संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|वृन्दावनखण्डः| अध्यायः १३ वृन्दावनखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ वृन्दावनखण्डः - अध्यायः १३ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता शेषोपाख्यानवर्णनम् Translation - भाषांतर वैदेह उवाच -यद्रजो दुर्लभं लोके योगिनां बहुजन्मभिः ।तत्पादाब्जं हरेः साक्षाद्बभौ कालियमूर्द्धसु ॥१॥कोऽयं पूर्वं कुशलकृत्कालियो फणिनां वरः ।एनं वेदितुमिच्छामि ब्रूहि देवर्षिसत्तम ॥२॥श्रीनारद उवाच -स्वायंभुवान्तरे पूर्वं नाम्ना वेदशिरा मुनिः ।विंध्याचले तपोऽकार्षीद्भृगुवंशसमुद्भवः ॥३॥तदाश्रमे तपः कर्तुं प्राप्तो ह्यश्वशिरा मुनिः ।तं वीक्ष्य रक्तनयनः प्राह वेदशिरा रुषा ॥४॥वेदशिरा उवाच -ममाश्रमे तपो विप्र मा कुर्याः सुखदं न हि ।अन्यत्र ते तपोयोग्या भूमिर्नास्ति तपोधन ॥५॥श्रीनारद उवाच -श्रुत्वाऽथ वेदशिरसो वाक्यं ह्यश्वशिरा मुनिः ।क्रोधयुक्तो रक्तनेत्रः प्राह तं मुनिपुंगवम् ॥६॥अश्वशिरा उवाच -महाविष्णोरियं भूमिः न ते मे मुनिसत्तम ।कतिभिर्मुनिभिश्चात्र न कृतं तप उत्तमम् ॥७॥श्वसन् सर्प इव त्वं भो वृथा क्रोधं करोषि हि ।तदा सर्पो भव त्वं हि भूयात्ते गरुडाद्भयम् ॥८॥वेदशिरा उवाच -त्वं महादुरभिप्रायो लघुद्रोहे महोद्यमः ।कार्यार्थी काम इव कौ त्वं काको भव दुर्मते ॥९॥आविरासीत्ततो विष्णुरित्थं च शपतोस्तयोः ।स्वस्वशापाद्दुःखितयोः सांत्वयामास तौ गिरा ॥१०॥श्रीभगवानुवाच -युवां तु मे समौ भक्तौ भुजाविव तनौ मुनी ।स्ववाक्यं तु मृषा कर्तुं समर्थोऽहं मुनीश्वरौ ॥११॥भक्तवाक्यं मृषा कर्तुं नेच्छामि शपथो मम ।ते मूर्ध्नि हे वेदशिरः चरणौ मे भविष्यतः ॥१२॥तदा ते गरुडाद्भीतिः न भविष्यति कर्हिचित् ।शृणु मेऽश्वशिरो वाक्यं शोचं मा कुरु मा कुरु ॥१३॥काकरूपेऽपि सुज्ञानं ते भविष्यति निश्चितम् ।परं त्रैकालिकं ज्ञानं संयुतं योगसिद्धिभिः ॥१४॥श्रीनारद उवाच -उत्युक्त्वाथ गते विष्णौ मुनिरश्वशिरा नृप ।साक्षात्काकभुषंडोऽभूद्योगींद्रो नीलपर्वते ॥१५॥रामभक्तो महातेजाः सर्वशास्त्रार्थदीपकः ।रामायणं जगौ यो वै गरुडाय महात्मने ॥१६॥चाक्षुषे ह्यन्तरे प्राप्ते दक्षः प्राचेतसो नृप ।कश्यपाय ददौ कन्या एकादश मनोहराः ॥१७॥तासां कद्रूश्च या श्रेष्ठा साऽद्यैव रोहिणी स्मृता ।वसुदेवप्रिया यस्यां बलदेवोऽभवत्सुतः ॥१८॥सा कद्रूश्च महासर्पान् जनयामास कोटिशः ।महोद्भटान् विषबलानुग्रान् पंचशताननान् ॥१९॥महाफणिधरान् कांश्चिद्दुःसहांश्च शताननान् ।तेषां वेदशिरा नाम कालियोऽभून्महाफणी ॥२०॥तेषामादौ फणीन्द्रोऽभूच्छेषोऽनन्तः परात्परः ।सोऽद्यैव बलदेवोऽस्ति रामोऽनन्तोऽच्युताग्रजः ॥२१॥एकदा श्रीहरिः साक्षाद्भगवान् प्रकृतेः परः ।शेषं प्राह प्रसन्नात्मा मेघगंभीरया गिरा ॥२२॥श्रीभगवानुवाच - भूमंडलं समाधातुं सामर्थ्यं कस्यचिन्न हि ।तस्मादेनं महीगोलं मूर्ध्नि तं हि समुद्धर ॥२३॥अनंतविक्रमस्त्वं वै यतोऽनन्त इति स्मृतः ।इदं कार्यं प्रकर्तव्यं जनकल्याणहेतवे ॥२४॥शेष उवाच -अवधिं कुरु यावत्त्वं धरोद्धारस्य मे प्रभो ।भूभारं धारयिष्यामि तावत्ते वचनादिह ॥२५॥श्रीभगवानुवाच -नित्यं सहस्रवदनैरुच्चारं च पृथक् पृथक् ।मद्गुणस्फुरतां नाम्नां कुरु सर्पेंद्र सर्वतः ॥२६॥मन्नामानि च दिव्यानि यदा यांत्यवसानताम् ।तदा भूभारमुत्तार्य फणिस्त्वं सुसुखी भव ॥२७॥शेष उवाच -आधारोऽहं भविष्यामि मदाधारश्च को भवेत् ।निराधारः कथं तोये तिष्ठामि कथय प्रभो ॥२८॥श्रीभगवानुवाच -अहं च कमठो भूत्वा धारयिष्यामि ते तनुम् ।महाभारमयीं दीर्घां मा शोचं क्रु मत्सखे ॥२९॥श्रीनारद उवाच -तदा शेषः समुत्थाय नत्वा श्रीगरुडध्वजम् ।जगाम नृप पातालादधो वै लक्षयोजनम् ॥३०॥गृहीत्वा स्वकरेणेदं गरिष्ठं भूमिमंडलम् ।दधार स्वफणे शेषोऽप्येकस्मिंश्चंडविक्रमः ॥३१॥संकर्षणेऽथ पाताले गतेऽनन्तपरात्परे ।अन्ये फणीन्द्रास्तमनु विविशुर्ब्रह्मणोदिताः ॥३२॥अतले वितले केचित्सुतले च महातले ।तलातले तथा केचित्संप्राप्तास्ते रसातले ॥३३॥तेभ्यस्तु ब्रह्मणा दत्तं द्वीपं रमणकं भुवि ।कालियप्रमुखास्तस्मिन् अवसन्सुखसंवृताः ॥३४॥इति ते कथितं राजन् कालियस्य कथानकम् ।भुक्तिदं मुक्तिदं सारं किं भूयः श्रोतुमिच्छसि ॥३५॥इति श्रीगर्गसंहितायां वृन्दावनखण्डे शेषोपाख्यानवर्णनं नाम त्रयोशोऽध्यायः ॥१३॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP