संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|वृन्दावनखण्डः| अध्यायः २२ वृन्दावनखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ वृन्दावनखण्डः - अध्यायः २२ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता रासक्रीडा वर्णनम् Translation - भाषांतर श्रीनारद उवाच -अथ कृष्णगुणान् रम्यान् समेताः सर्वयोषितः ।जगुस्तालस्वरैः रम्यैः कृष्णागमनहेतवे ॥१॥गोप्य ऊचुः -लोकाभिराम जनभूषण विश्वदीपकंदर्पमोहन जगद्वृजिनार्तिहारिन् ।आनंदकंद यदुनंदन नंदसूनोस्वच्छन्दपद्ममकरंद नमो नमस्ते ॥२॥गोविप्रसाधुविजयध्वज देववंद्यकंसादिदैत्यवधहेतुकृतावतार ।श्रीनंदराजकुलपद्मदिनेश देवदेवादिमुक्तजनदर्पण ते जयोऽस्तु ॥३॥गोपालसिंधुपरमौक्तिक रूपधारिन्गोपालवंशगिरिनीलमणे परात्मन् ।गोपालमंडलसरोवरकञ्जमूर्तेगोपालचन्दनवने कलहंसमुख्य ॥४॥श्रीराधिकावदनपंकज षट्पदस्त्वंश्रीराधिकावदनचंद्रचकोररूपः ।श्रीराधिकाहृदयसुन्दरचन्द्रहारश्रीराधिकामधुलताकुसुमाकरोऽसि ॥५॥यो रासरंगनिजवैभवभूरिलीलायो गोपिकानयनजीवनमूलहारः ।मानं चकार रहसा किल मानवत्यांसोऽयं हरिर्भवतु नो नयनाग्रगामी ॥६॥यो गोपिकासकलयूथमलंचकारवृंदावनं च निजपादरजोभिरद्रिम् ।यः सर्वलोकविभवाय बभूव भूमौतं भूरिलीलमुरगेंद्रभुजं भजामः ॥७॥चंद्रं प्रतप्तकिरणज्वलनं प्रसन्नंसर्वं वनांतमसिपत्रवनप्रवेशम् ।बाणं प्रभंजनमतीव सुमन्दयानंमन्यामहे किल भवन्तमृते व्यथार्ताः ॥८॥सौदासराजमहिषीविरहादतीवजातं सहस्रगुणितं नलपट्टराज्ञ्याः ।तस्मात्तु कोटिगुणितं जनकात्मजायाःतस्मादनंतमतिदुःखमलं हरे नः ॥९॥श्रीउद्धवः सकलभक्तशिरोमणीशःत्वत्पादपद्मवरमुख्यधिकारकारी ।तस्माद्वयं च चरणौ शरणं गताः स्मःश्रीमन् कृपां क्रु शण्यपदे शरण्ये ॥१०॥श्रीनारद उवाच -इत्थं राज रुदन्तीनां गोपीनां कमलेक्षणः ।आविर्बभूव सहसा स्वयमर्थमिवात्मनः ॥११॥स्फुरत्किरीटकेयूर कुंडलांगदभूषणम् ।स्निग्धामलसुगन्धाढ्यनीलकुंचितकुंतलम् ॥१२॥आगतं वीक्ष्य युगपत् समुत्तस्थुर्व्रजांगनाः ।तन्मात्राणि च यं दृष्ट्वा यथा ज्ञानेंद्रियाणि च ॥१३॥हरिर्ननर्त तन्मध्ये वंशीवादनतत्परः ।राधया सहितो राजन् यथा रत्या रतीश्वरः ॥१४॥यावतीर्गोपिकाः सर्वास्तावद्रूपधरो हरिः ।गच्छन् ताभिर्व्रजे रेमे स्वावस्थाभिर्मनो यथा ॥१५॥वनोद्देशे स्थितं कृष्णं गतदुःखा व्रजांगनाः ।कृतांजलिपुटा ऊचुर्गिरा गद्गदया हरिम् ॥१६॥गोप्य ऊचुः -क्व गतस्त्वं वद हरे त्यक्त्वा गोपीगणो महान् ।सर्वं जगत्तृणीकृत्य त्वत्पादे प्राप्तमानसम् ॥१७॥श्रीभगवानुवाच - हे गोप्यः पुष्करद्वीपे हंसो नाम महामुनिः ।समुद्रे दधिमंडोदे ततापान्तर्गतस्तपः ॥१८॥चकाराहैतुकीं भक्तिं मम ध्यानपरायणः ।व्यतीतं तस्य तपतो गोप्यो मन्वन्तरद्वयम् ॥१९॥तमद्यैवाग्रसन्मत्स्यो योजनार्धवपुर्धरः ।तन्निर्जगार पौंड्रस्तु मत्स्यरूपधरोऽसुरः ॥२०॥एवं संप्राप्तकष्टस्य हंसस्यापि मुनेरहम् ।गत्वाऽथ शीघ्रेण तयोः शिरश्छित्वाऽरिणा मुनिम् ॥२१॥मोचयित्वाऽथ गतवान् श्वेतद्वीपे व्रजांगनाः ।क्षीराब्धौ शेषपर्यंके शयनं तु मया कृतम् ॥२२॥दुःखिता भवतीर्ज्ञात्वा निद्रां त्यक्त्वा ततः प्रियाः ।सहसा भक्तवश्योऽहं पुनरागतवानिह ॥२३॥जानन्ति सन्तः समदर्शोनि येदान्ता महान्तः किल नैरपेक्ष्याः ।ते नैरपेक्ष्यं परमं सुखं मेज्ञानेन्द्रियादीनि यथा रसादीन् ॥२४॥गोप्य ऊचुः -क्षीराब्दौ शेषपर्यंके यद्रूपं च त्वया धृतम् ।तद्रूपदर्शनं देहि यदि प्रीतोऽसि माधव ॥२५॥श्रीनारद उवाच -तथाऽस्तु चोक्त्वा भगवान् गोपीव्यूहस्य पश्यतः ।दधाराष्टभुजं रूपं श्रीराधारूपमेव च ॥२६॥तत्र क्षीरसमुद्रोऽभूल्लोलकल्लोलमण्डितः ।दिव्यानि रत्नसौधानि बभूवुर्मंगलानि च ॥२७॥तत्र शेषो बिसश्वेतः कुण्डलीभूतसंस्थितः ।बालार्कमौलिसाहस्रफणाच्छत्रविराजितः ॥२८॥तस्मिन् वै शेषपर्यङ्के सुखं सुष्वाप माधवः ।तस्य श्रीरूपिणी राधा पादसेवां चकार ह ॥२९॥तद्रूपं सुंदरं दृष्ट्वा कोटिमार्तण्डसन्निभम् ।नत्वा गोपीगणाः सर्वे विस्मयं परमं गताः ॥३०॥गोपीभ्यो दर्शनं दत्तं यत्र कृष्णेन मैथिल ।तत्र क्षेत्रं महापुण्यं जातं पापप्रणाशनम् ॥३१॥अथ गोपीगणैः सार्धं यमुनामेत्य माधवः ।कालिन्दीजलवेगेषु जलकेलिं चकार ह ॥३२॥राधाकराल्लक्षदलं पद्मं पीताम्बरं तथा ।धावन् जलेषु गतवान् प्रहसन् माधवः स्वयम् ॥३३॥राधा हरेः पीतपटं वशीवेत्रस्फुरत्प्रभम् ।गृहीत्वा प्रसहन्ती सा गच्छन्ती यमुनाजले ॥३४॥वंशीं देहीति वदतः श्रीकृष्णस्य महात्मनः ।राधा जगाद कमलं वासो देहीति माधव ॥३५॥कृष्णो ददौ राधिकायै पद्ममंबरमेव च ।राधा ददौ पीतपटं वेत्रं वंशीं महात्मने ॥३६॥अथ कृष्णः कलं गायन् मालामाजानुलंबिताम् ।वैजन्तीमादधानः श्रीभाण्डीरं गजाम ह ॥३७॥प्रियायास्तत्र शृङ्गारं चकार कुशलेश्वरः ।पत्रावलीयावकाग्रैः पुष्पैः कंजलकुंकुमैः ॥३८॥चंदनागुरुकस्तूरी केसराद्यैर्हरेर्मुखे ।पत्रं चकार शृङ्गारे मनोज्ञं कीर्तिनन्दिनी ॥३९॥इति श्रीगर्गसंहितायां वृन्दावनखण्डे रासक्रीडावर्णनं नाम द्वाविंशोऽध्यायः ॥२२॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP