संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|गोलोकखण्डः| अध्यायः १९ गोलोकखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० गोलोकखण्डः - अध्यायः १९ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता यमलार्जुनभंग Translation - भाषांतर श्रीनारद उवाच -एकदा गोकुले गोप्यो ममंथुर्दधि सर्वतः ।गृहे गृहे प्रगायन्त्यो गोपालचरितं परम् ॥१॥यशोदापि समुत्थाय प्रातः श्रीनंदमंदिरे ।भांडे रायं विनिक्षिप्य ममंथ दधि सुंदरी ॥२॥मंजीररावं संकुर्वन्बालः श्रीनंदनंदनः ।ननर्त्त नवनीतार्थं रायःशब्दकुतूहलात् ॥३॥बालकेलिर्बभौ नृत्यन्मातुः पार्श्वमनुभ्रमन् ।सुनादिकिंकिणीसंघ झंकारं कारयन्मुहुः ॥४॥हैयंगवीनं सततं नवीनंयाचन्स मातुर्मधुरं ब्रुवन्सः ।आदाय हस्तेऽश्मसुतं रुषा सुधी-र्बिभेद कृष्णो दधिमंथपात्रम् ॥५॥पलायमानं स्वसुतं यशोदाप्रभावती प्राप न हस्तमात्रात् ।योगीश्वराणामपि यो दुरापःकथं स मातुर्ग्रहणे प्रयाति ॥६॥तथापि भक्तेषु च भक्तवश्यताप्रदर्शिता श्रीहरिणा नृपेश्वर ।बालं गृहीत्वा स्वसुतं यशोमतीबबंध रज्ज्वाथ रुषा ह्युलूखले ॥७॥आदाय यद्यद्बहुदाम तत्त-त्स्वल्पं प्रभूतं स्वसुते यशोदा ।गुणैर्न बद्धः प्रकृतेः परो यःकथं स बद्धो भवतीह दाम्ना ॥८॥यदा यशोदा गतबन्धनेच्छाखिन्ना निषण्णा नृप खिन्नमानसा ।आसीत्तदायं कृपया स्वबंधेस्वच्छंदयानः स्ववशोऽपि कृष्णः ॥९॥एष प्रसादो न हि वीरकर्मणांन ज्ञानिनां कर्मधियां कुतः पुनः ।मातुर्यथाऽभून्नृप एषु तस्मा-न्मुक्तिं व्यधाद्भक्तिमलं न माधवः ॥१०॥तदैव गोप्यस्तु समागतास्त्वरंदृष्ट्वाथ भग्नं दधिमंथभाजनम् ।उलूखले बद्धमतीव दामभि-र्भीतं शिशुं वीक्ष्य जगुर्घृणातुराः ॥११॥गोप्य ऊचुः -अस्मद्गृहेषु पात्राणि भिनत्ति सततं शिशुः ।तदप्येनं नो वदामः कारुण्यान्नंदगेहिनि ॥१२॥गतव्यथे ह्यकरुणे यशोदे हे व्रजेश्वरि ।यष्ट्या निर्भर्त्सितो बालस्त्वया बद्धो घटक्षयात् ॥१३॥श्रीनारद उवाच -इत्युक्तायां यशोदायां व्यग्रायां गृहकर्मसु ।कर्षन्नुलूखलं कृष्णो बालैः श्रीयमुनां ययौ ॥१४॥तत्तटे च महावृक्षौ पुराणौ यमलार्जुनौ ।तयोर्मध्ये गतः कृष्णो हसन् दामोदरः प्रभुः ॥१५॥चकर्ष सहसा कृष्णस्तिर्यग्गतमुलूखलम् ।कर्षणेन समूलौ द्वौ पेततुर्भूमिमंडले ॥१६॥पातनेनापि शब्दोऽभूत्प्रचंडो वज्रपातवत् ।विनिर्गतौ च वृक्षाभ्यां देवौ द्वावेधसोऽग्निवत् ॥१७॥दामोदरं परिक्रम्य पादौ स्पृष्टौ स्वमौलिना ।कृतांजली हरिं नत्वा तौ तु तत्संमुखे स्थितौ ॥१८॥देवावूचतुः -आवां मुक्तौ ब्रह्मदण्डात्सद्यस्तेऽच्युत दर्शनात् ।माभूत्ते निजभक्तानां हेलनं ह्यावयोर्हरे ॥१९॥करुणानिधये तुभ्यं जगन्मंगलशीलिने ।दामोदराय कृष्णाय गोविंदाय नमो नमः ॥२०॥श्रीनारद उवाच -इति नत्वा हरिं तौ द्वावुदीचीं च दिशं गतौ ।तदैव ह्यागताः सर्वे नंदाद्या भयकातराः ॥२१॥कथं वृक्षौ प्रपतितौ विना वातं व्रजार्भकाः ।वदताशु तदा बाला ऊचुः सर्वे व्रजौकसः ॥२२॥बाला ऊचुःअनेन पातितौ वृक्षौ ताभ्यां द्वौ पुरुषौ स्थितौ ।एनं नत्वा गतावद्य तावुदीच्यां स्फुरत्प्रभौ ॥२३॥श्रीनारद उवाच -इति श्रुत्वा वचस्तेषां न ते श्रद्दधिरे ततः ।मुमोच नंदः स्वं बालं दाम्ना बद्धमुलूखले ॥२४॥संलालयन्स्वांकदेशे समाघ्राय शिशुं नृप ।निर्भर्त्स्य भामिनीं नंदो विप्रेभ्यो गोशतं ददौ ॥२५॥श्रीबहुलाश्व उवाच -काविमौ पुरुषौ दिव्यौ वद देवर्षिसत्तम ।केन दोषेण वृक्षत्वं प्रापितौ यमलार्जुनौ ॥२६॥श्रीनारद उवाच -नलकूबरमणिग्रीवौ राजराजसुतौ परौ ।जग्मतुर्नंदनवनं मंदाकिन्यास्तटे स्थितौ ॥२७॥अप्सरोभिर्गीयमानौ चेरतुर्गतवाससौ ।वारुणीमदिरामत्तौ युवानौ द्रव्यदर्पितौ ॥२८॥कदाचिद्देवलो नाम मुनींद्रो वेदपारगः ।नग्नौ दृष्ट्वा च तावाह दुष्टशीलौ गतस्मृती ॥२९॥देवल उवाच -युवां वृक्षसमौ दृष्टौ निर्लज्जौ द्रव्यदर्पितौ ।तस्माद्वृक्षौ तु भूयास्तां वर्षाणां शतकं भुवि ॥३०॥द्वापरांते भारते च माथुरे व्रजमंडले ।कलिंदनंदिनीतीरे महावनसमीपतः ॥३१॥परिपूर्णतमं साक्षात्कृष्णं दामोदरं हरिम् ।गोलोकनाथं तं दृष्ट्वा पूर्वरूपौ भविष्यथः ॥३२॥इत्थं देवलशापेन वृक्षत्वं प्रापितौ नृप ।नलकूबरमणिग्रीवौ श्रीकृष्णेन विमोचितौ ॥३३॥इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे यमलार्जुनभंगो नाम एकोनविंशोऽध्यायः ॥१९॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP