं धनं च भवनं च ददामि तुभ्यम् ॥२९॥श्रीनारद उवाच -अथ राधा समुत्थाय नत्वा श्रीनन्दनन्दनम् ।उपविश्यासने दध्यौ ध्यानस्तिमितलोचना ॥३०॥उत्कंठितां स्वेदयुक्तां बाष्पकंठीं प्रियां हरिः ।अश्रुपूर्णमुखीं वीक्ष्य बिभ्रत्स्वां पौरुषीं तनुम् ॥३१॥पश्यन्तीनां सखीनां च सहसा भक्तवत्सलः ।राधां प्राह प्रसन्नात्मा मेघगंभीरया गिरा ॥३२॥श्रीकृष्ण उवाच -रंभोरु चन्द्रवदने व्रजसुन्दरीशेराधे प्रिये नवलयौवनमानशीले ।उमील्य नेत्रमपि पश्य समागतं मांतूर्णं त्वया मधुरया च गिरोपहूतम् ॥३३॥आगच्छ कृष्ण इति वाक्यमतः श्रुतं मेसद्यो विसृज्य निजगोकुलगोपवृन्दम् ।वंशीवटाच्च यमुनानिकटात्प्रधावन्त्वत्प्रीतयेऽथ ललनेत्र समागतोऽस्मि ॥३४॥मय्यागते सति गता सखिरूपिणी का यक्ष्यासुरीसुरवधू किल किन्नरी वा । मायावती छलयितुं भवतीं च तस्मा-द्विश्वास एव न विधेय उरंगपत्न्याम् ॥३५॥श्रीनारद उवाच -अथ राधा हरिं दृष्ट्वा नत्वा तत्पादपंकजम् ।मुदमाप परं राजन् सद्यः पूर्णमनोरथा ॥३६॥एवं श्रीकृष्णचन्द्रस्य चरितान्यद्भुतानि च ।यः शृणोति नरो भक्त्या स कृतार्थो भवेन्नरः ॥३७॥इति श्रीगर्गसंहितायां वृन्दावनखण्डे श्रीकृष्णचंद्रदर्शनम् नाम अष्टादशोऽध्यायः ॥१८॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP